०५३

सर्वाष् टीकाः ...{Loading}...

०१ अग्ने यशस्विन् यशसा

विश्वास-प्रस्तुतिः ...{Loading}...

अग्ने यशस्विन् यशसा वर्धयेमम्
इन्द्रावतीम् उपचितिम् इहा वह ।
अयं मूर्धा परमेष्ठी सुवर्चाः
समानानाम् उत्तमश्लोको अस्तु ॥

०२ धाता विधर्ता परमोत

विश्वास-प्रस्तुतिः ...{Loading}...

धाता विधर्ता परमोत संदृक्
प्रजापतिः परमेष्ठी विराट् ।
स्तोमाश् छन्दांसि निविदो म आहुस्
ते अस्मै राष्ट्रम् उप सं नमन्तु ॥

०३ भद्रम् इच्छन्त ऋषयः

विश्वास-प्रस्तुतिः ...{Loading}...

भद्रम् इच्छन्त ऋषयः स्वर्विदस्
तपो दीक्षाम् उप नि षेदुर् अग्रे ।
ततो राष्ट्रं बलम् ओजश् च जातं
तद् अस्मै देवा उप सं नमन्तु ॥

०४ उपा वर्तध्वम् उप

विश्वास-प्रस्तुतिः ...{Loading}...

उपा वर्तध्वम् उप न एत सर्वे
ऽयं चेत्ताधिपतिर् वो अस्तु
समानं मन्त्रम् अभि मन्त्रयाध्वा
इमं पश्चाद् उप जीवाथ सर्वे ॥