तदेतत् सत्यम्
तृतीयः खण्डः
तदेतत् सत्यम् ।
यथा सुदीप्तात् पावकाद् विष्फुलिङ्गाः सहस्रशः प्रभवन्ते सरूपाः ।
तथाऽक्षराद् विविधाः सोम्य भावाः प्रजायन्ते तत्र चैवापियन्ति ॥ १ ॥
दिव्यो ह्यमूर्तः पुरुषः स बाह्याभ्यन्तरो ह्यजः ।
अप्राणो ह्यमनाः शुभ्रो ह्यक्षरात् परतः परः ॥ २ ॥
अपरं त्वक्षरं या सा प्रकृतिर्जडरूपिका ।
अक्षरं परमं श्रीस्तु परतः परमक्षरम् ॥
वासुदेवः परानन्द इति त्रिविधमक्षरम् ॥ इति च ॥ २ ॥
एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च ।
खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी ॥ ३ ॥
अग्निर्मूर्धा चक्षुषी चन्द्रसूर्यौ दिशः श्रोत्रे वाग् विवृताश्च वेदाः ।
वायुः प्राणो हृदयं विश्वमस्य पद्भ्यां पृथिवी ह्येष सर्वभूतान्तरात्मा ॥ ४ ॥
विष्ण्वङ्गानां हि नामानि द्युभ्वादीनि तु सर्वशः ।
क्रीडादिशक्तिरूपत्वात् तज्जत्वादन्यवस्तुषु ॥ इति च ॥ ४ ॥
तस्मादग्निः समिधो यश्च सूर्यः सोमात् पर्जन्यौषधयः पृथिव्याम् ।
पुमान् रेतः सिञ्चति योषितायां बह्वीः प्रजाः पुरुषात् सम्प्रसूताः ॥ ५ ॥
वासुदेवः पुमान्नामा पूर्णत्वात् स स्वयोषिति ।
रमायां गर्भमदधात् प्रजास्तस्मात् प्रजज्ञिरे ॥ इति च ॥
तस्मादृचः साम यजूंषि दीक्षा यज्ञाश्च सर्वे क्रतवो दक्षिणाश्च ।
संवत्सरश्च यजमानश्च लोकाः सोमो यत्र पवते यत्र सूर्यः ॥ ६ ॥
तस्माच्च देवा बहुधा सम्प्रसूताः साध्या मनुष्याः पशवो वयांसि ।
प्राणापानौ व्रीहियवौ तपश्च श्रद्धा सत्यं ब्रह्मचर्यं विधिश्च ॥ ७ ॥
सप्त प्राणाः प्रभवन्ति तस्मात् सप्तार्चिषः समिधः सप्त होमाः ।
इमे लोका येषु चरन्ति प्राणा गुहाशयां निहिताः सप्त सप्त ॥ ८ ॥
सप्तार्चिषो वृत्तयः । होमाः सम्बन्धाः । लोका गोलकाः । गुहाशयां बुद्धौ । लोपः समाने इति सूत्रादेकयकारलोपः । प्रतिपुरुषं सप्त सप्त ॥ ८ ॥
अतः समुद्रा गिरयश्च सर्वेऽस्मात् स्यन्दन्ते सिन्धवः सर्वरूपाः ।
अतश्च सर्वा ओषधयो रसाश्च येनैव भूतैस्तिष्ठते ह्यन्तरात्मा ॥ ९ ॥
पुरुष एवेदं विश्वं कर्म तपो ब्रह्म परामृतम् ।
एतद् यो वेद निहितं गुहायां सोऽविद्याग्रन्थिं विकिरति ह सोम्य ॥ १० ॥
इति तृतीयः खण्डः
भगवतः कर्म चेष्टा तपो ज्ञानं च परामृतब्रह्माख्यः पुरुषो भगवानेव ।
यैषा चेष्टा भगवतो यच्च ज्ञानं परात्मनः ।
तत्सर्वं भगवानेव ये च धर्मा बलादयः ॥ इति च ।
स्वाभाविकी ज्ञानबलक्रिया च इति श्रुतिः ।