माण्डूक्योपनिषत्
कूरनारायणमुनिभाषितम्
॥ श्रीः ॥
माण्डूक्योपनिषत्
(अथर्ववेदीयोपनिषच्छान्तिपाठः)
ओम्
भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः ॥
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥
॥ ओं शान्तिः शान्तिः शान्तिः ॥
देवा: - हे देवाः ! भद्रम् - कल्याणम् (वेदाख्यं, साङ्गेतिहासपुराणम्), कर्णेभिः - श्रोत्रैः
शृणुयाम - श्रोतुं, समर्था भवेम । यजत्राः - हे यजत्राः ! यजन्तं त्रायन्ते रक्षन्तीति यजत्राः,
यजमानपालका: अक्षभिः - नेत्रैः, भद्रम् - कल्याणम्, पश्येम - द्रष्टुं समर्था भवेम । स्थिरैः -
दृढै:, अङ्गैः - करचरणाद्यवयवैः, तथा तनूभिः - शरीरैः, युक्ताः, तुष्टुवांसः - भवतः स्तुवन्तः
(वयम्), देवहितम् - देवैः स्थापितं देवानां हितं देवोपासनयोग्यं वा, यदायुः शतप्रमाणमायुः
इति शतप्रमाणमायुः, व्यशेम - प्राप्नुयाम ।
पूर्वत्र प्रत्यक्षेण प्रार्थिता देवाः । अत्र तु परोक्षेण निर्दिश्य एकैकशः प्रार्थ्यन्ते । न: -
अस्माकं, वृद्धश्रवाः - वृद्धश्रवणः, सदा श्रोत्रश्रवणात्, यद्वा वृद्धः महात्मभिः सदा श्रूयते इति
वृद्धश्रवाः, इन्द्रः - इन्द्रः, स्वस्ति - कल्याणं दधातु - विदधातु । तथा विश्ववेदाः - विश्वैः विद्यते
ज्ञायते लभ्यते वेति विश्ववेदाः - यद्वा विश्वानि ज्ञानानि धनानि वा यस्येति बहुव्रीहिः पूषा - सूर्यः
न: - अस्माकं स्वस्ति - कल्याणं दधातु - विदधातु; एवम् अरिष्टनेमिः - अनुपक्षीणनेमिः,
प्रथिनेमिः, तार्क्ष्यः - तार्क्ष्यों नाम छन्दोमयो रथ: यः, विहगराजो वा, न: - अस्माकं, स्वस्ति
कल्याणम्, दधातु - विदधातु । बृहस्पतिः - देवगुरुश्च, नः, अस्माकं, स्वस्ति - कल्याण
दधातु - विदधातु’ ॥
प्रथमः खण्डः
[प्रणवशब्दवाच्यः परमात्मा]
हरिः ओम् । ओमित्येतदक्षरमिदं सर्वम् । तस्योपव्याख्यानम् । भूतं भवद्
भविष्यदिति सर्वमोङ्कार एव । यच्चान्यत् त्रिकालातीतं, तदप्योंङ्कार एव ॥ १ ॥
कू.भा. – मुमुक्षोरधिकारिणो निखिलक्लेशनिवृत्तिपूर्वकं परमानन्दावाप्तये समस्तव्यस्त-
प्रणवप्रतिपाद्यभगवदुपासनं वक्तुं प्रवृत्तेयं आदौ समस्तप्रणवप्रतिपाद्यं तावदाह - ओमित्येतदिति ।
एतदिति श्रवणाद्यदित्यन्वेति । ओमिति, उक्तमिति शेषः । ओतं जगदस्मिन्निति व्युत्पत्त्या ओमित्युक्तं
यद् ब्रह्म तदक्षरं सत्यं इदंशब्दवाच्यस्य सर्वस्य चिदचिदात्मकप्रपञ्चस्याक्षरे ओतत्वात्सर्वम् । केन
