सर्वाष् टीकाः ...{Loading}...
०१ अस्य त्वं ददतः
विश्वास-प्रस्तुतिः ...{Loading}...
अस्य त्वं ददतः सोम राजन्
वर्मेव तन्वं परि पाहि विश्वतः ।
यो ब्रह्मणे राधो विद्धो ददाति
तस्य सोम प्र तिर दीर्घम् आयुः ॥
मूलम् ...{Loading}...
मूलम् (GR)
अस्य त्वं ददतः सोम राजन्
वर्मेव तन्वं परि पाहि विश्वतः ।
यो ब्रह्मणे राधो विद्धो ददाति
तस्य सोम प्र तिर दीर्घम् आयुः ॥
सर्वाष् टीकाः ...{Loading}...
०२ अस्य सोम प्र
विश्वास-प्रस्तुतिः ...{Loading}...
अस्य सोम प्र तिर दीर्घम् आयुर्
अहानीव सूर्यो वासराणि ।
मास्या सुस्रोन् नाशया व्यध्मनो विषं
बहिः शल्यश् चरतु रोगो अस्मात् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अस्य सोम प्र तिर दीर्घम् आयुर्
अहानीव सूर्यो वासराणि ।
मास्या सुस्रोन् नाशया व्यध्मनो विषं
बहिः शल्यश् चरतु रोगो अस्मात् ॥
सर्वाष् टीकाः ...{Loading}...
०३ दानं तृष्णायाः परि
विश्वास-प्रस्तुतिः ...{Loading}...
दानं तृष्णायाः परि पातु विद्धं
दानं क्षुधो दानविद् एव मृत्योः ।
अविष्कन्धो भवतु यो ददात्य्
आ प्यायते पपुरिर् दक्षिणया ॥
मूलम् ...{Loading}...
मूलम् (GR)
दानं तृष्णायाः परि पातु विद्धं
दानं क्षुधो दानविद् एव मृत्योः ।
अविष्कन्धो भवतु यो ददात्य्
आ प्यायते पपुरिर् दक्षिणया ॥
सर्वाष् टीकाः ...{Loading}...
०४ आ प्यायतां पपुरिर्
विश्वास-प्रस्तुतिः ...{Loading}...
आ प्यायतां पपुरिर् दक्षिणया
वर्मेव स्यूतं परि पाहि विश्वतः ।
बहिर् विषं तन्वो अस्त्व् अस्य
स्रंसतां शल्यो अध्य् आरे अस्मात् ॥
मूलम् ...{Loading}...
मूलम् (GR)
आ प्यायतां पपुरिर् दक्षिणया
वर्मेव स्यूतं परि पाहि विश्वतः ।
बहिर् विषं तन्वो अस्त्व् अस्य
स्रंसतां शल्यो अध्य् आरे अस्मात् ॥
सर्वाष् टीकाः ...{Loading}...
०५ ब्रह्मा शरव्याम् अप
विश्वास-प्रस्तुतिः ...{Loading}...
ब्रह्मा शरव्याम् अप बाधताम् इतो
नद्याः कूलान् नावम् इवाधि शम्बी ।
तस्मै ददद् दीर्घम् आयुष् कृणुष्व (Bhatt. dada)
शतं च नः शरदो जीवताद् इह ॥
मूलम् ...{Loading}...
मूलम् (GR)
ब्रह्मा शरव्याम् अप बाधताम् इतो
नद्याः कूलान् नावम् इवाधि शम्बी ।
तस्मै ददद् दीर्घम् आयुष् कृणुष्व (Bhatt. dada)
शतं च नः शरदो जीवताद् इह ॥
सर्वाष् टीकाः ...{Loading}...
०६ यदा ददाति प्रददाति
विश्वास-प्रस्तुतिः ...{Loading}...
यदा ददाति प्रददाति यदा
ब्रह्मा प्रतिगृह्णाति राधो अस्य ।
आद् इद् विद्याद् उपहत्यारातिः
सर्वे यक्ष्मा अप तिष्ठन्तु साकम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
यदा ददाति प्रददाति यदा
ब्रह्मा प्रतिगृह्णाति राधो अस्य ।
आद् इद् विद्याद् उपहत्यारातिः
सर्वे यक्ष्मा अप तिष्ठन्तु साकम् ॥