मध्वः

प्रथमः खण्डः

ब्रह्मा देवानां प्रथमः सम्बभूव विश्वस्य कर्ता भुवनस्य गोप्ता ।
स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठामथर्वाय ज्येष्ठपुत्राय प्राह ॥ १ ॥

आनन्दमजरं नित्यमजमक्षयमच्युतम् ।
अनन्तशक्तिं सर्वज्ञं नमस्ये पुरुषोत्तमम् ॥

मनोर्वैवस्वतस्यादावथर्वा ब्रह्मणोऽजनि ।
मित्रश्च वरुणश्चाथो प्रहेतिर्हेतिरेव च ॥

ब्रह्मणः प्रथमे कल्पे शिवः प्रथमजः स्मृतः ।

सनकाद्यास्तु वाराहे ब्रह्मा विष्णोः सुतोऽग्रजः ॥ इति ब्रह्माण्डे ।

अथर्वणे यां प्रवदेत ब्रह्माऽथर्वा तां पुरोवाचाङ्गिरे ब्रह्मविद्याम् ।
स भारद्वाजाय सत्यवहाय प्राह भारद्वाजोऽङ्गिरसे परावराम् ॥ २ ॥

तस्मै शौनको ह वै महाशालोऽङ्गिरसं विधिवदुपसन्नः पप्रच्छ ।
कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति ॥ ३ ॥

तस्मै स होवाच । द्वे विद्ये वेदितव्ये इति ह स्म यद्ब्रह्मविदो वदन्ति । परा चैवापरा च ॥ ४ ॥

तत्रापरा ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमिति । अथ परा यया तदक्षरमधिगम्यते ॥ ५ ॥

ऋगाद्या अपरा विद्या यदा विष्णोर्न वाचकाः ।

ता एव परमा विद्या यदा विष्णोस्तु वाचकाः ॥ इति परमसंहितायाम् ।

ऋग्भिर्हौत्रेण शंसन्ति तथौद्गात्रैः स्तुवन्ति ये ।
विष्णुमेव तथा तस्मै यजुर्भिरपि जुह्वति ॥

स्तुवन्त्यथर्वणैश्चैनं सेतिहासपुराणकैः ।
न विष्णुसदृशं किञ्चित् परमं वाऽपि मन्वते ॥

सर्वोत्तमं तं जानन्तस्ते हि भागवतोत्तमाः ॥

वेदे रामायणे चैव पुराणे भारते तथा ।
आदावन्ते च मध्ये च विष्णुः सर्वत्र गीयते ॥

एतदन्ते च मध्ये च ब्रह्मैवोक्त्वा विजानताम् ।
ऋगादि पञ्चधा संस्थं शब्दब्रह्म प्रशाम्यति ॥

यं वाकेष्वनुवाकेषु निषत्सूपनिषत्सु च ।
स्तुवन्ति सत्यकर्माणं सत्यं सत्येन सामसु ॥

सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति।
यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं सङ्ग्रहेण प्रवक्ष्ये ॥

वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् । इति च भारते ।

चतुर्दश महाविद्यास्थानानि वेदितव्यानि भवन्ति इति च मूलश्रुतिः ।

पञ्चरात्रमृगाद्याश्च सर्वमेकं पुराऽऽभवत् ।
मूलवेद इति ह्याख्या काले कृतयुगे तदा ॥

नैवर्क्सामादिनामानि तदा वेदस्य चाभवन् ।
नैव चेन्द्रादिनामानि विष्णोरन्यत्र कुत्रचित् ॥

ब्रह्मरुद्रेन्द्रपूर्वैस्तु नामभिः प्रोच्यते हरिः ।
देवतात्वेन चेज्यस्स ब्रह्माद्या मनुनामकाः ॥

वक्तृत्वेन पितृत्वेन कारित्वेनैव चादरात् ।
इज्यन्ते देवताः सर्वा न तु देवतया क्वचित् ॥

अनन्ययाजिनस्ते तु तस्मात् कार्तयुगा जनाः ।
प्राप्नुवन्ति हरिं तं च तस्माद्वेदे न किञ्चन ॥

पारावर्यं हरेर्यस्मादुत्थितास्तुरगाननात् ।
ऋगाद्या अनुव्याख्यान्तास्तस्मात् सर्वैर्हरिं यजेत् ॥

तस्माद् ब्रह्मादयः सर्वे मनवो मानवास्तथा ।
यजन्ति सर्ववेदैस्तं जानन्ति च विनिश्चयात् ॥

अशक्तः पञ्चरात्रेण ऋगाद्यैर्वाथ तं यजेत् ।
ऋगाद्यैरेव स त्रैतैर्भिन्नैरिष्टो जनैर्हरिः ॥

