०४९

सर्वाष् टीकाः ...{Loading}...

०१ कृतं मे दक्षिणे

विश्वास-प्रस्तुतिः ...{Loading}...

कृतं मे दक्षिणे हस्ते
सव्ये मे जय आहितः ।
गोजिद् भूयासम् अश्वजित्
कृतंचयो हिरण्यजित् ॥

०२ अक्षाः फलवतीं दिवम्

विश्वास-प्रस्तुतिः ...{Loading}...

अक्षाः फलवतीं दिवं
दत्त गां क्षीरिणीम् इव ।
सं मा कृतस्य धारया
धनुः स्नाव्नेव नह्यत ॥

०३ उभौ हस्तौ प्रतिदीव्नो

विश्वास-प्रस्तुतिः ...{Loading}...

उभौ हस्तौ प्रतिदीव्नो
ब्रह्मणापोम्भामसि ।
कलिर् एनं यथा हनद्
आस्य वेदो भरामहै ॥

०४ आ भद्रं द्वापरम्

विश्वास-प्रस्तुतिः ...{Loading}...

आ भद्रं द्वापरम्
उत त्रेतां परा कलिम् ।
कृतं मे हस्त आहितं
स हि सौमनसो महान् ॥