तदेतत् सत्यम्
द्वितीयः खण्डः
कर्मदेवतादिज्ञानं यज्ज्ञानार्थं सदनल्पस्थिरफलवद्भवति तन्मे ब्रूहीति पृष्टवन्तं शौनकं प्रति अङ्गिरा ब्रह्मज्ञानार्थं सत्तादृशफलवद्भवतीति भावेन ब्रह्मस्वरूपं लेशेन निरूप्य इदानीं यज्ज्ञानार्थं सदित्युक्तं तज्ज्ञानार्थत्व- प्रकारमाह- तदेतत्सत्यमित्यादिना ॥
तदेतत् सत्यम् ।
मन्त्रेषु कर्माणि कवयो यान्यपश्यंस्तानि त्रेतायां बहुधा सन्ततानि।
तान्याचरथ नियतं सत्यकामा एष वः पन्थाः सुकृतस्य लोके ॥ १॥
तदेतत्परविद्याविषयतयाऽदृश्यत्वादिगुणकतयोक्तमक्षरं सत्यमपराधीन- स्वरूपं सर्वसत्यताप्रदं चेत्यर्थः । कवयो ज्ञानिनो मन्त्रेषु यानि कर्माणि समाधौ मनसा अपश्यन् तानि त्रेतायां त्रेतायुगे बहुधा सन्ततानि, कृतयुग इव विष्ण्वेकविषयकाणि नाऽऽसन् । किन्तु ’ त्रेतादौ तदशक्त्या हि धर्मोऽन्यस्सम्प्रवर्तते’ इति, ‘पृथक् पृथक् च त्रेतायां यजन्ते देवतागणान्’ इति च स्मृत्या कृतयुग इव विष्ण्वेकनिष्ठतां विना नानाप्रकारेण तत्तद्देव- तोद्देशेन कृत्वाऽन्ते विष्णावपर्यन्तीति बहधा प्रवर्तितान्यासन्नित्यर्थः । सत्यकामास्सत्याख्यभगवज्ज्ञानकामास्सन्तो यूयं तानि कर्माणि नियतं यथा भवति तथाऽचरथानुतिष्ठत । तथाहि कर्मदेवतादिज्ञानम् ‘उत्क्रमिष्यत एवम्भावादित्यौडुलोमि ः ’ ( ब्र. सू. १-४-२२ ) इत्यादि- सूत्रोक्तदिशा तदनुष्ठानेनान्तः करणशुद्धिद्वारा ब्रह्मज्ञानहेतुश्रवणाद्यङ्गं सद् ब्रह्मज्ञानं जनयित्वाऽनन्तफलवद्भवति । अपरममुख्यवृत्त्या कर्मदेवतादि- स्वरूपप्रतिपादकमपि ऋगादिकं परममुख्यवृत्त्याऽक्षरबोधकत्वे परविद्यैव भवतीति भावेनाऽऽह- एष व इति ॥ एषः भगवज्ज्ञानोद्देश्यकः कर्माचारी, वो युष्माकं, सुकृतस्य लोके लोकस्य पन्था मार्ग इत्यर्थः । आचरति बहुवचनोक्त्या प्रष्टा शौनक उपलक्षणमिति सूचितम् ॥ १ ॥ कर्माचारप्रकारमाह- यदेत्यादीना ॥
यदा लेलायते ह्यर्चिः समिद्धे हव्यवाहने ।
तदाऽज्यभागावन्तरेणाऽहुतीः प्रतिपादयेत् ॥ २ ॥
लेलायते परिवर्तते । अर्चिर्त्वाला । समिद्धे, इन्धी दीप्तौ, सम्यक् दीप्यमान इत्यर्थः । आज्यभागावन्तरेण आज्यभागयोर्मध्ये आहुतीः प्रधानहोमान् प्रतिपादयेत् कुर्यात् । तदा एष कर्माचारस्सुकृतस्य पन्था इति योजना । आज्यभागाख्यहोमौ पार्श्वयोः कृत्वा मध्ये होमाः कार्या इत्यर्थः ॥ २ ॥
अग्नौ क्रियमाणकर्मण इतिकर्तव्यतां विपक्षेऽनर्थकथनेनाऽऽह-यस्येति ॥
यस्याग्निहोत्रमदर्शमपौर्णमासमनाग्रयणमतिथिवर्जितं च ।
अहुतमवैश्वदेवमविधिना हुतमासप्तमांस्तस्य लोकान् हिनस्ति ॥ ३ ॥