निमित्तेनोंङ्कारवाच्यं ब्रह्माक्षर- मुच्यत इत्यतो न क्षरतीत्यक्षरमिति व्युत्पत्त्या कालत्रयेप्येकप्रकारतया
नित्यत्वेनेति भावेन प्रतिज्ञापूर्वकं प्रवृत्तिनिमित्तमाह- तस्येति । विशिष्य आख्यायतेऽनेनेति व्याख्यानं
प्रवृत्तिनिमित्तं तस्य ओमित्येतत्प्रतिपाद्यस्याक्षरशब्दार्थत्वे उपपन्नं व्याख्यानमुच्यत इत्यर्थः । तत्किमित्यत
आह - भूतमिति । ओमित्युक्तं ब्रह्म भूतं - अतीतकालेऽपि विद्यमानं, भवत् - वर्तमानकालेऽपि
सत्, भविष्यत् - आगामिकालेऽपि सत् । शश्वदेकप्रकारमिति यावत् । अतोऽक्षरमुच्यत इत्यर्थः । इति
शब्दस्योपव्याख्यानमित्यन्वयः । यदक्षरस्य सर्वत्वमुक्तं तदन्यस्याऽप्यस्ति किमित्यतो नेत्याह
- सर्वमिति । ओमित्याक्रियते प्रतिपाद्यत इत्योङ्कारः । कृत् कर्मणि घञ् । अचो ञ्णिति
(पा,सू. 7-2-25) इति वृद्धिः । घञन्ताः पुँसि (लिङ्गान्) इति पुल्लिङ्गता । ओमित्युच्यमानमक्षरमेव
सर्वं ; न त्वन्यदित्यर्थः। भूतमित्यादिनोक्तं शश्वदेकप्रकारत्वरूपं कालत्रयातीतत्वमक्षरपदप्रवृत्तिनिमित्तमपि
नान्यस्येत्याह - यच्चान्यदिति। कालत्रयकृतविकारातीतं यदन्यद्वस्त्वस्ति तदप्योंङ्कार एव
ओमित्युच्यमानमक्षराख्यं ब्रह्मैव । न ततोऽन्यत्तादृशमित्यर्थः ॥ 1 ॥
[नादात्मकः पादचतुष्टययुक्तः परमात्मा]
सर्वं ह्येतद् ब्रह्म; अयमात्मा ब्रह्म।
सोऽयमात्मा चतुष्पात् ॥ २ ॥
॥ इति प्रथमः खण्डः ॥
कू.भा. – सर्वमोङ्कार एवेत्यत्र ओं पदवाच्यस्य ब्रह्मणः पूर्णत्वमुक्तम् । तत्कुत इत्याशङ्कां
प्रमाणसूचनेन निराकृत्याह - सर्वं ह्येतद्ब्रह्मेति । एतत् - ओङ्कारपदवाच्यमक्षराख्यं ब्रह्म सर्वं पूर्णं हि । परमं
यो महद्ब्रह्म (स.ना.पू.पी. 8) तदेतद्ब्रह्म परमं कवीनां, पूर्णमदः पूर्णमिदम् (बृ.उ.-7-1-1)
इत्यादिषु प्रसिद्धमित्यर्थः। ननु जीवानामपि क्रियासु स्वातन्त्र्यानुभवेन तत्रापि कश्चिदस्ति नियन्तेत्यत
आह - अयमिति । ब्रह्मादिष्वादानकर्तृतया स्थितोऽप्यात्मा अयं ब्रह्म प्रागुक्त ओम्पदवाच्यं ब्रह्मैव,
न त्वन्यः कश्चिदित्यर्थः । इति समस्तप्रणवप्रतिपाद्योक्तिः । एवं समस्तप्रणवप्रतिपाद्यमुपासनार्थं
निरूप्येदानीं तस्यैकदेशैरकारोकारमकारनादैः प्रतिपाद्यानां विश्वादिभगवद्रूपाणामुपासनं अकारउकारोमकार
इत्यादिना तृतीयखण्डे वक्तुं तानि रूपाण्याह - सोऽयमिति । सोऽयं समस्त ओम् पदवाच्योऽक्षरनामा
