०४१

सर्वाष् टीकाः ...{Loading}...

०१ अग्ने ऽभ्यावर्तिन्न् अभि

विश्वास-प्रस्तुतिः ...{Loading}...

अग्ने ऽभ्यावर्तिन्न्
अभि न आ ववृत्स्व ।
आयुषा वर्चसा सन्या
मेधया प्रजया धनेन ॥

०२ अग्ने जातवेदः शतम्

विश्वास-प्रस्तुतिः ...{Loading}...

अग्ने जातवेदः
शतं ते सन्त्व् आवृतः
सहस्रं त उपावृतः ।
अधा पुष्टस्येशानः
पुनर् नो रयिम् आ कृधि ॥

०३ सह रय्या नि

विश्वास-प्रस्तुतिः ...{Loading}...

सह रय्या नि वर्तस्व-
-अग्ने पिन्वस्व धारया ।
विश्वप्स्न्या विश्वतस् परि ॥

०४ पुनर् ऊर्जा ववृत्स्व

विश्वास-प्रस्तुतिः ...{Loading}...

पुनर् ऊर्जा ववृत्स्व
पुनर् अग्ने विशायुषा ।
पुनर् नः पाह्य् अंहसः ॥