०२४

सर्वाष् टीकाः ...{Loading}...

०१ सं सं स्रवन्तु

विश्वास-प्रस्तुतिः ...{Loading}...

सं सं स्रवन्तु सिन्धवः
सं वाता दिव्या उत ।
तेभिर् मे सर्वैः संस्रावैर्
धनं सं स्रावयामसि ॥

०२ ये संस्रावाः संस्रवन्ति

विश्वास-प्रस्तुतिः ...{Loading}...

ये संस्रावाः संस्रवन्ति
क्षीरस्य चोदकस्य च ।
तेभिर् मे सर्वैः संस्रावैर्
धनं सं स्रावयामसि ॥

०३ ये नदीभ्यः संस्रवन्त्य्

विश्वास-प्रस्तुतिः ...{Loading}...

ये नदीभ्यः संस्रवन्त्य्
उत्सासः सदम् अक्षिताः ।
तेभिर् मे सर्वैः संस्रावैर्
धनं सं स्रावयामसि ॥

०४ इदं हव्या उपेतन

विश्वास-प्रस्तुतिः ...{Loading}...

इदं हव्या उपेतन-
-इदं संस्रावणा उत ।
इहैतु सर्वो यः पशुर्
अस्य वर्धयता रयिम् ॥