०२१

सर्वाष् टीकाः ...{Loading}...

०१ नासं नशन् स्वयम्

विश्वास-प्रस्तुतिः ...{Loading}...

नासं नशन् स्वयं स्रसन्न् (Bhatt. nāsanna san*)
असतीभ्यो असत्तराः ।
सेहोर् अरसतरा
लवणाद् विक्लेदीयसीः ॥

०२ अपचितः प्र पतत

विश्वास-प्रस्तुतिः ...{Loading}...

अपचितः प्र पतत
सुपर्णो वसतेर् इव ।
सूर्यः कृणोतु भेषजं
चन्द्रमा वो ऽपोच्छतु ॥

०३ एन्य् एका श्येन्य्

विश्वास-प्रस्तुतिः ...{Loading}...

एन्य् एका श्येन्य् एका
कृष्णैका रोहिणी द्वे ।
सर्वासाम् अग्रभं नाम-
-अवीरघ्नीर् अपेतन ॥

०४ असूतिका रामायण्य् अपचित्

विश्वास-प्रस्तुतिः ...{Loading}...

असूतिका रामायण्य्
अपचित् प्र पतिष्यति ।
ग्लौर् इतः प्र पतिष्यति
स गलन्तो नशिष्यति ॥

०५ अपेतो अपचित्वरीर् इन्द्रः

विश्वास-प्रस्तुतिः ...{Loading}...

अपेतो अपचित्वरीर्
इन्द्रः पूषा च चिक्यतुः ।
अपेत्व् अस्य ग्रीवाभ्यो
अप पद्भ्यां विजामतः ॥