दीपिका

माण्डूक्योपनिषत् दीपिकाख्यव्याख्यासहिता

हरिः ॐ ।
अथ माण्डूक्योपनिषत् ।
श्रीशङ्करानन्दभगवत्कृतदीपिकाख्यव्याख्यासहिता ।

            --------------------------------  

हरिः ॐ । ॐइत्येतदक्षरमिदꣳ सर्वं तस्योपव्याख्यानं भूतं
भवद्भविष्यदिति सर्वमोङ्कार एव । यच्चान्यत्त्रिकालातीतं
तदप्योङ्कार एव ॥ १॥

 माण्डूक्योपनिषद्व्याख्यां करिष्ये पदचारिणीम् ।  
 ॐमात्माभेदसम्बोधादानन्दात्मप्रकाशिनीम् ॥ १॥  

            --------------------------------  

नामनामिनोर्लोके भेदस्याप्रसिद्धत्वाद्वस्तुतश्चोङ्कारस्य
ब्रह्मविवर्तत्वाद्विवर्तानां च विवर्ताधिष्ठानेन भेदशून्यत्वादत
ॐकारं ब्रह्मनामधेयं ब्रह्मदृष्ट्याऽऽह ॥ ॐ ॥ अवति
ब्रह्मबुद्ध्या दृष्टो द्रष्टॄनित्योम् ॥ इति, ॐङ्कारानुकरणार्थः ॥

एतत् ॥ उक्तमोङ्काररूपं जगत्पर्णस्य शङ्कुस्थानीयं ब्रह्मणा
तादात्म्यं प्राप्तं ब्रह्मणो विकारो नामधेयं च ॥ अक्षरम् ,
वर्णात्मकम् ॥ इदं विविधप्रत्ययगम्यं चेतनाचेतनात्मकं जगत्
सर्वं निखिलं तस्य सर्वात्मकस्योङ्कारस्योपव्याख्यानमुप सामीप्येन
विस्पष्टमासमन्तात्कथनमुक्तार्थविवरणमित्यर्थः ॥ भूतमतीतं
भवद्वर्तमानं भविष्यदनागतमित्यनेन प्रकारेण सर्वं
निखिलमोङ्कार एव प्रणव एव, न त्वन्यत् ॥ यच्च यदपि प्रसिद्धं
सदसदात्मकमन्यदुक्ताद्व्यतिरिक्तं त्रिकालातीतमुक्तकालत्रयासंसृष्टं
तदप्युक्तं ब्रह्म नरविषाणादिकमपि । अपिशब्दः पूर्वेण समुच्चयमाह ॥

ॐङ्कार एव ॥ व्याख्यातम् ॥ १॥

            --------------------------------  
 सर्वꣳ ह्येतद्ब्रह्मायमात्मा ब्रह्म सोऽयमात्मा चतुष्पात् ॥ २॥  

 जागरितस्थानो बहिष्प्रज्ञः सप्ताङ्ग  
 एकोनविंशतिमुखः स्थूलभुग्वैश्वानरः प्रथमः पादः ॥ ३॥  

            --------------------------------  

ॐङ्कारस्य ब्रह्मणो नामधेयत्वादिसंव्याप्तिरित्यभिप्रायेणा
आह ॥ सर्वं निखिलं हि निश्चितमेतत्प्रपञ्चजातं ब्रह्म
सत्यज्ञानादिलक्षणं बृहत् । जडस्यैव ब्रह्मात्मत्वमुक्तं,
न चेतनस्येतिशङ्कानिराकरणार्थमाह ॥ अयमनुभूयमान
आत्माऽस्मत्प्रत्ययालम्बनश्चेतनस्त्वम्पदार्थः । ब्रह्मोक्तं तत्पदार्थः ।
स कार्यकारणभावमन्तरेण ब्रह्मणा तादात्म्यं प्राप्तोऽयमात्मा
व्याख्यातम् । चतुष्पाच्चत्वारः पादा यस्य स चतुष्पात् ॥ २॥

गौरिव किं चतुष्पादित्याशङ्क्य नेत्याह ॥ जागरितस्थानो जागरितं
स्थानं यस्य सः जागरितस्थानः । बहिःप्रज्ञो बहीरूपादौ
चक्षुरादिग्राह्ये प्रज्ञा यस्य स बहिःप्रज्ञः ॥सप्ताङ्गः
सप्तसङ्ख्याकानि द्युसूर्यवाय्वाकाशरयिपृथिव्याहवनीयाख्यानि
मूर्धचक्षुःप्राणशरीरान्तर्भागमूत्राशयपादास्यान्यङ्गानि
यस्य स सप्ताऽङ्गः ॥ एकोनविंशतिमुखः,
पञ्चज्ञानकर्मेन्द्रियप्राणान्तःकरणचतुष्टयरूपाणि
मुखान्येकोनविंशतिसङ्ख्याकानि यस्य स एकोनविंशतिमुखः ॥