यस्य पुरुषस्याग्निहोत्रं दर्शपौर्णमासाग्रयणाख्येष्टित्रयानुष्ठानरहितमहुतं काले हुतं न भवति, अवैश्वदेवं वैश्वदेवकर्मरहितम् अविधिना हुतं च तस्य तत्कर्म आसप्तमान् भूलोकमारभ्य सप्तमभूतसत्यलोकपर्यन्तान् लोकान्, भुवर्लोकमारभ्य सप्तमभूतवैकुण्ठलोकपर्यन्तान् लोकान् इति वा, हिनस्ति, हिसि हिंसायां, नाशयति, ऊर्ध्वलोकास्तस्य न भवन्तीत्यर्थः । अतो दर्शपौर्णमासादिकमाहिताग्निना काले काले कार्यमिति भावः ॥३॥
कुत्र होतव्यमित्यपेक्षायां यदा लेलायत इत्युक्तमधिकारिणं विवृणोति - कालीति ॥
काली कराली च मनोजवा च सुलोहिता या च सुधूम्रवर्णा ।
स्फुलिङ्गिनी विश्वरुची च देवी लेलायमाना इति सप्त जिह्वाः ।
एतेषु यश्चरते भ्राजमानेषु यथाकालं चाहुतयो ह्याददायन् ॥ ४ ॥
विश्वरुची च देवीत्येका, भ्राजमानेषु दीप्यमानासु एतेषु एतासु जिह्वासु व्यत्ययात्, यथाकालमाहुतय आहुतीर् हूयमानहवींषि आददायन् आददानो यश्चरते कर्म कुरुते यद्वा चरत इत्यस्य विवरणम् - यथाकालं कालमनतिक्रम्य आहुतय आहुतीर् आददायन् आददानः कुर्वन्निति यावत् ॥ ४ ॥
यथाकालं सत्यज्ञानकामनयोक्तस्थानेषु होतुः फलमाह - तमिति ॥
तं नयन्त्येताः सूर्यस्य रश्मयो यत्र देवानां पतिरेकोऽधिवासः ।
एह्येति तमाहुतयः सुवर्चसः सूर्यस्य रश्मिभिर्यजमानं वहन्ति ।
प्रियां वाचमभिवन्दन्त्योऽर्चयन्त्य एष वः पुण्यः सुकृतो ब्रह्मलोकः॥५॥
एता एते प्रसिद्धाः सूर्यस्य रश्मयः रश्मिषु स्थिता देवाः, देवानां पतिरेको मुख्यो ऽधिवासोऽधिवसन्त्यत्रेत्यधिवासो मुख्याश्रयो यत्र तिष्ठति तत्र तं नयन्तीति । नयनप्रकारमेवाऽऽह एह्येहीति । आहुतय आहूयमानाः, स्वीकृतहविर्भागा इति यावत्, सुवर्चसः शोभनवर्चस्का देवाः स्वाधिष्ठानभूतैस्सूर्यस्य रश्मिभिर्यजमानं वहन्ति । कथम् ? एह्येति वः पुण्यः पुण्यसाध्यः, तस्य विवरणम् - सुकृतः ब्रह्मलोकः परब्रह्मलोक इति प्रियां वाचमभिवदन्त्योऽभिवदन्तो ऽर्चयन्त्यः पूजयन्त वहन्तीति
॥ ५ ॥
सत्यविषयत्वेन कृतकर्मणामक्षयफलमुक्त्वा तदविषयत्वेन कृत- कर्मणामनिष्टफलमाह- प्लवा इति ॥
प्लवा ह्येते अदृढा यज्ञरूपा अष्टादशोक्तमवरं येषु कर्म ।
एतच्छ्रेयो येऽभिनन्दन्ति मूढा जरामृत्युं ते पुनरेवापियन्ति ॥ ६ ॥
