सर्वाष् टीकाः ...{Loading}...
०१ तुभ्यम् एव जरिमन्
विश्वास-प्रस्तुतिः ...{Loading}...
तुभ्यम् एव जरिमन् वर्धताम् अयं
मैनम् अन्ये मृत्यवो हिंसिषुस् त्वत् ।
मातेव पुत्रं प्रमना उपस्थे
मित्र एनं मित्र्यात् पात्व् अंहसः ॥
मूलम् ...{Loading}...
मूलम् (GR)
तुभ्यम् एव जरिमन् वर्धताम् अयं
मैनम् अन्ये मृत्यवो हिंसिषुस् त्वत् ।
मातेव पुत्रं प्रमना उपस्थे
मित्र एनं मित्र्यात् पात्व् अंहसः ॥
सर्वाष् टीकाः ...{Loading}...
०२ मित्रश् च त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
मित्रश् च त्वा वरुणश् च रिशादौ
जरामृत्युं कृणुतां संविदानौ । (Bhatt. jarāṃmṛtyuṃ)
तद् अग्निर् होता वयुनानि विद्वान्
विश्वानि देवो जनिमा विवक्ति ॥ (Bhatt. vivaktu; cf. K vakti)
मूलम् ...{Loading}...
मूलम् (GR)
मित्रश् च त्वा वरुणश् च रिशादौ
जरामृत्युं कृणुतां संविदानौ । (Bhatt. jarāṃmṛtyuṃ)
तद् अग्निर् होता वयुनानि विद्वान्
विश्वानि देवो जनिमा विवक्ति ॥ (Bhatt. vivaktu; cf. K vakti)
सर्वाष् टीकाः ...{Loading}...
०३ द्यौष् टे पिता
विश्वास-प्रस्तुतिः ...{Loading}...
द्यौष् टे पिता पृथिवी माता
जरां मृत्युं कृणुतं दीर्घम् आयुः ।
यथा जीवा अदित्या उपस्थे
प्राणापानाभ्यां गुपितः शतं हिमाः ॥
मूलम् ...{Loading}...
मूलम् (GR)
द्यौष् टे पिता पृथिवी माता
जरां मृत्युं कृणुतं दीर्घम् आयुः ।
यथा जीवा अदित्या उपस्थे
प्राणापानाभ्यां गुपितः शतं हिमाः ॥
सर्वाष् टीकाः ...{Loading}...
०४ त्वम् ईशिषे पशूनाम्
विश्वास-प्रस्तुतिः ...{Loading}...
त्वम् ईशिषे पशूनां पार्थिवानां
ये जाता उत ये जनित्वाः । (Bhatt. janitvā)
मैनं प्राणो हासीन् मो अपानो
मैनं मित्रा वधिषुर् मो अमित्राः ॥
मूलम् ...{Loading}...
मूलम् (GR)
त्वम् ईशिषे पशूनां पार्थिवानां
ये जाता उत ये जनित्वाः । (Bhatt. janitvā)
मैनं प्राणो हासीन् मो अपानो
मैनं मित्रा वधिषुर् मो अमित्राः ॥