स्थूलभुक्, स्थूलं रूपादिकं भुङ्क्त इति स्थूलभुक् ॥

वैश्वानरो विश्वेषामयं नरो विश्वे वा नरा यस्य विश्वश्चासौ
नरश्चेति वा विश्वानरः, स एव वैश्वानरः । अथवा विश्वेषां
नरशब्दवाच्यानां चतुर्विधानां स्थूलानां देहानामधिष्ठाताऽयं
वैश्वानरः प्रथमः पादः । आत्मनोऽयं सर्वैः सुकरावगमत्वात्
प्रथमोंऽशः ॥ ३॥

            --------------------------------  
 स्वप्नस्थानोऽन्तःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः  
 प्रविविक्तभुक् तैजसो द्वितीयः पादः ॥ ४॥  

 यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन  
 स्वप्नं पश्यति तत्सुषुप्तम् । सुषुप्तस्थान एकीभूतः  
 प्रज्ञानघन एवऽऽनन्दमयो ह्यानन्दभुक् चेतोमुखः  
 प्राज्ञस्तृतीयः पादः ॥ ५॥  

            --------------------------------  

इदानीं द्वितीयं पादमाह ॥ स्वप्नस्थानः स्वप्नं जागरितवासनाजन्यं
स्थानं यस्य स स्वप्नस्थानः ॥ अन्तःप्रज्ञोऽन्तर्मानसवासनाविलासे
प्रज्ञा बुद्धिर्यस्य सोऽन्तःप्रज्ञः ॥ सप्ताङ्ग एकोनविंशतिमुखः ॥

व्याख्यातम् । प्रविविक्तभुक्प्रविविक्तं सूक्ष्मं भुङ्क्त इति
प्रविविक्तभुक् । तैजसस्तेजोऽन्तःकरणं कर्तृकरणकार्यादिभावेन
परिणतं तदेव स्थूलशरीरादिहीनं यस्य सः तैजसः । अन्तःकरणस्य
स्वामीत्यर्थः । जागरितानन्तरभावित्वात् ॥ द्वितीयः पादः ॥ स्पष्टम् ॥ ४॥

इदानीं तृतीयं पादं वक्तुमाह ॥ यत्र यस्मिन् काले सुप्त
उपरतेन्द्रियग्रामो, न कञ्चन कामं कामयते कमपि
पुण्यपापहेतुभूतं पुत्रक्षेत्रादिकं नाभिलषति ॥ न
कञ्चन स्वप्नं पश्यति कमपि शुभमशुभं वासनाविलासं
नावलोकयति ॥ तत् कामाकामनस्वप्नानवलोकनरूपं सुषुप्तं
गाढनिद्राप्राप्तिस्थानम् ॥ सुषुप्तस्थानः ॥ सुषुप्तं
स्वयं श्रुत्या व्याख्यातं स्थानं यस्य स सुषुप्तस्थानः ॥ एकीभूतः
सर्वजगद्बीजभूतस्याऽऽवरणात्मकस्याज्ञानस्यानुपरमा-दनेकोऽप्यन्तःकरणविक्षेपोपरमादेकतां
गतः, प्रज्ञानघन एव प्रज्ञानमात्मनो रूपं ब्रह्मणा भेदरहितं
स्वयम्प्रकाशं तस्य घनः पिण्ड इव स एव न त्वन्तःकरणादिबाह्यं
च । न च निरानन्द इत्याह ॥

आनन्दमयो, विक्षेपाणामुपरमादावरणस्यानुवृत्तेश्च
स्वरूपानन्दप्रचुरो, हि यस्मात्तस्मादानन्दभुगानन्दो
विक्षेपाभावोपलक्षित आत्मा तमेव
भुङ्क्तेऽज्ञावृत्तिभिरवगच्छतीत्यानन्दभुक् ॥ चेतोमुख,
चेत आत्मस्वरूपबोधः स एवाऽऽवरणशक्तिसहितो मुखं यस्य
स चेतोमुखः ॥ प्राज्ञः प्रकृष्टे स्वयम्प्रकाश आनन्दात्मनि
साज्ञाने ज्ञप्तिरज्ञानावृत्तिरूपो बोधो यस्य स प्रज्ञः प्रज्ञ एव
प्राज्ञः ॥ उक्तावस्थाद्वयाभावेनाऽवगम्यमानत्वात् । तृतीयः पादः ।
स्पष्टम् ॥ ५॥

