०१४

सर्वाष् टीकाः ...{Loading}...

०१ विश्वे देवासो अभि

विश्वास-प्रस्तुतिः ...{Loading}...

विश्वे देवासो अभि रक्षतेमम्
उतादित्या जागृत यूयम् अस्मिन् ।
मेमं समान उत वान्यनाभिर्
मेमं प्रापत् पौरुषेयो वधो यः ॥

०२ ये वो देवाः

विश्वास-प्रस्तुतिः ...{Loading}...

ये वो देवाः पितरो ये च पुत्राः
सचेतसो मे शृणुतेदम् उक्तम् ।
सर्वेभ्यो वः परि ददाम्य् एतं
त एनं स्वस्ति जरसे नयाथ ॥

०३ ये देवा दिवि

विश्वास-प्रस्तुतिः ...{Loading}...

ये देवा दिवि ष्ठ ये पृथिव्यां
ये अन्तरिक्ष ओषधीष्व् अप्सु ।
ते कृणुत जरसम् आयुर् अस्मै
शतम् अन्यान् परि वृणक्त मृत्यून् ॥

०४ येषां प्रयाजा उत

विश्वास-प्रस्तुतिः ...{Loading}...

येषां प्रयाजा उत वानुयाजा
हुतभागा अहुतादश् च देवाः ।
येषां वः पञ्च प्रदिशो विभक्तास्
तान् वो अस्मै सत्त्रसदः कृणोमि ॥