०१६

सर्वाष् टीकाः ...{Loading}...

०१ नक्तञ्जातास्य् ओषधे रामे

विश्वास-प्रस्तुतिः ...{Loading}...

नक्तंजातास्य् ओषधे
रामे कृष्णे असिक्नि च ।
इदं रजनि रजय
किलासं पलितं च यत् ॥

०२ किलासं च पलितम्

विश्वास-प्रस्तुतिः ...{Loading}...

किलासं च पलितं च
निर् इतो नाशया पृषत् ।
आ त्वा स्वो अश्नुतां वर्णः
परा श्वेतानि पातय ॥

०३ असितं ते प्रलयनम्

विश्वास-प्रस्तुतिः ...{Loading}...

असितं ते प्रलयनम्
आस्थानम् असितं तव ।
असिक्न्य् अस्य् ओषधे
निर् इतो नाशया पृषत् ॥

०४ अस्थिजस्य किलासस्य तनूजस्य

विश्वास-प्रस्तुतिः ...{Loading}...

अस्थिजस्य किलासस्य
तनूजस्य च यत् त्वचि ।
दूषा कृतस्य ब्रह्मणा
लक्ष्म श्वेतम् अनीनशम् ॥