००८

सर्वाष् टीकाः ...{Loading}...

०१ अमुष्माद् अधि पर्वताद्

विश्वास-प्रस्तुतिः ...{Loading}...

अमुष्माद् अधि पर्वताद्
अवत्कम् असि भेषजम् ।
भेषजं सुभेषजं
यत् ते कृणोमि भेषजम् ॥

०२ आद् अङ्गा कुविद्

विश्वास-प्रस्तुतिः ...{Loading}...

आद् अङ्गा कुविद् अङ्गा
शतं यद् भेषजानि ते
सहस्रं वा घ यानि ते ।
तेषाम् असि त्वम् उत्तमम्
अनास्रावम् अरोगणम् ॥

०३ अरुस्यानम् इदं महत्

विश्वास-प्रस्तुतिः ...{Loading}...

अरुस्यानम् इदं महत्
पृथिव्या अध्य् उद्भृतम् ।
तद् आस्रावस्य भेषजं
तद् उ रोगम् अनीनशत् ॥

०४ उपजीका उद् भरन्ति

विश्वास-प्रस्तुतिः ...{Loading}...

उपजीका उद् भरन्ति
समुद्राद् अधि भेषजम् ।
अरुस्यानम् अस्य् आथर्वणं
रोगस्थानम् अस्य् आथर्वणम् ॥