            --------------------------------  
 एष सर्वेश्वर एष सर्वज्ञ एषोऽन्तर्यामेष योनिः सर्वस्य  
 प्रभवाप्ययौ हि भूतानाम् ॥ ६॥  

 नान्तःप्रज्ञं न बहिष्प्रज्ञं नोभयतःप्रज्ञं न  
 प्रज्ञानघनं न प्रज्ञं नाप्रज्ञम् ।  
 अदृष्टमव्यवहार्यमग्राह्यमलक्षणमचिन्त्यमव्यपदेश्यमेकात्मप्रत्ययसारं  
 प्रपञ्चोपशमं शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते स  
 आत्मा स विज्ञेयः ॥ ७॥  

 सोऽयमात्माऽध्यक्षरमोङ्कारोऽधिमात्रं पादा मात्रा  
 मात्राश्च पादा अकार उकारो मकार इति ॥ ८॥  

            --------------------------------  

इदानीं प्राज्ञं प्रस्तौति सर्वकारणत्वात्तस्य ॥ एष उक्तः प्राज्ञः
सर्वेश्वरः सर्वनियात्मकः ॥ एष प्राज्ञः सर्वज्ञः सर्वश्चासौ
ज्ञश्चेति सर्वकार्यात्मकत्वादज्ञानस्य वा जानातीति सर्वज्ञः ॥

एष प्राज्ञोऽन्तर्यामी अन्तर्यमयिता एष प्राज्ञो, योनिः कारणं,
सर्वस्य निखिलस्य चेतनाचेतनात्मकस्य जगतः ॥ योनित्वे हेतुमाह
॥प्रभवाप्ययावुत्पत्तिविनाशौ हि यस्माद्भूतानां चेतनाचेतनरूपाणामितो
भवत इति शेषः ॥ ६॥

इदानीं तुरीयं पादमाह ॥ नान्तःप्रज्ञं, न
मानसवासनाविलासदर्शनलालसं, न बहिःप्रज्ञं
नेन्द्रियैर्विषयावलोकनपरं, नोभयतःप्रज्ञं
जागरणस्वप्नान्तरालावस्थावबोधशून्यं, न प्रज्ञानघनं न
ज्ञानमात्रबोधं, न प्रज्ञं निर्विकल्पबोधशून्यं, नाप्रज्ञं न
बोधाभावरूपम् ॥ अदृष्टं प्रत्यक्षादिप्रमाणैरनवलोकितम् ॥

अव्यवहार्यं वचनादानादिव्यवहारगन्धरहितम् ॥ अग्राह्यं
सर्वप्रकारग्रहणायोग्यम् ॥ अलक्षणं गन्धवत्त्वादिबोधशून्यम् ॥

अचिन्त्यम् अन्तःकरणवृत्त्यविषयभूतम् ॥

अव्यपदेश्यं पृथिवीत्यादिव्यपदेशवद् व्यपदेशायोग्यम् ॥

एकात्मप्रत्ययसारं सर्वाद्वैतप्रत्ययः सारभूतोऽवगतिहेतुत्वेन
यस्मिंस्तदेकात्मप्रत्ययसारं, वाङ्मनसातीतमप्यात्मबोधेनावगन्तुं
शक्यमित्यर्थः ॥ प्रपञ्चोपशमं प्रपञ्चस्य
कार्यकारणात्मकस्योपशमोऽभावो यस्मिंस्तत्प्रपञ्चोपशमम् । शान्तं
स्पष्टम् ॥ शिवं स्वयम्प्रकाशमानन्दाऽऽत्मस्वरूपत्वान्मङ्गलम् ॥

अद्वैतम् आनन्दात्मव्यतिरिक्तशून्यं,
चतुर्थं तुरीयं पादं मन्यन्ते सङ्ख्याशून्यमपि
पूर्वापेक्षयाऽवगच्छन्ति ॥ स वस्तुतस्त्वतुरीयरूपोऽप्यविद्यया
चतुष्पादात्माऽऽनन्दात्माऽस्मत्प्रत्ययव्यवहारयोग्यः, स
तुरीयरूपोऽपगतसमस्तविशेषो विज्ञेयो विशेषेण साक्षात्कर्तव्यः ॥ ७॥