ब्रह्मादिषु नियामकतया स्थित आत्मा चतुष्पात् चत्वारः पादाः अंशा स्वरूपभूता यस्य स
चतुष्पात् । पादपदस्य संख्यासुपूर्वस्य (पा.सू. 5-4-140) इत्यन्तलोपः । सर्वजीवनियामकतया
तत्तद्देहेषु चतूरूपतया तिष्ठतीत्यर्थः ॥ 2 ॥
द्वितीयः खण्डः
[वैश्वानरात्मकः ओंकारस्य प्रथमपादः]
जागरितस्थानो बहिष्प्रज्ञः सप्ताङ्ग एकोनविंशतिमुख: स्थूलभुग्वैश्वानरः प्रथमः पादः ॥१॥
कू.भा. - कानि तेषां स्थानानि ? कश्च व्यापारः ? कीदृशानि तानि रूपाणि ? किं
तेषां भोग्यम् ? कानि नामानीत्यतस्तत्सर्वं क्रमेणाह - जागरितेति । यत्र स्थित्वा जागर्ति
तच्चक्षुर्जागरितम् । अधिकरणे क्तप्रत्ययः । तदेव स्थानं यस्य स जागरितस्थानः । चक्षुःस्थान
इत्यर्थः । बहिःप्रज्ञः - बहिश्शब्दोदित- बाह्यार्थान् प्रज्ञापयति जानाति चेति बहिः प्रज्ञः । जानातेरन्तर्णी-
तण्यर्थात्। इगुपधज्ञाप्रीकिरः कः (पा.सू. 3-1-135) इति ‘कप्रत्ययः’। आतो लोप इटि च
(पा.सू.6-4-64) इत्याकारलोपः । सप्ताङ्गः - चत्वारो हस्ताः, द्वौ पादौ, गजमुखत्वाद्गजहस्त
एक इति सप्ताङ्गः । एकोनविंशतिमुखः - मध्यममुखं गजमुखाकारं पार्श्वद्वयेन तु नवनवमुखानि
पुरुषमुखाकाराणि इति विवेकः । स्थूलभुक् - स्थूलान् भोगान् भुङक्ते भोजयति चेति स्थूलभुक् ।
वैश्वानरः - विश्यते गम्यते सर्वैः ज्ञायते इति विशतेः कर्मणि व प्रत्ययः । अनेकार्थत्वाद्धातूनां
विशतिरत्र मत्यर्थस्सन् ज्ञानपरः । विश्वं सर्वैर्ज्ञेयं स्थूलं वस्तूच्यते । भोक्तृतया तत्सम्बन्धी
वैश्वः। न रीयते न क्षीयत इति नरः । रीङ् क्षये (धा.पा.) ड प्रत्ययः वैश्वश्चासौ नरश्चेति । नरे
संज्ञायाम् (पा.सू. 6-3-129) इति सूत्रेण भाष्योक्तनिरुक्तिबलाद्वा दीर्घे वैश्वानरः । प्रथमः पादः
आत्मन इति विपरिणामेनात्रोत्तरत्र चानुषङ्गः । सर्वदेहेष्वादानकर्तृत्वेन स्थितस्यात्मनः प्रथमं रूपमित्यर्थः ॥ 1 ॥
[तैजसरूप: भगवान् प्रणवस्य द्वितीय: पादः]
स्वप्नस्थानोऽन्तःप्रज्ञः सप्ताङ्ग एकोनविंशतिमखः प्रविविक्तभुक् तैजसो द्वितीयः पादः ॥ २ ॥
कू.भा. - स्वप्नेति । स्वप्नस्थानः - यत्र स्थित्वा जीवः स्वप्नपदार्थान्पश्यति तत्स्वप्नस्थानम् ।
तदेवस्थानं यस्य सः, कण्ठदेशस्थ इत्यर्थः । अन्तःप्रज्ञः - अन्तःशब्दोऽत्र बाह्यार्थज्ञानजन्यवासना
प्रयुक्तार्थपरः । तान्वासनाजन्यानर्थान् ज्ञापयति जानाति चेत्यन्तः प्रज्ञः । प्रज्ञ इति जानातेः कः ।
