०२३

सर्वाष् टीकाः ...{Loading}...

०१ इदं जनासो विदथम्

विश्वास-प्रस्तुतिः ...{Loading}...

इदं जनासो विदथं
महद् ब्रह्म वदिष्यति ।
न तत् पृथिव्यां नो दिवि
यतः प्राणन्ति वीरुधः ॥

०२ अन्तरिक्षे समहासां स्थानम्

विश्वास-प्रस्तुतिः ...{Loading}...

अन्तरिक्षे समहासां
स्थानं श्रान्तसदाम् इव ।
आस्थानम् अस्य भूतस्य
विदुष् टद् वेधसो जनाः ॥

०३ यद् रोदसी रेजमाने

विश्वास-प्रस्तुतिः ...{Loading}...

यद् रोदसी रेजमाने
भूमिश् च निरतक्षताम् ।
आर्द्रं तद् अद्य सर्वदा (Bhatt. ārdaṃ)
भिदुरस्येव वर्तसी ॥

०४ विश्वम् अन्याभि ववार

विश्वास-प्रस्तुतिः ...{Loading}...

विश्वम् अन्याभि ववार
विश्वम् अन्यस्याम् अधि श्रितम् ।
दिवे च विश्ववेदसे
पृथिव्यै चाकरं नमः ॥