द्वापरीयैर्जनैर्विष्णुः पञ्चरात्रैस्तु केवलैः ।
कलौ तु नाममात्रेण पूज्यते भगवान् हरिः ॥

एको वेदः कृते ह्यासीत् त्रेतायां स त्रिधाऽभवत् ।
स एव पञ्चधा जातो द्वापरं प्राप्य वै युगम् ॥

उत्सन्नः स कलिं प्राप्य वेदः प्रायेण सर्वशः ।
मुख्यो धर्मः कार्तयुगो वर्तितव्यः कलावपि ॥

त्रेतादौ तदशक्त्या हि धर्मोऽन्यः सम्प्रकीर्तितः ।
कृते भागवताः सर्वे वेदाश्च पुरुषास्तथा ॥

त्रेतायां भिन्नविषयास्ततस्त्रैविद्यतां गताः ।
तस्मादेकः सर्ववेदैर्ज्ञेयो विष्णुः सनातनः ॥

पूज्यो यज्ञैः सोपचारैर्ध्येयो वन्द्यश्च सर्वदा ॥

इत्यादि नारायणसंहितायाम् ।

वेदवादाश्चानुयुगं ह्रसन्तीति हि नः श्रुतिः ॥ इति भारते ।

वेदैश्च पञ्चरात्रैश्च भक्त्या यज्ञैस्तथैव च ।

दृश्योऽहं नान्यथा दृश्यो वर्षकोटिशतैरपि ॥ इत्यादि वाराहे ।

अत्रापि तदेतत्सत्यं मन्त्रेषु कर्माणि कवयो यान्यपश्यन् इत्यादिना कर्मविषयामपरविद्यामुक्त्वा येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्याम् इत्यारभ्याथर्वणानेव मन्त्रान् परविद्यात्वेनाह । चतुर्वेदसंस्कारवतामेव च विद्यायामधिकार उक्तः तेषामेवैतां ब्रह्मविद्यां वदेत शिरोव्रतं विधिवद्यैस्तु चीर्णम् इति । शिरोव्रतमित्युपलक्षणम् ।

स्ववेदव्रतयुक्तस्य सर्ववेदगतास्वपि ।
अधिकारोऽस्ति विद्यासु नावेदव्रतिनः क्वचित् ॥ इति व्यासस्मृतौ ॥ १५ ॥

यत् तदद्रेश्यमग्राह्यमगोत्रमवर्णमचक्षुःश्रोत्रं तदपाणिपादम् ।
नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद्भूतयोनिं परिपश्यन्ति धीराः ॥ ६ ॥

यथोर्णनाभिः सृजते गृह्णते च यथा पृथिव्यामोषधयः सम्भवन्ति ।
यथा सतः पुरुषात् केशलोमानि तथाऽक्षरात् सम्भवतीह विश्वम् ॥ ७ ॥

तपसा चीयते ब्रह्म ततोऽन्नमभिजायते ।
अन्नात् प्राणो मनः सत्यं लोकाः कर्मसु चामृतम् ॥ ८ ॥

यस्सर्वज्ञः सर्वविद् यस्य ज्ञानमयं तपः ।
तस्मादेतद् ब्रह्म नाम रूपमन्नं च जायते ॥ ९ ॥

इति प्रथमः खण्डः

एतद्ब्रह्म चतुर्मुखः ॥

द्वितीयः खण्डः

तदेतत् सत्यम् ।

मन्त्रेषु कर्माणि कवयो यान्यपश्यन् तानि त्रेतायां बहुधा सन्ततानि ।
तान्याचरथ नियतं सत्यकामा एष वः पन्थाः सुकृतस्य लोके ॥ १ ॥

तदेतत्सत्यं भगवान् । तत्कामाः कर्माण्याचरथ । तदा साऽपि परविद्या । अन्यथा प्लवा ह्येते अदृढा यज्ञरूपाः ।

भगवद्विषयत्वेन कृत एष वः पुण्यः सुकृतो ब्रह्मलोकः । परब्रह्मलोकः ।

निष्कामं ज्ञानपूर्वं तु निवृत्तमिति चोच्यते ।

निवृत्तं सेवमानस्तु ब्रह्माभ्येति सनातनम् ॥ इति व्यासस्मृतिः ।

स य आत्मानमेव लोकमुपास्ते न हास्य कर्म क्षीयते इति च श्रुतिः ।

सहयज्ञाः प्रजाः सृष्ट्वा इत्युक्त्वा

एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः ।

अघायुरिन्द्रियारामो मोघं पार्थ स जीवति ॥ इति च ।

यान्ति मद्याजिनोऽपि माम् इति च ।

अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च ।

न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते ॥ इति च ।

यस्त्वात्मरतिः इत्युक्त्वाऽपि कुर्याद्विद्वांस्तथा सक्तः इत्येवोक्तत्वाच्च ।

ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् ।

सर्वज्ञानविमूढांस्तान् विदि्ध नष्टानचेतसः ॥ इति च ।

लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयाऽनघ इत्युक्तत्वाच्च नाश्रमान्तरविरोधः । त्रेतायां बहुधा सन्ततानि कृते त्वेकप्रकारेणैव सन्ततानि ।