इदानीमात्मोङ्कारयोरभेदं कण्ठत आह । सोऽयमात्मा ॥ व्याख्यातम् ॥

अध्यक्षरम् अक्षराण्यकारोकारम् अकारार्धमात्राख्यानि
स्वपादसम्मितान्यधिकृत्य वर्तत इत्यध्यक्षरम् ॥

ॐकार ॐकारस्वरूप ॐकारस्याऽऽत्मस्वरूपत्वे साम्यम् ॥ अधिमात्रम्
अकाराद्याश्चतस्रो मात्रा विश्वादिपादसमसङ्ख्याका अधिकृत्य अधिमात्रम् ।
आत्मोङ्कारयोरभेदे कारणमाह ॥ पादा विश्वतैजसप्राज्ञतुरीयाख्या,
मात्रा अकारोकारमकारार्धमात्राः । तादात्म्यं दृढीकर्तुमुक्तं
विपर्ययेण निर्दिशति ॥ मात्राश्च पादाः । चकार एवकाराऽर्थः ।
नायं विपर्ययनिर्देशस्त्वमहमितिवदुपचारार्थः,
किन्तु घटः कलशः कलशो घट इतिवन्निरूपचरितं
मात्राणां पादानां च तादात्म्यमित्येवकारार्थः ।
व्याख्यातमन्यत् । अर्धमात्रायास्तुरीयपादरूपत्वात्तुरीयस्य च
पूर्वपादत्रयादत्यन्तवैलक्षण्यादतोऽर्धमात्रां परित्यज्य शेषमात्रा
आह ॥ अकार उकारो मकारः ॥ स्पष्टम् ॥ इति मात्रात्रयनिर्देशार्थः ॥ ८॥

            --------------------------------  
 जागरितस्थानो वैश्वानरोऽकारः प्रथमा  
 मात्राऽऽप्तेरादिमत्त्वाद्वाऽऽनोति ह वै सर्वान्  
 कामानादिश्च भवति य एवं वेद॥ ९॥  

            --------------------------------  

इदानीं विभागेन मात्राणां पादरूपतामाह ॥ जागरितस्थानो
वैश्वानरोऽकारः, प्रथमा मात्रा पूर्वा मात्रा ॥ व्याख्यातमन्यत् ।
अकारस्य पूर्वमात्रत्व उपपत्तिमाह ॥ आप्तेर्व्याप्तेः । अकारो हि
जागरितस्थानादिकं सर्वमाप्नोति ॥

प्रकारान्तरेण पुनर्निरुक्तिमाह ॥ आदिमत्त्वाद्वा ॥ अ आ इ
इत्येवमादिरादिः । स यस्मिन्नस्ति सोऽयमादिमांस्तस्य भाव
आदिमत्त्वमादिसामान्यवत्त्वमित्यर्थः । प्रथमपादोऽपि यथा
पादानामादिरत एव तत्सामान्यवानाप्नोति चेतरत्पादजातं
पूर्वभावित्वात् । वाशब्दः पक्षान्तरार्थः ।
विश्वाकारयोरैक्यमाप्तेर्वाऽऽदिमत्त्वाद्वेत्यर्थः । इदानीं
विश्वाकारयोराप्त्याऽऽदिमत्त्वज्ञानात्फलमाह ॥आप्नोति प्राप्नोति
हि प्रसिद्धान् वै स्मर्यमाणान् सर्वान् निखिलान् कामान् काम्यमानान्
पुत्रक्षेत्रादीन् । आप्तेः फलमुक्त्वाऽऽदिमत्त्वस्य फलमाह ॥

आदिश्च स्वानां मध्ये सर्वेषु कार्येषु प्रथमगण्यः । चकारादपि
प्रथमं फलं भवति । स्पष्टम् ॥ यस्य फलं तमाह ॥ यः
पादमात्रातादात्म्यज्ञ, एवमुक्तेन प्रकारेणोक्तयोः पादमात्रयोः सामान्यं
वेद जानाति स आप्नोतीत्यन्वयः ॥ ९॥

            --------------------------------  
 स्वप्नस्थानतैजस उकारो द्वितीया  
 मात्रोत्कर्षादुभयत्वाद्वोत्कर्षति ह वै ज्ञानसन्ततिं  
 समानश्च भवति  
 नास्याब्रह्मवित् कुले भवति य एवं वेद ॥ १०॥  

 सुषुप्तस्थानः प्राज्ञो मकारस्तृतीया मात्रा मितेरपीतेर्वा  
 मिनोति ह वा इदꣳ सर्वमपीतिश्च भवति  
 य एवं वेद ॥ ११॥  

