००३

सर्वाष् टीकाः ...{Loading}...

०१ विद्मा शरस्य पितरम्

विश्वास-प्रस्तुतिः ...{Loading}...

विद्मा शरस्य पितरं
पर्जन्यं भूरिधायसम् ।
विद्मो ह्य् अस्य मातरं
पृथिवीं विश्वधायसम् ॥

०२ ज्यायके परि णो

विश्वास-प्रस्तुतिः ...{Loading}...

ज्यायके परि णो नम-
-अश्मा भवतु नस् तनूः ।
विरुड्विहि वरीयो ऽरातीर्
अप द्वेषांस्य् आ कृधि ॥

०३ वृक्षं यद् गावः

विश्वास-प्रस्तुतिः ...{Loading}...

वृक्षं यद् गावः परिषस्वजाना
अनस्फुरं शरम् अर्चन्त्य् ऋभुम् ।
शरम् अस्मद् यावय दिद्युम् इन्द्र
शं नो भवन्त्व् अप ओषधीर् इमाः ॥

०४ इन्द्रस्य वज्रो अप

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रस्य वज्रो अप हन्तु रक्षस
आराद् विसृष्टा इषवः पतन्त्व् अस्मत् ॥