०४८

सर्वाष् टीकाः ...{Loading}...

०१ अरसस्य शर्कोटस्य नीचीनस्योपसर्पतः

विश्वास-प्रस्तुतिः ...{Loading}...

अरसस्य शर्कोटस्य
नीचीनस्योपसर्पतः ।
विषं हि सर्वम् आदिष्य्
अथो एनम् अजीजभम् ॥

०२ न ते बाह्वो

विश्वास-प्रस्तुतिः ...{Loading}...

न ते बाह्वो रसो अस्ति
न शीर्षे नोत मध्यतः ।
किम् इदं पापयामुया
पुच्छे बिभर्ष्य् अर्भकम् ॥

०३ यत् ते स्कन्धान्

विश्वास-प्रस्तुतिः ...{Loading}...

यत् ते स्कन्धान् उपतस्थौ
विजाम्नि यच् च ते परौ ।
अपमित्यम् इवाभृतं
मलं ते प्रति दध्मसि ॥

०४ अदन्ति त्वा पिपीलिका

विश्वास-प्रस्तुतिः ...{Loading}...

अदन्ति त्वा पिपीलिका
वि वृश्चन्ति मयूर्यः ।
सर्वे भल ब्रवाथ
शार्कोटम् अरसं विषम् ॥