००९

सर्वाष् टीकाः ...{Loading}...

०१ अयं देवानाम् असुरो

विश्वास-प्रस्तुतिः ...{Loading}...

अयं देवानाम् असुरो वि राजति
वशा हि सत्या वरुणस्य राज्ञः ।
ततस् परि ब्रह्मणा शाशदान
उग्रस्य मन्योर् उद् इमं नयामि ॥

०२ नमस् ते राजन्

विश्वास-प्रस्तुतिः ...{Loading}...

नमस् ते राजन् वरुणास्तु मन्यवे
विश्वं हि देव निचिकेषि द्रुग्धम् ।
शतं सहस्रं प्र सुवाम्य् अन्यान्
अयं नो जीवन् शरदो व्यापेत् ॥ +++(Bhatt. jīvaṃ)+++

०३ यद् उवक्थानृतं जिह्वया

विश्वास-प्रस्तुतिः ...{Loading}...

यद् उवक्थानृतं
जिह्वया वृजिनं बहु ।
राज्ञस् त्वा सत्यधर्मणो
मुञ्चामि वरुणाद् अहम् ॥

०४ अमुञ्चं त्वा वैश्वानराद्

विश्वास-प्रस्तुतिः ...{Loading}...

अमुञ्चं त्वा वैश्वानराद्
अर्णवान् महतस् परि ।
सजातान् उग्र आ वद
ब्रह्म चाप चकीहि नः ॥