०११

सर्वाष् टीकाः ...{Loading}...

०१ अभीवर्तेन मणिना येनेन्द्रो

विश्वास-प्रस्तुतिः ...{Loading}...

अभीवर्तेन मणिना
येनेन्द्रो अभिवावृते ।
तेनेमं ब्रह्मणस्पते
अभि राष्ट्राय वर्तय ॥

०२ अभिवृत्तः सपत्ना अभि

विश्वास-प्रस्तुतिः ...{Loading}...

अभिवृत्तः सपत्ना-
-अभि या नो अरातयः ।
अभि पृतन्यन्तं तिष्ठ-
-अभि यो नो दुरस्यति ॥

०३ अभि त्वा देवः

विश्वास-प्रस्तुतिः ...{Loading}...

अभि त्वा देवः सविता-
-अभि सोमो अवीवृतत् ।
अभि त्वा विश्वा भूतान्य्
अभीवर्तो यथाससि ॥

०४ उद् असौ सूर्यो

विश्वास-प्रस्तुतिः ...{Loading}...

उद् असौ सूर्यो अगाद्
उदितं मामकं वचः ।
यथाहं शत्रुहासान्य्
असपत्नः सपत्नहा ॥

०५ सपत्नक्षयणो वृषा अभिराष्ट्रो

विश्वास-प्रस्तुतिः ...{Loading}...

सपत्नक्षयणो वृषा-
-अभिराष्ट्रो विषासहिः ।
यथाहम् एषां वीराणां
विराजानि जनस्य च ॥