एते भगवदविषयत्वेनानुष्ठिता यज्ञरूपा यज्ञस्य रूपमिव रूपं येषां ते, विध्युक्तयज्ञवदवभासमाना इति यावत्, अदृढा प्लवाः, लुप्तोपमानं, यथाऽदृढप्लवेन महानद्यादिकं तरन्नापदमाप्नोति तथैवंविधयज्ञैरापद- मेवाऽऽप्नोति न श्रेय इति । तदेवाऽऽह - अष्टादशेति ॥ येषु यज्ञेषु अष्टादशानां पुरुषाणामुक्तमष्टादशोक्तं, भगवदविषयत्वहेतुनाऽवरमपकृष्टम् एतत्कर्म श्रेयः श्रेयस्साधनं मत्वा ये मूढा अभिनन्दन्ति मोदन्ते ते जरामृत्युं, द्वन्द्वैकवद्भावः, पुनरेवापियन्ति प्राप्नुवन्ति । पूर्वं जरामृत्युमतामपि पुनः पुनस् तत्प्राप्तिरेव भवति, न कदाऽपि तन्निवृत्तिरिति भावः । अष्टादशपुरुषास्तु षोडशर्त्विजः यजमान एकस्तन्निरीक्षकस्सभ्य एक इति ध्येयम् ॥ ६ ॥
तेषां भगवदविषयत्वेनानुष्ठाने किं बीजमित्यत आह- अविद्याया - मिति ॥
अविद्यायामन्तरे वेष्ट्यमानाः स्वयं धीराः पण्डितं मन्यमानाः ।
जङ्घन्यमानाः परियन्ति मूढा अन्धेनैव नीयमाना यथाऽन्धाः॥७॥
अन्तरे मध्ये वेष्ट्यमानाः परितो बद्ध्यमानाः, अत्यन्तमविद्या- तिरोहिततत्वज्ञाना इत्यर्थः । स्वयं धीराः स्वात्मोत्प्रेक्षितप्रज्ञावन्तः । अपण्डितास्सन्तोऽपि पण्डितमात्मानं मन्यमानाः । जङ्घन्यमानाः, हन हिंसागत्योः, वक्रगतयः । अन्धेन नीयमाना अन्धा यथा भिन्नमार्गा एवमित्यर्थः ॥ ७ ॥
अविद्यावेष्टनं च नैकप्रकारमित्याह- अविद्यायामिति ॥
अविद्यायां बहुधा वर्तमाना वयं कृतार्था इत्यभिमन्यन्ति बालाः ।
यत् कर्मिणो न प्रवेदयन्ति रागात् तेनाऽऽतुराः क्षीणलोकाश्च्यवन्ते ॥८॥
बालाः प्रज्ञाहीनाः । कुतस्तेषामविद्यावेष्टनेन भगवत्प्रज्ञाहीनतेत्यत आह- यत् कर्मिण इति । यद्यस्मात्स्वर्गादिक्षयिष्णुफले रागान्निमित्तात् कर्मिणः कर्मानुष्ठातारस् तेन कारणेन न प्रवेदयन्ति सम्यङ् न जानन्ति भगवन्तम् । स्वार्थे णिच् । सर्वेभ्यो राजादिवत्किञ्चिदुत्तमत्वेन वा, सर्वसमत्वेन, हीनत्वेन वा जानन्तीति प्रशब्दार्थः । तेन हेतुनाऽऽतुरा व्यग्रचित्तास्सन्तः क्षीणलोका भवन्तश् च्यवन्ते लोकच्युता भवन्तीति ॥८॥ एतदेव फलमुक्तानुवादपूर्वं व्यनक्ति - इष्टापूर्तमिति ॥
इष्टापूर्तं मन्यमाना वरिष्ठं नान्यच्छ्रेयो वेदयन्ते प्रमूढाः ।
नाकस्य पृष्ठे ते सुकृतेऽनुभूत्वा इमं लोकं हीनतरं वा विशन्ति ॥ ९ ॥
इष्टं च पूर्तम् इष्टापूर्त, ‘द्वन्द्वैकवद्भावो ऽन्येभ्योऽपि दृश्यते’ इति दीर्घः । इष्टं यजनं पूर्तमन्नदानादि । वरिष्ठं परमश्रेयस्साधनं मन्यमाना अन्यद्भगवल्लक्षणं श्रेयः प्रशस्तं वस्तु न वेदयन्ते न सम्यग्जानन्तीत्यर्थः । ते भगवतः किञ्चिदुत्तमत्वज्ञानपूर्वकं कर्मानुष्ठातारः सुकृते सुकृतसाध्ये नाकस्य स्वर्गस्य पृष्ठे विस्तीर्णस्थलविशेषेऽनुभूत्वा कामाननुभूय इमं लोकं भूलोकं, मानुषभावमिति यावद् विशन्ति प्राप्नुवन्ति । ते हरेः समत्व- हीनत्वज्ञानपूर्वकं कर्मकृतस्तु हीनतरं लोकम् अन्धन्तमो विशन्ति । वाशब्दो व्यवस्थितविकल्पार्थः । तदुक्तम्-
