००२

सर्वाष् टीकाः ...{Loading}...

०१ अम्बयो यन्त्य् अध्वभिर्

विश्वास-प्रस्तुतिः ...{Loading}...

अम्बयो यन्त्य् अध्वभिर्
जामयो अध्वरीयताम् ।
पृञ्चतीर् मधुना पयः ॥

०२ अमूर् या उप

विश्वास-प्रस्तुतिः ...{Loading}...

अमूर् या उप सूर्ये
याभिर् वा सूर्यः सह ।
ता नो हिन्वन्त्व् अध्वरम् ॥

०३ अपो देवीर् उप

विश्वास-प्रस्तुतिः ...{Loading}...

अपो देवीर् उप ब्रुवे
यत्र गावः पिबन्ति नः ।
सिन्धुभ्यः कर्त्वं हविः ॥

०४ अप्स्व् अन्तर् अमृतम्

विश्वास-प्रस्तुतिः ...{Loading}...

अप्स्व् अन्तर् अमृतम् अप्सु भेषजम् ।
अपाम् उत प्रशस्तिष्व्
अश्वा भवथ वाजिनः ॥