०२२

सर्वाष् टीकाः ...{Loading}...

०१ आशानाम् आशापालेभ्यश् चतुर्भ्यो

विश्वास-प्रस्तुतिः ...{Loading}...

आशानाम् आशापालेभ्यश्
चतुर्भ्यो अमृतेभ्यः ।
इदं भूतस्याध्यक्षेभ्यो
विधेम हविषा वयम् ॥

०२ य आशानाम् आशापालाश्

विश्वास-प्रस्तुतिः ...{Loading}...

य आशानाम् आशापालाश्
चत्वार स्थन देवाः ।
ते नो निरृत्याः पाशेभ्यो
मुञ्चतांहसोअंहसः ॥

०३ अश्लोणस् ते हविषा

विश्वास-प्रस्तुतिः ...{Loading}...

अश्लोणस् ते हविषा विधेयम्
अस्रामस् ते घृतेना जुहोमि ।
य आशानाम् आशापालस् तुरीयो
देवः स नः सुभूतम् एह वक्षत् ॥

०४ स्वस्ति मात्र उत

विश्वास-प्रस्तुतिः ...{Loading}...

स्वस्ति मात्र उत पित्रे नो अस्तु
स्वस्ति गोभ्य उत पूरुषेभ्यः ।
विश्वं सुभूतं सुविदत्रम् अस्तु नो
ज्योग् एव दृशेम सूर्यम् ॥