अत्र स्वाप्निकपदार्थानां जाग्रद्वासनाजन्यत्वोक्तिः प्रायिकत्वाभिप्राया । दृष्टं चादृष्टं च श्रुतं चाश्रुतं
चानुभूतं चाननुभूतं च सर्वं पश्यति (प्र.उ. 4-5) इति श्रुतेः । सप्ताङ्ग एकोनविंशतिमुख इति
प्राग्वत् । प्रविविक्तभुक्- वासनाजन्यतया बाह्यार्थेभ्यो विविक्तान् स्वाप्नार्थान् भुङ्क्ते
भोजयति चेति प्रविविक्तभुक् । तेजोमयचित्तस्थतया चित्तसम्बन्धित्वेन तैजसनामा
आत्मनो द्वितीयः पादः - द्वितीयं रूपमित्यर्थः ॥ 2 ॥
[प्राज्ञात्मकः ओंकारस्य तृतीयः पादः]
यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति, तत् सुषुप्तम् । सुषुप्तस्थान एकीभूतः प्रज्ञानघन एव आनन्दमयो ह्यानन्दभुक् चेतोमुखः प्राज्ञस्तृतीयः पादः ॥ ३ ॥
कू.भा. - तृतीयपादस्य स्थानं वक्तुं स्थानस्वरूपं तावदाह - यत्रेति । यत्र देशे सुप्तः -
अज्ञानावृतः सुखरूपं भगवन्तं प्राप्त इति वा । प्राज्ञेनात्मना सम्परिष्वक्त (बृ.उ. 6-3-21)
इत्यादेः कञ्चन - कमपि कामं - काम्यमानमर्थं न कामयते - न कञ्चन स्वप्नपदार्थं पश्यति ।
उपलक्षणमेतत् । स्वात्मानं विना किमपि न पश्यति इत्यर्थः । तत्स्थानं सुषुप्तमित्युच्यते ।
सुषुप्तमेव स्थानं यस्य सः सुषुप्तस्थानः । हृत्कर्णिकाग्रस्थ इति यावत् । एकीभूतः -
वैश्वानरतैजसाभ्यां सामान्येन ज्ञानानन्दादिरूपेणैकीभावं प्राप्तः । प्रज्ञानघनः अविद्याकर्मसंज्ञाऽन्या
तृतीया शक्तिरिष्यते । यया क्षेत्रज्ञशक्तिस्सा वेष्टिता ॥ (वि.पु. 6-7-61) इत्युक्तकर्मवेष्टनावृतो
जीवो घन इत्युच्यते । सुषुप्तिवेलायां घनं तज्जीवस्वरूपं जानाति प्रज्ञापयति च जीवस्येति
प्रज्ञानघनः । प्रपूर्वादन्तर्नीतण्यर्थात् ज्ञा अवबोधने (धा.पा. 1508) इति धातोः कृत्यल्युटो बहुलम्
(पा.सू. 3-3-113) इति बहुलग्रहणात् कर्मणि ल्युटि अनादेशे प्रज्ञानः । प्रज्ञापितः घनः जीवो येन
सः प्रज्ञानघन इति विग्रहः । यद्वा घनप्रज्ञ इति वक्ष्यमाणत्वादिहापि प्रज्ञानघन इत्यस्य घनप्रज्ञान
इति विपरीतसमासो ध्येयः। तथात्वे त्वन्तर्नीतण्यर्थात् कर्मणि ल्युट् ।आनन्दमयः - आनन्दप्रचुरः
पूर्णानन्द इति यावत् । यतो वाचो निवर्तन्ते (तै.आन. 9-1)इत्यादौ प्रसिद्धमिति हेरर्थः।
आनन्दभुक् - विषयभोगान्विनैव आनन्दं भुङ्क्ते भोजयति चेति आनन्दभुक् । अतः स्थूलभुक्त्वं
