०४२

सर्वाष् टीकाः ...{Loading}...

०१ याः सेना अभीत्वरीर्

विश्वास-प्रस्तुतिः ...{Loading}...

याः सेना अभीत्वरीर्
आव्याधिनीर् उगणा उत ।
य स्तेनो यश् च तस्करस्
तांस् ते अग्ने ऽपि दधाम्य् आसनि ॥

०२ जम्भैर् मलिम्लून् अग्ने

विश्वास-प्रस्तुतिः ...{Loading}...

जम्भैर् मलिम्लून् अग्ने
दंष्ट्राभ्यां तस्कारान् उत ।
हनूभ्यां स्तेनान् मघवन्
तांस् त्वं खाद सुखादितान् ॥

०३ ये ग्रामेषु मलिम्लुच

विश्वास-प्रस्तुतिः ...{Loading}...

ये ग्रामेषु मलिम्लुच
स्तेनासस् तस्करा वने ।
ये कक्षेष्व् अघायवस्
तांस् ते ऽग्ने ऽपि दधाम्य् आसनि ॥

०४ यो अस्मभ्यम् अरातीयाद्

विश्वास-प्रस्तुतिः ...{Loading}...

यो अस्मभ्यम् अरातीयाद्
यश् च नो द्वेषद् इज् जनः ।
आमादः क्रव्यादो रिपूंस्
तान् अग्ने सं दहा त्वम् ॥