‘देवेभ्य उत्तमं विष्णुं राजवद्यस्तु मन्यते ।
याजी स मानुषं याति साम्यहीनत्ववित्तमः ॥’ इति ।
तथा चोक्तं गीतातात्पर्ये (२-४३)-
‘ये न जानन्ति तं विष्णुं याथातथ्येन संशयात् । जिज्ञासवश्च नितरां श्रद्धावन्तः सुसाधवः । निर्णेतृणामभावेन केवलं ज्ञानवर्जिताः ।
तथा-
ते याज्ञिकाः स्वर्गभोगक्षये यान्ति मनुष्यताम् ॥’ इति ॥
‘ये तु भागवताचार्यैस्सम्यग्यज्ञादि कुर्वते ।
तु बहिर्मुखा भगवतोऽनिवृत्ताश्च विकर्मणः ।
दक्षिणातर्पितानां तु ह्याचार्याणां तु तेजसा ।
यान्ति स्वर्गं ततः क्षिप्रं तमोऽन्धं प्राप्नुवन्ति च ॥ ’ इति ॥ ९ ॥
एवं सत्यज्ञानकामनया कर्माण्याचरथेत्युक्तौ कुत्र कथमित्याशङ्कायां यदेत्यादि मन्त्रपञ्चकेन कर्मानुष्ठानस्थलमितिकर्तव्यतां फलं चोक्त्वा, प्लवा इत्यादिना मन्त्रचतुष्टयेनोक्तवैपरीत्येन कर्मानुष्ठानेऽनर्थं चोक्त्वाऽधुना ‘तान्याचरथ नियतं सत्यकामाः’ इत्यत्र कर्मदेवताज्ञानं तदनुष्ठानेनान्तः- करणशुद्धिद्वारा ज्ञानहेतुश्रवणाद्यङ्गं सद्ब्रह्मज्ञानमुत्पाद्य परमपुमर्थाय भवतीति यदुक्तं तत्र सर्वथाऽवधानेन भाव्यमिति भावेन कर्माचारा - देरुक्तरीत्या ब्रह्मज्ञानार्थत्वं फलोक्त्योपसंहरति- तपःश्रद्धे इति ॥
तपःश्रद्धे येऽभ्युपवसन्त्यरण्ये शान्ता विद्वांसो भैक्षचर्यां चरन्तः।
सूर्यद्वारेण ते विरजाः प्रयान्ति यत्रामृतः स पुरुषो ह्यव्ययात्मा ॥१०॥
ये भगवज्ज्ञानकामा अरण्ये पुण्यदेशे स्थित्वा तपः कृच्छ्रचान्द्रा- यणादिरूपं, श्रवणमननालोचनरूपं वा श्रद्धाऽऽस्तिक्यादिबुद्धिपूर्वकं यागादिकम् अभ्युपवसन्ति, आचरन्ति इति शेषः, ते शान्ता भगवन्निष्ठा- वन्तस् ते तप आदिना पूर्वोक्तप्रणाड्या विद्वांसः भगवज्ज्ञानिनो भूत्वा यावत्प्रारब्धं देहरक्षणार्थं भैक्षचर्यां भैक्षं कर्म चरन्तः कुर्वन्तः सूर्यद्वारेण सूर्यमण्डलं प्राप्य तद् द्वारेण विरजा विगतप्रारब्धकर्माणः ‘तेजसि सूर्ये सम्पन्नः पाप्मना विनिर्मुक्तः’ इति श्रुत्यन्तरोक्तेः, ‘आदेहं कर्म चाऽचरेत्’ इति स्मृतेश्च, प्रयान्ति प्रकर्षेण यान्ति । कुत्रेत्यत आह-यत्रामृत इति ॥ अमृतः देहतोऽप्यविनाशी पुरुषः पूर्णषड्गुणः स प्रसिद्धोऽव्ययात्मा शश्वदेकप्रकारः स्वामी यत्र वर्तते तत्र प्रयान्तीत्यर्थः ॥ १० ॥