प्रविविक्तभुक्त्वं च नित्यपूर्णानन्दानुभवरूपस्य क्रीडारूपं इति भावः । चेतोमुखः - ज्ञानरूपमुखः ।
मुख इत्युपलक्षणं ज्ञानरूपसर्वावयव इत्यर्थः । एतदानन्दमयत्व, चेतोमुखत्व- रूपविशेषणद्वयं प्रागुक्तरूपद्वये
नान्तःप्रज्ञं इति वक्ष्यमाणचतुर्थरूपे च ध्येयम् । प्राज्ञः - प्रकर्षेण न ज्ञापयतीति प्राज्ञः ।
जीवस्वरूपातिरिक्तं बाह्यं स्वाप्नं वा किमपि न ज्ञापयतीति प्राज्ञनामक इत्यर्थः । प्रपूर्वात् नञुपपदात्
अन्तर्नीतयर्थात् ज्ञाधातोः आतश्चोपसर्गे (पा,सू. 3-3-106) इति कप्रत्ययः । आत्मनस्तृतीयः पादः तृतीयं रूपम् ॥ 3 ॥
[सृष्टिप्रलयकारक: भगवानेव]
एष सर्वेश्वर एष सर्वज्ञ एषोऽन्तर्याम्येष योनिस्सर्वस्य । प्रभवाप्ययौ हि भूतानाम् ॥ ४ ॥
कू.भा. - एवं रूपत्रयं निरूप्य चतुर्थपादं नान्तः प्रज्ञम् इत्यादिना निरूपयिष्यन्
वैश्वानरादिरूपाणामुक्तस्थानव्यापाराद्यर्थेषु श्लोकान्विवक्षुः मध्ये वक्ष्यमाणचतुर्थरूपेण सह चतुर्णां
रूपाणां महिमानमाह - एष इति । एषः उक्तवक्ष्यमाणचतूरूपात्मा। एष इत्यस्याभ्यासस्तात्पर्यार्थः ।
तेनैषां गुणानामा- विद्यकत्वपक्षव्युदासः । सर्वेश्वरः - जाग्रदादि चतुष्टयोपलक्षितसर्ववस्तुशेषी।
सर्वज्ञः - सर्वमिदं स्वरूपतः प्रकारतश्च वेत्तीत्यर्थः । अन्तर्यामी - अन्तर्नियन्ता । सर्वस्य
योनिः- कारणमित्यर्थः । अस्य विवरणं - प्रभवाप्ययौ हि भूतानामिति । हि - यस्मात् प्रभवाप्यवौ
हेतुः अतस्सर्वस्य योनिरित्यर्थः ॥ 4 ॥
[तुरीयस्य वासुदेवस्य निरूपणम्]
उपनिषत्
नान्तःप्रज्ञं न बहिःप्रज्ञं नोभयतःप्रज्ञं न प्रज्ञानघनं नप्रज्ञं नाप्रज्ञं अदृष्टमव्यवहार्यमग्राह्यम
लक्षणमचिन्त्यमव्यपदेश्यमैकात्म्यप्रत्ययसारं प्रपञ्चोपशमं शान्तं शिवमद्वैतं चतुर्थं
मन्यन्ते । स आत्मा । स विज्ञेयः ॥ ५॥
॥ इति द्वितीयः खण्डः ॥
कू.भा. - चतुर्थपादमात्मन आह - नान्तरिति । अन्तःप्रज्ञापयतीत्यन्तःप्रज्ञः,
स्वप्नार्थप्रदर्शकः । स नेत्यर्थः। न बहिःप्रज्ञं जाग्रदर्थप्रदर्शको न भवति । नोभयतःप्रज्ञं -
बाह्यशब्दादिकं जानन् स्वाप्नार्थांश्च यदा पश्यति, साऽपि काचिद्दशा उभयत इत्यनेन गृह्यते ।
उभयतः बाह्याभ्यन्तररूपार्थान् प्रज्ञापयतीति उभयतःप्रज्ञम् ।स नेति नोभयतःप्रज्ञम् ।
एतद्दशाव्यापारो विश्वतैजसाख्येश्वररूपद्वयकर्तृको ज्ञेयः । सोऽपि तुर्ये नास्तीत्यर्थः। न प्रज्ञानघनं-