अग्निष्टोमादिभिर्यज्ञैः सर्वदेवस्थितं हरिम् ।
यजन्ति तांश्च कारित्वाद्वसुस्तस्मात् तथाऽयजत् ॥

पृथक् पृथक् च त्रेतायां यजन्ते देवतागणान् ।

यथा कृते तथा प्राज्ञास्त्रेतायां बहुधा ततः ॥ इति पाद्मे ।

यमिन्द्रमाहुर्वरुणं यमाहु र्यं मित्रमाहुर्यमु सत्यमाहुः ।
यो देवानां देवतमो जनित्रं वायोस्तस्मै सोममेभ्यो जुहोमि ॥

एवं वायोः पितरं विष्णुमेव यजन्ति देवैः सह ये कृते जनाः ।
एवं त्रेतायां केचिदन्ये पृथक् तानिष्ट्वा विष्णावर्पयन्ते न चान्यैः ॥

इति च ब्रह्माण्डे ।

यदा लेलायते ह्यर्चिः समिद्धे हव्यवाहने ।
तदाऽऽज्यभागावन्तरेणाहुतीः प्रतिपादयेत् ॥ २ ॥

यस्याग्निहोत्रमदर्शमपौर्णमासमनाग्रयणमतिथिवर्जितं च ।
अहुतमवैश्वदेवमविधिना हुतमासप्तमांस्तस्य लोकान् हिनस्ति ॥ ३ ॥

काली कराली च मनोजवा च सुलोहिता या च सुधूम्रवर्णा ।
स्फुलिङ्गिनी विश्वरुची च देवी लेलायमाना इति सप्त जिह्वाः ॥ ४ ॥

एतेषु यश्चरते भ्राजमानेषु यथाकालं चाहुतयो ह्याददायन् ।
तं नयन्त्येताः सूर्यस्य रश्मयो यत्र देवानां पतिरेकोऽधिवासः ॥ ५ ॥

एह्येहीति तमाहुतयः सुवर्चसः सूर्यस्य रश्मिभिर्यजमानं वहन्ति ।
प्रियां वाचमभिवदन्त्योऽर्चयन्त्य एष वः पुण्यः सुकृतो ब्रह्मलोकः ॥ ६ ॥

प्लवा ह्येते अदृढा यज्ञरूपा अष्टादशोक्तमवरं येषु कर्म ।
एतच्छ्रेयो येऽभिनन्दन्ति मूढा जरामृत्युं ते पुनरेवापियन्ति ॥ ७ ॥

अविद्यायामन्तरे वेष्ट्यमानाः स्वयं धीराः पण्डितंमन्यमानाः ।
जङ्घन्यमानाः परियन्ति मूढा अन्धेनैव नीयमाना यथान्धाः ॥ ८ ॥

अविद्यायां बहुधाः वर्तमाना स्वयं कृतार्था इत्यभिमन्यन्ति बालाः ।
यत् कर्मिणो न प्रवेदयन्ति रागात् तेनातुराः क्षीणलोकाश्च्यवन्ते ॥ ९ ॥

इष्टापूर्तं मन्यमाना वरिष्ठं नान्यच्छ्रेयो वेदयन्ते प्रमूढाः ।
नाकस्य पृष्ठे ते सुकृते तेऽनुभूत्वा इमं लोकं हीनतरं वा विशन्ति ॥ १० ॥

विष्णोः सर्वेभ्यः किञ्चिदुत्तमत्वं जानन्त इमं लोकमाविशन्ति ।
साम्यं हीनत्वं वा जानन्तो हीनतरं तम एवाविशन्ति ॥

देवेभ्यः उत्तमं विष्णुं राजवद्यस्तु मन्यते ।

याजी स मानुषं याति साम्यहीनत्ववित्तमः ॥ इति च ।

त्रैविद्या माम् इति तु येप्यन्यदेवता भक्ताः तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् अहं हि सर्वयज्ञानां भोक्ता इत्युक्तत्वादज्ञानपूर्वयाजिनस्त्रैविद्याः॥

तपःश्रद्धे येऽभ्युपवसन्त्यरण्ये शान्ता विद्वांसो भैक्षचर्यां चरन्तः ।
सूर्यद्वारेण ते विरजाः प्रयान्ति यत्रामृतः स पुरुषो ह्यव्ययात्मा ॥ ११ ॥

परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायात् नास्त्यकृतः कृतेन ।

तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत् समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् ॥ १२ ॥

तस्मै स विद्वानुपसन्नाय सम्यक् प्रशान्तचित्ताय शमान्विताय ।
येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्याम् ॥ १३ ॥

इति द्वितीयः खण्डः ॥

तृतीयः खण्डः

तदेतत् सत्यम् ।

यथा सुदीप्तात् पावकात् विष्फुलिङ्गाः सहस्रशः प्रभवन्ते सरूपाः ।
तथाऽक्षराद् विविधाः सोम्य भावाः प्रजायन्ते तत्र चैवापियन्ति ॥ १ ॥

दिव्यो ह्यमूर्तः पुरुषः स बाह्याभ्यन्तरो ह्यजः ।
अप्राणो ह्यमनाः शुभ्रो ह्यक्षरात् परतः परः ॥ २ ॥

अपरं त्वक्षरं या सा प्रकृतिर्जडरूपिका ।
अक्षरं परमं श्रीस्तु परतः परमक्षरम् ॥

वासुदेवः परानन्दः इति त्रिविधमक्षरम् ॥ इति च ॥ २ ॥

एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च ।
खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी ॥ ३ ॥

अग्निर्मूर्धा चक्षुषी चन्द्रसूर्यौ दिशः श्रोत्रे वाग् विवृताश्च वेदाः ।

वायुः प्राणो हृदयं विश्वमस्य पद्भ्यां पृथिवी ह्येष सर्वभूतान्तरात्मा ॥ ४ ॥

विष्ण्वङ्गानां हि नामानि द्युभ्वादीनि तु सर्वशः ।
क्रीडादिशक्तिरूपत्वात् तज्जत्वादन्यवस्तुषु ॥ इति च ॥ ४ ॥

तस्मादग्निः समिधो यश्च सूर्यः सोमात् पर्जन्यौषधयः पृथिव्याम् ।
पुमान् रेतः सिञ्चति योषितायां बह्वीः प्रजाः पुरुषात् सम्प्रसूताः ॥ ५ ॥

वासुदेवः पुमान्नामा पूर्णत्वात् स स्वयोषिति ।
रमायां गर्भमदधात् प्रजास्तस्मात् प्रजज्ञिरे ॥ इति च ॥

तस्मादृचः साम यजूंषि दीक्षा यज्ञाश्च सर्वे क्रतवो दक्षिणाश्च ।
संवत्सरश्च यजमानश्च लोकाः सोमो यत्र पवते यत्र सूर्यः ॥ ६ ॥

तस्माच्च देवा बहुधा सम्प्रसूताः साध्या मनुष्याः पशवो वयांसि ।
प्राणापानौ व्रीहियवौ तपश्च श्रद्धा सत्यं ब्रह्मचर्यं विधिश्च ॥ ७ ॥

सप्त प्राणाः प्रभवन्ति तस्मात् सप्तार्चिषः समिधः सप्त होमाः ।
इमे लोका येषु चरन्ति प्राणा गुहाशयां निहिताः सप्त सप्त ॥ ८ ॥

सप्तार्चिषो वृत्तयः । होमाः सम्बन्धाः । लोकाः गोलकाः । गुहाशयां बुद्धौ । लोपः समाने इति सूत्रादेकयकारलोपः । प्रतिपुरुषं सप्त सप्त ॥ ८ ॥

अतः समुद्राः गिरयश्च सर्वेऽस्मात् स्यन्दन्ते सिन्धवः सर्वरूपाः ।
अतश्च सर्वा ओषधयो रसाश्च येनैव भूतैस्तिष्ठते ह्यन्तरात्मा ॥ ९ ॥

पुरुष एवेदं विश्वं कर्म तपो ब्रह्म परामृतम् ।
एतद् यो वेद निहितं गुहायां सोऽविद्याग्रन्थिं विकिरति ह सोम्य ॥ १० ॥

इति तृतीयः खण्डः

भगवतः कर्म चेष्टा तपो ज्ञानं च परामृतब्रह्माख्यः पुरुषो भगवानेव ।

यैषा चेष्टा भगवतो यच्च ज्ञानं परात्मनः ।

तत्सर्वं भगवानेव ये च धर्मा बलादयः ॥ इति च ।

स्वाभाविकी ज्ञानबलक्रिया च इति श्रुतिः ।

चतुर्थः खण्डः

आविः सन्निहितं गुहाचरं नाम महत् पदम् ।
अत्रैतत् सर्वमर्पितमेजत् प्राणन्निमिषच्च यत् ॥ १ ॥