            --------------------------------  

स्वप्नस्थानस्तैजस उकारो द्वितीयामात्रा ।
स्पष्टम् ॥ तैजसोकारयोस्तादात्म्ये हेतुमाह ॥

उत्कर्षादूर्ध्वभावित्वेनोत्कृष्टत्वात् । पुनरन्यत् सामान्यमाह ॥

उभयत्वाद्वा ॥ विश्वाकाराभ्यां तैजसोकारयोर्द्वितीयत्वात् ॥

वाशब्दः पूर्ववत् । इदानीमुक्तज्ञानस्य फलमाह ॥ उत्कर्षति ह
वै ज्ञानसन्ततिं शिष्यप्रशिष्यादिज्ञानसन्तत्योत्कृष्टो भवति ।
व्याख्यातमन्यत् । उभयत्वज्ञानस्य फलमाह ॥ समानश्च
भवति, यो हि स्वावस्थानदेशेकालेवोत्कृष्टस्तत्समानः ।
चकारात्तस्मादुत्कृष्टोऽपि भवति । इदानीमुभयज्ञानस्य साधारणं
फलमाह ॥ नास्याब्रह्मवित्कुले भवति ॥ अस्योत्कर्षोभयत्वज्ञानवतः
कुलेऽन्वये शिष्यप्रशिष्यादिरूपेऽहं ब्रह्मास्मीत्येतज्ज्ञानशून्यो न
भवति ॥ य एवं वेद ॥ व्याख्यातम् ॥ १०॥

सुषुप्तस्थानः प्राज्ञो मकारस्तृतीया मात्रा, स्पष्टम् ।
प्राज्ञमकारयोस्तादात्म्ये हेतुमाह ॥ मितेर्मिनोति
हि प्राज्ञः सर्वमात्मनि तादात्म्येन मकारोऽप्यकारोकारौ
प्रक्षिपत्येवमात्मस्वरूपेऽन्यथोङ्कारस्यानिष्पत्तेः । अपीतेर्वा मकारो
ह्योङ्कारे वर्तमानः स्पष्टं नोपलभ्यते । ततः प्रलयः प्राज्ञश्च
प्रलयः प्रसिद्धः । प्रलयसामान्यात् । वाशब्दः पूर्ववत् ॥

इदानीं मितिज्ञानस्य फलमाह ॥ मिनोति ह वा इदं सर्वम् ॥

इदम् विविधप्रत्ययगम्यं जगन्निखिलं प्रस्थमिव यावत्,
मिनोति सर्वात्मभावेन स्वात्मनि प्रक्षिपति । अपीतिज्ञानस्य फलमाह ॥

अपीतिश्च भवति, सर्वाधिक्येन प्रलयः सर्वस्य ॥ चकारात् स्वयं
प्रलयशून्यश्च भवति ॥ य एवं वेद, व्याख्यातम् ॥ ११॥

            --------------------------------  
 अमात्रश्चतुर्थोऽव्यवहार्यः प्रपञ्चोपशमः शिवोऽद्वैत  
 एवमोङ्कार आत्मैव संविशत्यात्मनाऽऽत्मानं य एवं  
 वेद ॥ १२॥  

            इति माण्डूक्योपनिषत् ॥  

            --------------------------------  

अर्धमात्राया अवयवस्योङ्कारस्याऽववयविनश्चाभेदमुररीकृत्य
चतुर्थपादरूपनिरञ्जनात्मस्वरूपतामोङ्कारस्याऽऽह ॥

अमात्रोऽकारादिमात्राशून्यश्चतुर्थोऽव्यवहार्यः
प्रपञ्चोपशमः शिवोऽद्वैतः, स्पष्टम् ॥

एवमुक्तेन मात्रातादात्म्येनोङ्कार आत्मैव ॥

स्पष्टम् । संविशति सम्यक्प्रवेशं
करोत्यात्मनोङ्कारेणाऽऽत्मानमानन्दात्मस्वरूपं य
ॐङ्कारात्मज्ञ एवमुक्तेन प्रकारेणोङ्कारात्मनोस्तादात्म्यं वेद जानाति
तस्योक्तोङ्ङ्काररूपानन्दात्मप्राप्तिफलमर्थसिद्धं । ततः श्रुत्या
नोक्तम् । अथ वा संविशत्यात्मनाऽऽत्मानमितीदं फलवाक्यमस्तु ॥ १२॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यानन्दात्मपूज्यपादशिष्यस्य
श्रीशङ्करानन्दभगवतः कृतौ माण्डूक्योपनिषद्दीपिका समाप्ता ॥