०१८

सर्वाष् टीकाः ...{Loading}...

०१ आ यातु मित्र

विश्वास-प्रस्तुतिः ...{Loading}...

आ यातु मित्र ऋतुभिः कल्पमानः
संवेशयन् पृथिवीम् उस्रियाभिः ।
तद् अस्मभ्यं वरुणो वायुर् अग्निर्
बृहद् राष्ट्रं संवेश्यं दधातु ॥

०२ धाता मित्रो वरुणो

विश्वास-प्रस्तुतिः ...{Loading}...

धाता मित्रो वरुणो देवो अग्निर्
इन्द्रस् त्वष्टा प्रति गृह्णन्तु मे वचः ।
हुवे देवीम् अदितिं शूरपुत्रां
सजातानां मध्यमेष्ठाः स्याम् अहम् ॥

०३ हुवे सोमं सवितारम्

विश्वास-प्रस्तुतिः ...{Loading}...

हुवे सोमं सवितारं नमोभिर्
विश्वान् देवाꣳ अहमुत्तरत्वे ।
अयम् अग्निर् दीदायद् आह्नम् एव
सजातैर् इद्धो अप्रतिब्रुवद्भिः ॥

०४ इहेद् असाथ न

विश्वास-प्रस्तुतिः ...{Loading}...

इहेद् असाथ न पुरो गमाथ-
-इर्यो गोपाः पुष्टपतिर् व आजत् ।
अस्मै वः कामायोप कामिनीर्
विश्वे वो देवा उप सं द्याम् इह ॥