०४५

सर्वाष् टीकाः ...{Loading}...

०१ सारस्वतं वृषणं बभ्रुवक्षम्

विश्वास-प्रस्तुतिः ...{Loading}...

सारस्वतं वृषणं बभ्रुवक्षं
शीतरूरे तन्वाव् अस्य भीमे ।
अन्येद्युकं सदन्दिं त्वा तृतीयक
हुवे नमस्यं सहदेवम् अप्सुजम् ॥

०२ यो अप्सुजो अरुणो

विश्वास-प्रस्तुतिः ...{Loading}...

यो अप्सुजो अरुणो मानुषे जने
विवेश बभ्रुर् हर्षयिष्णुर् अक्षितः ।
शीतरूराय तर्षयिष्णवे
जुगुशीर्षसावयेशं नमो अस्तु देवाः ॥

०३ यो हर्षयञ् जञ्जभः

विश्वास-प्रस्तुतिः ...{Loading}...

यो हर्षयञ् जञ्जभः स्वेदनो वशी
वशः प्रारः शीतरूराशिषे मनून् ।
सो अस्मभ्यं मृडयन् प्रेहि संशितो +++(Bhatt. saṃsito)+++
यं वयं द्विष्मस् तम् अभि प्रजानन् ॥

०४ नमस् ते विद्म

विश्वास-प्रस्तुतिः ...{Loading}...

नमस् ते विद्म ते कासनायनं
यतोयतः सुरभे संबभूविथ ।
स नो मा हिंसीर् नमो अस्तु तुभ्यं
शीर्षक्त्या यक्ष्माद् इह पारया नः ॥ +++(Bhatt. -yasmād)+++