०३७

सर्वाष् टीकाः ...{Loading}...

०१ उभयीर् अहम् आयाताः

विश्वास-प्रस्तुतिः ...{Loading}...

उभयीर् अहम् आयाताः
पराचीर् अकरं त्वत् ।
देवेभिर् अन्या अस्ता
बह्वीर् अन्या अथो दिवम् ॥

०२ नमस् ते रुद्रास्यते

विश्वास-प्रस्तुतिः ...{Loading}...

नमस् ते रुद्रास्यते
नमः प्रतिहिताभ्यः ।
नमो विसृज्यमानाभ्यो
नमो निपतिताभ्यः ॥

०३ हिरण्ययीर् म उल्बण्यः

विश्वास-प्रस्तुतिः ...{Loading}...

हिरण्ययीर् म उल्बण्यः
षट् सहराणि षट् शता ।
ताभिः परि श्रयामहे
ता नो रक्षन्तु सर्वतः ।
बह्व् इदम् अन्यद् विष्ठितं
तस्य कामं वि विध्यत ॥

०४ अयस्मयं मे विमितम्

विश्वास-प्रस्तुतिः ...{Loading}...

अयस्मयं मे विमितं
युष्मद् भिया महत् कृतं
नमसा नमसेन्यम् ।
तेना परि श्रयामहे
तन् नो रक्षन्तु सर्वतः ।
(…) ॥ (see 3ef)

०५ अयस्मयं वर्म कृण्वे

विश्वास-प्रस्तुतिः ...{Loading}...

अयस्मयं वर्म कृण्वे
द्वारं कृण्वे अयस्मयम् ।
खीलान् अयस्मयान् कृण्वे
ते नो रक्षन्तु सर्वतः ।
बह्व् इदम् अन्यद् विष्ठितं
तस्य कामं वि विध्यत ॥