०१३

सर्वाष् टीकाः ...{Loading}...

०१ इन्द्रेण दत्तो वरुणेन

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रेण दत्तो वरुणेन शिष्टो
मरुद्भिर् उग्रः प्रयतो न आगन् ।
एतं वां द्यावापृथिवी परि ददामि
स मा तृषत् स मा क्षुधत् ॥

०२ ऊर्जम् अस्मा ऊर्जस्वती

विश्वास-प्रस्तुतिः ...{Loading}...

ऊर्जम् अस्मा ऊर्जस्वती धत्तं
पयो ऽस्मै पयस्वती धत्तम् ।
ऊर्जम् अस्मै द्यावापृथिवी अधातां
विश्वे देवा मरुत ऊर्जम् आपः ॥

०३ शिवा अस्य हृदयम्

विश्वास-प्रस्तुतिः ...{Loading}...

शिवा अस्य हृदयं तर्पयन्त्व्
अनमीवो मोदमानश् चरेह ।
सवासिनौ पिबतां मन्थम् एतम्
अश्विनो रूपं परिधाय मायाम् ॥

०४ तस्य पातारं सचताम्

विश्वास-प्रस्तुतिः ...{Loading}...

तस्य पातारं सचतां पुरीषम्
ऊर्जा स्वधा सचताम् एतम् एषा ।
इन्द्र एतां ससृजे विद्धो अग्र
ऊर्जां स्वधाम् अजरां सा त एषा ।
तया त्वं जीव शरदः सुवर्चा
मा त आ सुस्रोद् भिषजस् ते अक्रन् ॥