एतज्जानथ सदसद्वरेण्यं परं विज्ञानाद् यद्वरिष्ठं प्रजानाम् ।
यदर्चिमद् यदणुभ्योऽणु च यस्मिंल्लोका निहिता लोकिनश्च ॥ २ ॥

विज्ञानाद् ब्रह्मणः परम् । नाभिहृदादिह सतोऽम्भसि यस्य पुंसो विज्ञानशक्तिरहमासमनन्तशक्तेः इति भागवते ।

तदेतक्षरं ब्रह्म स प्राणस्तदु वाङ्मनः ।
तदेतत् सत्यं तदमृतं तद् वेद्धव्यं सोम्य विदि्ध ॥ ३ ॥

प्राणः प्रणयनाद्विष्णुर्वक्तृत्वाद्वागुदीरितः ।
मनो मन्तृत्वतो विष्णुः सर्वजीवनियामकः ॥ इति शब्दनिर्णये ॥

धनुर्गृहीत्वौपनिषदं महास्त्रं शरं ह्युपासानिशितं सन्दधीत ।
आयम्य तद्भावगतेन चेतसा लक्ष्यं तदेवाक्षरं सोम्य विदि्ध ॥ ४ ॥

प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते ।
अप्रमत्तेन वेद्धव्यं शरवत् तन्मयो भवेत् ॥ ५ ॥

यस्मिन् द्यौः पृथिवी चान्तरिक्षमोतं मनः सह प्राणैश्च सर्वैः ।
तमेवैकं जानथ आत्मानमन्या वाचो विमुञ्चथामृतस्यैष सेतुः ॥ ६ ॥

अमृतस्य मुक्तस्य सेतुः । मुक्तोपसृप्यव्यपदेशात् मुक्तानां परमा गतिः इत्यादेः ॥ ६ ॥

अरा इव रथनाभौ संहता यत्र नाड्यः ।
स एषोऽन्तश्चरते बहुधा जायमानः ॥ ७ ॥

हृदयस्था सदा विष्णुर्बहुधा चैकधा भवेत् ।
चरति स्वेच्छयैवान्तः सर्वजीवान्नियामयन् ॥ इति प्रवृत्ते ॥ ७ ॥

ओमित्येवं ध्यायत आत्मानं स्वस्ति वः पराय तमसः परस्तात् ॥ ८ ॥

यः सर्वज्ञः सर्वविद् यस्यैष महिमा भुवि ।
दिव्ये ब्रह्मपुरे ह्येष व्योम्न्यात्मा सम्प्रतिष्ठितः ॥ ९ ॥

मनोमयः प्राणशरीरनेताप्रतिष्ठितोऽन्ने हृदयं सन्निधाय ।
तद् विज्ञानेन परिपश्यन्ति धीरा आनन्दरूपममृतं यद् विभाति ॥ १० ॥

भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।
तक्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ॥ ११ ॥

परा अप्यवरा यस्मात् स हि विष्णुः परावरः ॥ ११ ॥

हिरण्मये परे कोशे विरजं ब्रह्म निष्कलम् ।
तच्छुभ्रं ज्योतिषां ज्योतिस्तद्यदात्मविदो विदुः ॥ १२ ॥

ब्रह्माण्डमध्यगो नित्यं तपत्येष रवौ स्थितः ॥ इति च ॥ १२ ॥

न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः ।
तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति ॥ १३ ॥

सूर्यादयस्तं न भासयन्ति ॥ १३ ॥

ब्रह्मैवेदममृतं पुरस्तात् पश्चात् ब्रह्म दक्षिणतश्चोत्तरेण ।
अधश्चोर्ध्वं च प्रसृतं ब्रह्मैवेदं विश्वमिदं वरिष्ठम् ॥ १४ ॥

इति चतुर्थः खण्डः ॥

इदं ब्रह्मैव विश्वं पूर्णम् । इदमेव वरिष्ठं सर्वोत्तमम् । इदंशब्दानां बहुत्वाद् ब्रह्मविषय एवेदंशब्दः ॥ १४ ॥

पञ्चमः खण्डः

द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते ।
तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति ॥ १ ॥

स्वादुवत्सर्वदाऽत्ति । न तु स्वाद्वेव । तस्येदमाहुः पिप्पलं स्वाद्वग्रे तन्नोन्नशद्यः पितरं न वेद इत्यज्ञानां स्वादुनिषेधात् । जीवाद्यमेव नाश्नाति भगवान् । न तु नाश्नात्येव । तस्येदमाहुः पिप्पलं स्वादु इत्युक्तत्वात् ।

स्वातन्त्र्येणैव भोक्तृत्वाद् दुःखाभोगाच्च सर्वदा ।
अभोक्ता चैव भोक्ता च भगवान् विष्णुरव्ययः ॥

