०१०

सर्वाष् टीकाः ...{Loading}...

०१ सीसायान्व् आह वरुणः

विश्वास-प्रस्तुतिः ...{Loading}...

सीसायान्व् आह वरुणः
सीसायाग्निर् उपावति ।
सीसं म इन्द्रः प्रायच्छद्
अमीवायास् तु चातनम् ॥

०२ इदं विष्कन्धं सहत

विश्वास-प्रस्तुतिः ...{Loading}...

इदं विष्कन्धं सहत
इदं बाधते अत्रिणः । +++(Bhatt. attriṇaḥ+)+++
अनेन विश्वा सासहै
या जातानि पिशाच्याः ॥

०३ ये ऽमावास्यां रात्रिम्

विश्वास-प्रस्तुतिः ...{Loading}...

ये ऽमावास्यां रात्रिम्
उदस्थुर् भ्राजम् अत्रिणः । +++(Bhatt. attriṇaḥ+)+++
अग्निस् तुरीयो यातुहा
स उ नः पातु तेभ्यः ॥

०४ यदि हंस्य् अश्वम्

विश्वास-प्रस्तुतिः ...{Loading}...

यदि हंस्य् अश्वं
यदि गां यदि पूरुषम् ।
सीसेन विध्यामस् त्वा
यथा नो ऽसो अवीरहा ॥