एवं कर्मादिज्ञानं ‘उत्क्रमिष्यत एवंभावादित्यौडुलोमिः’ ( ब्र.सू. १- ४-२२) इति सूत्रोक्तदिशा प्रागुक्तप्रणाड्या ब्रह्मज्ञानार्थं सत् परमपुमर्थ- हेतुः । कर्मादिबोधकऋगादिविद्या च अपरविद्या भवतीत्युक्तम् । इदान तु ‘प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यः’ (ब्र.सू.१-४-२१) इति सूत्रोक्तदिशा काम्यकर्मतत्फलादौ वैराग्यजननद्वारा ब्रह्मज्ञानसम्पादनेच्छाजननेन ब्रह्मज्ञानार्थं भवत् परमपुरुषार्थहेतुर्भवतीति तद्बोधकऋगादिविद्याऽ- प्यल्पास्थिरफलादिबोधनेन ‘तत्राधिकारिणो वैराग्यजननद्वारा नित्यानल्प- फलकब्रह्मज्ञान कामोत्पादनेन ब्रह्मज्ञानोपयोगिनीति परविद्या च भवतीति भावेनाऽऽह - परीक्ष्येति ॥
परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन ।
तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत् समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् ॥ ११ ॥
लोकान् विष्णुलोकेतरान् कर्मचितान् काम्यकर्मापादितान् परीक्ष्या- सारानित्यतया विचार्य ब्राह्मणो ब्रह्माणनरूपब्रह्मज्ञानयोग्यः निर्वेदं काम्यकर्मणि तत्फले च वैराग्यमायात् प्राप्नुयात् । यद् यस्माद् अकृतो मोक्षः कृतेन कर्मणा नास्ति तत्तस्मात्स च मोक्षादितरत्र निर्विण्णो विज्ञानार्थं मोक्षफलकब्रह्मज्ञानार्थं गुरुमेवाभिगच्छेत् । गुरुमुपगन्तारं च १. तत्राधिकारिणो इत्यारभ्य कामोत्पादनेनेत्यन्तो भागः मुद्रिते क्वचिन्न पठ्यते ।
विशिनष्टि- समित्पाणिरिति ॥ श्रोत्रियं च्छन्दोऽध्येतारं ब्रह्मनिष्ठं भगवद्भक्तं गुरुमित्यन्वयः ॥ ११ ॥
गुरूपसत्तिं कुर्यादित्युक्त्वाऽङ्गिराः किमकरोदित्यतः शौनकाय तत्त्वमुपदिदेशेत्याह वेदपुरुष ः- तस्मा इत्यादिना ॥
तस्मै स विद्वानुपसन्नाय सम्यक् प्रशान्तचित्ताय शमान्विताय ।
येनाक्षरं पुरुषं वेद सत्यम् प्रोवाच तां तत्त्वतो ब्रह्मविद्याम् ॥ १२ ॥
॥ इति द्वितीयः खण्डः ॥
उपसन्नायोपसत्तिं प्राप्ताय सम्यक् प्रशान्तचित्ताय विषयेष्वलम्बुद्धिमते, विरक्तायेति यावत्, शमान्विताय भगवन्निष्ठायुक्ताय तस्मै शौनकाय स विद्वानङ्गिरा येन यया विद्यया, व्यत्ययात्, येन ऋगादिशास्त्रेणेति वा, सत्यमनन्याधीनस्वरूपं पुरुषमक्षरं वेद जानाति तामृगादिशास्त्ररूपां ब्रह्मविद्यां तत्त्वतो याथातथ्येन प्रोवाचेति । कर्मदेवतादिबोधकतया शौनकेनावगतामृगादिविद्यां परममुख्यवृत्तिमहातात्पर्याभ्यां ब्रह्मज्ञप्तिहेतुत्वेन परविद्या यथा भवति तथा व्याचख्याविति भावः । अत एव तत्त्वत इत्युक्तिः ॥ १२ ॥
॥ इति द्वितीयः खण्डः ॥