इति तत्त्वसारे ॥ १ ॥

समाने वृक्षे पुरुषो निमग्नोऽनीशया शोचति मुह्यमानः ।
जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः ॥ २ ॥

नास्तीशोऽस्या यतोऽन्यो हि ततोऽनीशा हरेर्मतिः ।
तया मुह्यति जीवस्तमन्यं ज्ञात्वा विमुच्यते ॥

जीवादन्यः स्वतन्त्रोऽयं यतोऽतः पुरुषोत्तमः ॥ इति ब्रह्मसारे ।

यदा पश्यः पश्यते रुग्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम् ।
तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति ॥ ३ ॥

पुण्यं चानिष्टं विधूय ॥ ३ ॥

प्राणो ह्येष सर्वभूतैर्विभाति विजानन् विद्वान् भवते नातिवादी ।
आत्मक्रीड आत्मरतिः क्रियावानेष ब्रह्मविदां वरिष्ठः ॥ ४ ॥

सत्येन लभ्यस्तपसा ह्येष आत्मा सम्यग्ज्ञानेन ब्रह्मचर्येण नित्यम् ।
अन्तःशरीरे ज्योतिर्मयो हि शुभ्रो यं पश्यन्ति यतयः क्षीणदोषाः ॥ ५ ॥

सत्यमेव जयति नानृतं सत्येन विततो देवयानः ।
येनाक्रमन्त्यृषयो ह्याप्तकामा यत्र तत् सत्यस्य परमं निधानम् ॥ ६ ॥

सत्यो हि भगवान् विष्णुः सद्गुणत्वात् प्रकीर्तितः ।

आसुरास्तद्विरुद्धत्वादनृताः परिकीर्तिताः ।
तस्य विष्णोर्निधानं तु वैकुण्ठो लोक उत्तमः ॥ इति च ॥ ६ ॥

बृहच्च तद् दिव्यमचिन्त्यरूपं सूक्ष्माच्च तत् सूक्ष्मतरं विभाति ।
दूरात् सुदूरे तदिहान्तिके च पश्यत्स्विहैव निहितं गुहायाम् ॥ ७ ॥

सर्वगत्वात् दूरेऽन्तिके च ।

न चक्षुषा गृह्यते नापि वाचा नान्यैर्देवैस्तपसा कर्मणा वा ।
ज्ञानप्रसादेन विशुद्धसत्त्वस्ततस्तु तं पश्यते निष्कलं ध्यायमानः ॥ ८ ॥

नान्यैर्देवैर्हरिं पश्येत् ज्ञानरूपेण वायुना ।
ब्रह्मणा परमज्ञानरूपेण हरिणा तथा ॥

प्रसन्नेनैव तं पश्येदन्येऽनुज्ञाप्रदायिनः ॥ इति च ।

षोडशकलाशरीरो न भवतीति निष्कलः । यदा पश्यः पश्यते रुग्मवर्णम् आनन्दरूपममृतं यद्विभाति इत्युक्तत्वात् ॥ ५ ॥

एषोऽणुरात्मा चेतसा वेदितव्यो यस्मिन् प्राणः पञ्चधा संविवेश ।
प्राणैश्चित्तं सर्वमोतं प्रजानां यस्मिन् विशुद्धे विभवत्येष आत्मा ॥ ९ ॥

यं यं लोकं मनसा संविभाति विशुद्धसत्त्वः कामयते यांश्च कामान् ।
तं तं लोकं जयते तांश्च कामांस्तस्मादात्मज्ञं ह्यर्चयेत् भूतिकामः ॥ १० ॥

इति पञ्चमः खण्डः ॥

षष्ठः खण्डः

स वेदैतत् परमं ब्रह्मधाम यत्र विश्वं निहितं भाति शुभ्रम् ।
उपासते पुरुषं ये ह्यकामास्ते शुक्रमेतदतिवर्तन्ति धीराः ॥ १ ॥

स आत्मज्ञार्चको ब्रह्मणो धाम प्राणं वेद । यत्र विश्वं पूर्णं ब्रह्म निहितम् ।

प्रधानं धाम विष्णोस्तु प्राण एव प्रकीर्तितः ।

उपायैर्यो विजानीयात् प्राणस्थं परमेश्वरम् ।
तस्य प्राणे हरिर्नित्यमाविष्टो भवति ध्रुवम् ॥

नित्यं प्राणस्थितस्यैव विष्णोरावेश एव हि ।
प्राणद्वारेण यज्ज्ञानदीपनं ज्ञानिनः सदा ॥

सन्निधानं यथा प्राप्ताः पिशाचाः पुरुषेष्वपि ।
तत्र स्थित्वाऽपि भुञ्जन्त आविशेयुः पुनश्च ते ॥

