००१

सर्वाष् टीकाः ...{Loading}...

०१ शं नो देवीर्

विश्वास-प्रस्तुतिः ...{Loading}...

शं नो देवीर् अभिष्टय
आपो भवन्तु पीतये ।
शं योर् अभि स्रवन्तु नः ॥

०२ आपः पृणीत भेषजम्

विश्वास-प्रस्तुतिः ...{Loading}...

आपः पृणीत भेषजं
वरूथं तन्वे मम ।
ज्योक् च सूर्यं दृशे ॥

०३ अप्सु मे सोमो

विश्वास-प्रस्तुतिः ...{Loading}...

अप्सु मे सोमो अब्रवीद्
अन्तर् विश्वानि भेषजा ।
अग्निं च विश्वशंभुवम् ॥

०४ ईशाना वार्याणां क्षयन्तीश्

विश्वास-प्रस्तुतिः ...{Loading}...

ईशाना वार्याणां
क्षयन्तीश् चर्षणीनाम् ।
अपो याचामि भेषजम् ॥