०३३

सर्वाष् टीकाः ...{Loading}...

०१ आपो अद्यान्व् अचारिषम्

विश्वास-प्रस्तुतिः ...{Loading}...

आपो अद्यान्व् अचारिषं
रसेन सम् असृक्ष्महि ।
पयस्वान् अग्न आगमं
तं मा सं सृज वर्चसा ॥

०२ सं माग्ने वर्चसा

विश्वास-प्रस्तुतिः ...{Loading}...

सं माग्ने वर्चसा सृज
प्रजया च बहुं कृधि ।
विद्युर् मे अस्य देवा
इन्द्रो विद्यात् सह र्षीभिः ॥

०३ इदम् आपः प्र

विश्वास-प्रस्तुतिः ...{Loading}...

इदम् आपः प्र वहत-
-अवद्यं च मलं च यत् ।
यच् च दुद्रोहानृतं
यच् च शेपे अभीरुणम् ॥

०४ शिवेन मा चक्षुषा

विश्वास-प्रस्तुतिः ...{Loading}...

शिवेन मा चक्षुषा पश्यतापः
शिवया तन्वोप स्पृशत त्वचं मे ।
शिवान् अग्नीन् अप्सुषदो हवामहे
मयि क्षत्रं वर्च आ धत्त देवीः ॥

०५ यद् आपो नक्तम्

विश्वास-प्रस्तुतिः ...{Loading}...

यद् आपो नक्तं मिथुनं चचार
यद् वा दुद्रोह दुरितं पुराणम् ।
हिरण्यवर्णास् तत उत् पुनन्तु मा
प्र मा मुञ्चन्तु वरुणस्य पाशात् ॥