०५४

सर्वाष् टीकाः ...{Loading}...

०१ त्वम् अग्ने प्रमतिस्

विश्वास-प्रस्तुतिः ...{Loading}...

त्वम् अग्ने प्रमतिस् त्वं पितासि नस्
त्वं सखा युज्यो ऽसि जातवेदः ।
त्वं विश्वविद् गातुवित् कविर्
विश्वा आशा अभयाः सन्त्व् अस्मे ॥

०२ इदं वर्चो अग्निना

विश्वास-प्रस्तुतिः ...{Loading}...

इदं वर्चो अग्निना दत्तम् आगन्
भर्गो यशः सह ओजो वयो बलम् ।
त्रयस्त्रिंशद् यानि वीर्याणि
तान्य् अग्निः प्र ददातु मे ॥

०३ वर्च आ धेहि

विश्वास-प्रस्तुतिः ...{Loading}...

वर्च आ धेहि मे तन्वां
सह ओजो वयो बलम् ।
इन्द्रियाय त्वा कर्मणे वीर्याय
प्रति गृह्णामि शतशारदाय ॥

०४ ऊर्जे त्वा बलाय

विश्वास-प्रस्तुतिः ...{Loading}...

ऊर्जे त्वा बलाय त्वा-
-ओजसे सहसे त्वा ।
अभिभूयाय त्वा राष्ट्रभृत्याय
पर्य् ऊहामि शतशारदाय ॥

०५ ऋतुभिष् ट्वार्तवैर् आयुषे

विश्वास-प्रस्तुतिः ...{Loading}...

ऋतुभिष् ट्वार्तवैर्
आयुषे वर्चसे त्वा ।
संवत्सरस्य तेजसा
तेन संहनु कृण्मसि ॥