०२६

सर्वाष् टीकाः ...{Loading}...

०१ सुपर्णो जातः प्रथमस्

विश्वास-प्रस्तुतिः ...{Loading}...

सुपर्णो जातः प्रथमस्
तस्य त्वं पित्तम् आसिथ ।
तद् आसुरी युधा जीता
रूपं चक्रे वनस्पतीन् ॥

०२ आसुरी चक्रे प्रथमा

विश्वास-प्रस्तुतिः ...{Loading}...

आसुरी चक्रे प्रथमा-
-इदं किलासभेषजम्
इदं किलासनाशनम् ।
अनीनशत् किलासं
सरूपाम् अकरत् त्वचम् ॥

०३ सरूपा नाम ते

विश्वास-प्रस्तुतिः ...{Loading}...

सरूपा नाम ते माता
सरूपो नाम ते पिता ।
सरूपकृत् त्वम् ओषधे
सा सरूपम् इदं कृधि ॥

०४ यत् तनूजं यद्

विश्वास-प्रस्तुतिः ...{Loading}...

यत् तनूजं यद् अग्निजं
चित्रं किलासं जज्ञिषे ।
तद् अस्तु सुत्वक् तन्वो
यतस् त्वापनयामसि ॥

०५ श्यामा सरूपङ्करणी पृथिव्या

विश्वास-प्रस्तुतिः ...{Loading}...

श्यामा सरूपंकरणी
पृथिव्या अध्य् उद्भृता ।
इदम् ऊ षु प्र साधय
पुना रूपाणि कल्पय ॥