०२५

सर्वाष् टीकाः ...{Loading}...

०१ हिरण्यवर्णाः शुचयः पावका

विश्वास-प्रस्तुतिः ...{Loading}...

हिरण्यवर्णाः शुचयः पावका
यासु जातः कश्यपो यास्व् इन्द्रः ।
या अग्निं गर्भं दधिरे सुवर्णास्
ता न आपः शं स्योना भवन्तु ॥

०२ यासां राजा वरुणो

विश्वास-प्रस्तुतिः ...{Loading}...

यासां राजा वरुणो याति मध्ये
सत्यानृते अवपश्यञ् जनानाम् ।
(…) ॥ (see 1cd)

०३ यासां देवा दिवि

विश्वास-प्रस्तुतिः ...{Loading}...

यासां देवा दिवि कृण्वन्ति भक्षं
या अन्तरिक्षे बहुधा भवन्ति ।
या अग्निं गर्भं दधिरे सुवर्णाः
(…) ॥ (see 1d)

०४ शिवेन मा चक्षुषा

विश्वास-प्रस्तुतिः ...{Loading}...

शिवेन मा चक्षुषा पश्यतापः
शिवया तन्वोप स्पृशत त्वचं मे ।
घृतश्चुतः शुचयो याः पावकास्
ता न आपः शं स्योना भवन्तु ॥