०५०

सर्वाष् टीकाः ...{Loading}...

०१ यद् एयथ परेयथ

विश्वास-प्रस्तुतिः ...{Loading}...

यद् एयथ परेयथ
यत् ते तन् मन ईयते ।
ततस् त्वा पुनर् अर्वाञ्चं
भूतस्याजीगमत् पतिः ॥

०२ आ त्वा नयाद्

विश्वास-प्रस्तुतिः ...{Loading}...

आ त्वा नयाद् भूतपतिर्
आ देवो बृहस्पतिः ।
आदित्याः सर्वे त्वा नेषन्
विश्वे देवाः सुवर्चसः ॥

०३ अनुमतिः सरस्वती भगो

विश्वास-प्रस्तुतिः ...{Loading}...

अनुमतिः सरस्वती
भगो राजा न्य् आ नयात् ।
शाला मानस्य पत्नी-
-इहैवास्य मनस् करत् ॥

०४ यस् त्वा निनानयकः

विश्वास-प्रस्तुतिः ...{Loading}...

यस् त्वा निनानयकः
स उ त्वेहा नयात् पुनः ।
मनो हि ब्रह्माणो विदुर्
विश्वकर्मा मनीषिणः ॥