००६

सर्वाष् टीकाः ...{Loading}...

०१ ये त्रिषप्ताः परियन्ति

विश्वास-प्रस्तुतिः ...{Loading}...

ये त्रिषप्ताः परियन्ति +++(Bhatt. paryanti)+++
विश्वा रूपाणि बिभ्रतः ।
वाचस्पतिर् बला तेषां
तन्वम् अद्य दधातु मे ॥

०२ उप न एहि

विश्वास-प्रस्तुतिः ...{Loading}...

उप न एहि वाचस्पते
देवेन मनसा सह ।
असोष्पते नि रमय
मय्य् एव तन्वं मम ॥

०३ इहैवाभि वि तनु

विश्वास-प्रस्तुतिः ...{Loading}...

इहैवाभि वि तनु-
-उभे आर्त्नी इव ज्यया ।
वाचस्पतिर् नि यच्छतु
मय्य् एव तन्वं मम ॥

०४ उपहूतो वाचस्पतिर् उपहूतो

विश्वास-प्रस्तुतिः ...{Loading}...

उपहूतो वाचस्पतिर्
उपहूतो ऽहं वचस्पत्युः ।
सं श्रुतेन राधिषीय
मा श्रुतेन वि राधिषि ॥