मन्त्रादिभिस्तथा विष्णुः सदा प्राणस्थितोऽपि सन् ।
ज्ञानदीप्त्यादिकं कुर्याज्ज्ञानिनः पुनरेव तु ॥ इति च ॥

एतच्छुक्रं प्रत्यन्यदतिवर्तन्ते ॥

सर्वं तीर्त्वा हरिं शुक्रं प्रतिवृत्तिर्भवेत्पुनः ।
ज्ञानिनः सा हि मुक्तिः स्यात्तन्नैवात्येति कश्चन ॥

इति महावाराहे ।

कामान् यः कामयते मन्यमानः स कामभिर्जायते तत्र तत्र ।
पर्याप्तकामस्य कृतात्मनश्च इहैव सर्वे प्रविलीयन्ति कामाः ॥ २ ॥

नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन ।
यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम् ॥ ३ ॥

नायमात्मा बलहीनेन लभ्यो न च प्रमादात् तपसो वाप्यलिङ्गात् ।
एतैरुपायैर्यतते यस्तु विद्वांस्तस्यैष आत्मा विशते ब्रह्मधाम ॥ ४ ॥

सम्प्राप्यैनमृषयो ज्ञानतृप्ताः कृतात्मानो वीतरागाः प्रशान्ताः ।
ते सर्वगं सर्वतः प्राप्य धीराः मुक्तात्मानः सर्वमेवापियन्ति ॥ ५ ॥

सर्वतो देहादेर्मुक्ताः सन्तः । सर्वगं भगवन्तं प्राप्य तमेवापियन्ति ।

देहादेः सर्वतो मुक्ताः सर्वगं पुरुषोत्तमम् ।
प्राप्य तस्मिन् प्रविश्याथ मोदन्तेऽन्तर्बहिस्तथा ॥ इति च ॥

वेदान्तविज्ञानसुनिश्चितार्थाः सन्यासयोगाद् यतयः शुद्धसत्त्वाः ।
ते ब्रह्मलोकेषु परान्तकाले परामृतात् परिमुच्यन्ति सर्वे ॥ ६ ॥

ब्रह्मलोकेषु स्थित्वा परान्तकाले परिमुच्यन्ति ॥ ६ ॥

गताः कलाः पञ्चदश प्रतिष्ठा देवाश्च सर्वे प्रतिदेवतासु ।
कर्माणि विज्ञानमयश्च आत्मा परेऽव्यये सर्व एकीभवन्ति ॥ ७ ॥

अविरोधश्च सादृश्यमेकदेशस्थितिस्तथा ।

एकीभावस्त्रिधा प्रोक्तो नैकीभावः स्वरूपयोः ।
कुतोऽभूतस्य भवनं स्वरूपस्यैक्यमेव हि ॥

अतो नदीनां जीवानां विरुद्धानां नृणामपि ।
अब्धिना हरिणा चैव तथैव च नरान्तरैः ॥

एकीभावस्तु संश्लेषो विरोधस्य च वर्जनम् ।
स्वरूपैक्यं कुतस्तेषां नित्यभिन्नस्वरूपिणाम् ॥

हरेरपि स्वरूपाणामेकीभावो यदोच्यते ।

संश्लेष एव सिद्धत्वात् स्वरूपैक्यस्य नो भवः ॥ इति च ।

गताः मुक्ताः । प्राणादिपञ्चदशकलारूपा देवताः अन्ये च प्रतिदेवतासु देवताप्रतिबिम्बभूतासु प्रजासु प्रति प्रति स्थिताः कर्माणि विज्ञानमयो जीवश्च परमात्मनि प्रविशन्ति ।

प्रतिबिम्बो हरेः प्राणस्तस्य चान्याः कलाः क्रमात् ।
कलानां देवता अन्या देवतानां नरा अपि ॥

तस्मात् सर्वेषु मुक्तेषु नरेष्वपि नियामकाः ।
तिष्ठन्ति नात्र सन्देहः परमात्मनि चाखिलाः ॥ इति मुक्तिविवेके ॥

कलाभ्यश्चान्यदेवेभ्यः कर्म प्रत्यवरं यतः ।

कलाभ्यः पृथगुक्तं तत् पुष्करः कर्म चोच्यते ॥ इति च ।

अन्यथा गता भविष्यन्तीत्यध्याहारो दोषः । न च मूलरूपाणि प्रतिदेवता इत्युच्यन्ते देवानाम् । प्रतिरूपशब्दवदि्ध प्रतिदेवताशब्दः । विज्ञानात्मा सह देवैश्च सर्वैः प्राणा भूतानि सम्प्रतिष्ठन्ति यत्र इमाः षोडशकलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति इति यथा सोम्येमाः समुद्रायणाः इति नदीदृष्टान्तपूर्वकं पुरुषप्राप्तिकथनाच्च मुक्ता देवता एवोच्यन्ते । स प्राणमसृजत इत्यादेश्च पुरुषो भगवान् ॥ ७ ॥

