०३१

सर्वाष् टीकाः ...{Loading}...

०१ इमं मे कुष्ठ

विश्वास-प्रस्तुतिः ...{Loading}...

इमं मे कुष्ठ पूरुषं
तम् आ वह तं निष् कृधि ।
तम् उ मे अगदं कृधि ॥

०२ उदङ् जातो हिमवतः

विश्वास-प्रस्तुतिः ...{Loading}...

उदङ् जातो हिमवतः (Bhatt. udag)
स प्राच्यां नीयसे जनम् ।
तत्र कुष्ठस्य नामान्य्
उत्तमानि वि भेजिरे ॥

०३ उत्तमो नामास्य् उत्तमो

विश्वास-प्रस्तुतिः ...{Loading}...

उत्तमो नामास्य्
उत्तमो नाम ते पिता ।
यतः कुष्ठ प्रजायसे
तत एह्य् अरिष्टतातये ॥

०४ शीर्षहत्याम् उपहत्याम् अक्ष्योस्

विश्वास-प्रस्तुतिः ...{Loading}...

शीर्षहत्याम् उपहत्याम्
अक्ष्योस् तन्वो रपः ।
कुष्ठो नो विश्वतस् पातु
दैवं समह वृष्ण्यम् ॥