००७

सर्वाष् टीकाः ...{Loading}...

०१ दिव्यो गन्धर्वो भुवनस्य

विश्वास-प्रस्तुतिः ...{Loading}...

दिव्यो गन्धर्वो भुवनस्य यस् पतिर्
एकायुवो नमसा विक्ष्व् ईड्यः ।
तं त्वा यौमि ब्रह्मणा देव दिव्य
नमस् ते अस्तु दिवि ते सधस्थम् ॥

०२ दिव स्पृष्टो यजतः

विश्वास-प्रस्तुतिः ...{Loading}...

दिव स्पृष्टो यजतः सूर्यत्वग्
अवयाता हरसो दैव्यस्य ।
एकायुवो नमसा सुशेवो
मृडाद् गन्धर्वो भुवनस्य यस् पतिः ॥

०३ अनवद्याभिः सम् उ

विश्वास-प्रस्तुतिः ...{Loading}...

अनवद्याभिः सम् उ जग्म आभिर्
अप्सराभिर् अपि गन्धर्व आसु ।
समुद्र आसां सदनं म आहुर्
यतः सद्य आ च परा च यन्ति ॥

०४ अभ्रिये दिद्युन् नक्षत्रिये

विश्वास-प्रस्तुतिः ...{Loading}...

अभ्रिये दिद्युन् नक्षत्रिये
या विश्वावसुं गन्धर्वं सचध्वे ।
ताभ्यो वो देवीर् नम इत् कृणोमि ॥

०५ याः क्लन्दास् तमिषीचयो

विश्वास-प्रस्तुतिः ...{Loading}...

याः क्लन्दास् तमिषीचयो
अक्षकामा मनोमुहः ।
ताभ्यो गन्धर्वपत्नीभ्यो
अप्सराभ्यो ऽकरं नमः ॥