००५

सर्वाष् टीकाः ...{Loading}...

०१ वषट् ते पूषन्न्

विश्वास-प्रस्तुतिः ...{Loading}...

वषट् ते पूषन्न् अस्यै सुवृक्तिम्
अर्यमा होता कृणोतु वेधाः ।
सिस्रतां नार्य् उतप्रदाता
वि पर्वाणि जिहतां सूतवा उ ॥

०२ चतस्रो दिशः प्रदिशश्

विश्वास-प्रस्तुतिः ...{Loading}...

चतस्रो दिशः प्रदिशश्
चतस्रो भूम्या उत ।
देवा गर्भं सम् ऐरयन्
ते व्य् ऊर्णुवन्तु सूतवे ॥

०३ सुष्टा व्य् ऊर्णोतु

विश्वास-प्रस्तुतिः ...{Loading}...

सुष्टा व्य् ऊर्णोतु
वि योनिं हापयामसि ।
श्रथया सूषणे त्वम्
अव त्वं विष्कले सृज ॥

०४ नेव स्नावसु पर्वसु

विश्वास-प्रस्तुतिः ...{Loading}...

नेव स्नावसु पर्वसु (Bhatt. na parvasu)
न केशेषु नखेषु च ।
अवैतु पृश्नि शेवलं
शुने जराय्व् अत्तवे ॥

०५ नेव मांसे न

विश्वास-प्रस्तुतिः ...{Loading}...

नेव मांसे न पीवसि
नेव कस्मिंश् चनायतम् ।
अव जरायु पद्यताम् ॥