यथा नद्यः स्यन्दमानाः समुद्रेऽस्तं गच्छन्ति नामरूपे विहाय ।
तथा विद्वान्नामरूपाद् विमुक्तः परात् परं पुरुषमुपैति दिव्यम् ॥ ८ ॥

अगम्यनामरूपत्वादमुक्तैर्मुक्तिगा नराः ।
विहीननामरूपास्तु न हि तद्रहितत्वतः ॥

अशरीरो यथा वायुः सामान्यागम्यदेहतः ।

एवं नद्यः समुद्रस्थाः सामान्यागम्यरूपतः ॥ इति च ।

स्वकीयमुदकं नद्यः समुद्रे नैव जानते ।

वायुस्तु तत्पृथग्ज्ञात्वा मेघे कृत्वा प्रवर्षति ॥ इति च ।

विमुक्त इत्यमुक्त इत्यर्थः । विप्रिय इतिवत् । अविहायेति च । अनन्तं वै नाम इति श्रुतिः ॥ ८ ॥

स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति नास्याब्रह्मवित् कुले भवति ।
तरति शोकं तरति पाप्मानं गुहाग्रन्थिभ्यो विमुक्तोऽमृतो भवति ॥ ९ ॥

परं ब्रह्म विदित्वा तु बृंहितः स्यात् स्वयोग्यतः ।

नायोग्यं किञ्चिदाप्नोति कुत एव हरेर्गुणान् ॥ इति च ।

ब्रह्मत्वं बृंहितत्वं स्याज्जीवानां न परात्मता ।

अस्वतन्त्रस्य जीवस्य कुतो नित्यस्वतन्त्रता ॥ इति स्कान्दे ।

यत्रामृतः स पुरुषो ह्यव्ययात्मा यत्र तत्सत्यस्य परमं निधानम् अमृतस्यैष सेतुः शरवत् तन्मयो भवेत् ब्रह्म तल्लक्ष्यमुच्यते निरञ्जनः परमं साम्यमुपैति इत्यादिना मुक्तस्य सर्वत्र भगवत्सकाशाद्भेदस्यैवोक्तत्वाच्च । मुक्तोपसृप्यव्यपदेशात् जगद्व्यापारवर्जम् प्रकरणादसन्निहितत्वाच्च इत्यादिना भगवताऽपि सर्वत्र भेदस्यैव सूचितत्वात् ।

न ते महित्वमन्वश्नुवन्ति । सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता

ब्रह्मेशानादिभिर्देवैर्यत्प्राप्तुं नैव शक्यते ।

तद्यत्स्वभावः कैवल्यं स भवान् केवलो हरे ॥ इत्यादेश्च ।

मुक्तेभ्योऽपि मनुष्येभ्यो देवा एव गुणाधिकाः ।
तेभ्यो वायुस्ततो विष्णुः परिपूर्णगुणः सदा ॥

ये त्वेतदन्यथा विद्युस्ते हि यान्त्यधरं तमः ।

ये त्वेतदेवं जानन्ति ते यान्ति परमं हरिम् ॥ इति च ।

देवानां सन्ततौ जाताः प्रायशो ज्ञानिनः कृते ।
बलवद्धेतुतश्चान्ये यस्माद् ब्रह्मविदः सुराः ॥

न सन्ततौ ब्रह्मविदो नराणां ज्ञानिनामपि ।
प्रायशः स्युः सुराणां च नियमोऽयं कृते युगे ॥

तस्मात् स भगवान् विष्णुर्ज्ञेयः सर्वोत्तमोत्तमः ।

सदा सर्वगुणैः पूर्णो योऽनन्तः पुरुषोत्तमः ॥ इति च ।

तदेष श्लोकः ।

क्रियावन्तः श्रोत्रिया ब्रह्मनिष्ठाः स्वयं जुह्वत एकर्षीन् श्रद्धयन्तः ।
तेषामेवैतां ब्रह्मविद्यां वदेत शिरोव्रतं विधिवद् यैस्तु चीर्णम् ॥ १० ॥

तदेतत् सत्यमृषिरङ्गिराः पुरोवाच नैतदचीर्णव्रतोऽधीते ।
ॐ नमः परमऋषिभ्यो नमः परमऋषिभ्यः ॥ ११ ॥

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितम् आथर्वणोपनिषद्भाष्यं समाप्तम् ॥

प्रीयतां भगवान् मह्यं प्रेष्ठप्रेष्ठतमः सदा ।
मम नित्यं नमाम्येनं परमोदारसद्गुणम् ॥