०२०

सर्वाष् टीकाः ...{Loading}...

०१ मा नो विदन्

विश्वास-प्रस्तुतिः ...{Loading}...

मा नो विदन् विव्याधिनो
मो अभिव्याधिनो विदन् ।
आराच् छरव्या अस्मद्
विषूचीर् इन्द्र पातय ॥

०२ विष्वञ्चो अस्मच् छरवः

विश्वास-प्रस्तुतिः ...{Loading}...

विष्वञ्चो अस्मच् छरवः पतन्तु
ये अस्ता ये चास्याः ।
देवा मनुष्या ऋषयो
ऽमित्रान् नो वि विध्यतु ॥ (Bhatt. vidhyata*)

०३ यः समानो यो

विश्वास-प्रस्तुतिः ...{Loading}...

यः समानो यो ऽसमानो
ऽमित्रो नो जिघांसति ।
रुद्रः शरव्यया तान्
अमित्रान् नो वि विध्यतु ॥

०४ सबन्धुश् चासबन्धुश् च

विश्वास-प्रस्तुतिः ...{Loading}...

सबन्धुश् चासबन्धुश् च
यो न इन्द्राभिदासति ।
देवास् तं सर्वे धूर्वन्तु
ब्रह्म वर्म ममान्तरम् ॥