प्राग्वद्विपरीतसमासः कर्तव्यः । घनप्रज्ञानमिति घनं अज्ञानावृतं सुप्तजीवस्वरूपं प्रज्ञापयतीति
घनप्रज्ञानम् । तन्नभवतीति नप्रज्ञानघनमित्युच्यते । न प्रज्ञम् ; प्रकर्षेण ज्ञापयति मानसवासनामयं
ध्येयमिति प्रज्ञम् ; तन्नेति नप्रज्ञम् । अयमपि स्वाप्निकव्यापारतुल्यतया तैजसाख्यभगवद्रूपव्यापारो
द्रष्टव्यः । सोऽपि तुर्येनेत्यर्थः । इदमुपलक्षणम् जाग्रत्कालीननिर्विषयकेवलात्मस्फुरणरूपजडी
भावाख्यावस्थानस्यापि। इदमपि सुषुप्तिव्यापारतुल्यतया प्राज्ञाख्यभगवद्व्यापारो ज्ञेयः । सोऽपि तुर्ये
नास्तीति ध्येयम् । एवं विश्वतैजसप्राज्ञाख्यरूपत्रयव्यापारान् बाह्याभ्यन्तरपदार्थस्वरूपज्ञापन
सुप्तस्वरूपज्ञापनरूपान् , किञ्चिद्वाह्य, किञ्चित्स्वाप्नोभयरूपव्यापारं, समाधि- स्थनिरन्तरज्ञान
सन्तत्युत्पादनरूपव्यापारं जडीभावरूपव्यापारं चाकुर्वदित्यर्थः। नोभयतःप्रज्ञमित्यत्र किं स्वरूपकर्तृकं
व्यापारद्वयमस्य नेत्युच्यते । तद्विचारणीयं तद्धि किं निर्व्यापारमेव चतुर्थं रूपं ? नेत्याह - नाप्रज्ञमिति ।
अप्रज्ञापकं नेति नाप्रज्ञम् प्रज्ञापकमेव । मुक्तानां तद्योग्यसर्वज्ञानप्रदानरूपव्यापारकर्तेत्यर्थः। अदृष्टं
विश्वादिरूपत्रयं बाह्यान्तरपदार्थज्ञापन तद्व्ययरूपकार्यलिङ्गेनानुमेयम् । न तथा चतुर्थं रूपं दृश्यमित्यदृष्टमिति
वा । अमुक्तदृष्ट्यगोचरत्वाद्वा अदृष्टमित्यर्थः । अव्यवहार्यमग्राह्यमिति । मुक्तिं विना तद्रूपविषयकग्रहणव्यवहारयोः
अभावाद- व्यवहार्यमग्राह्यमित्युच्यते । अलक्षणं ; लक्षणं अनुमापकम् । जाग्रदादिप्रवृत्तिरूपानुमापक
राहित्यादलक्षणम् । अत एवाचिन्त्यम् । अचिन्त्यत्वादेव अव्यपदेश्यम् । व्यपदेष्टुमशक्यम् ।
ऐकात्म्यप्रत्ययसारं- एकः प्रधानः । आत्मा पूर्णः, एकश्चासावात्माचैकात्मा । एकात्मैव ऐकात्म्यम् । स्वार्थे
ष्यञ् प्रत्ययः ज्ञानरूपः । सारः आनन्दरूप इत्यैकात्म्यप्रत्ययसारम् । प्रपञ्चोपशमं पचिविस्तारे
(धा.पा. 1652) प्रपञ्चः विस्तृतः व्याप्त इति यावत् । उपशब्दोऽत्र उत्कृष्टवाची । शमः - सुखं
उत्कृष्टानन्दरूपम् । प्रपञ्चश्चासावुपशमश्च प्रपञ्चोपशमः, तम् । मुक्तात्मनो देहबन्धाद्यनिष्टप्रपञ्चम्
उपशमयतीति प्रपञ्चोपशममिति वा । शान्तं ऊर्मिषट्करहितम्। निर्दुःखसुखरूपत्वाच्छिवम् ।
अद्वैतं - द्वीति भावप्रधानम् । द्वित्वेन वस्तुतत्वापेक्षया अन्यात्मकत्वरूपद्वितीयप्रकारेण इतं ज्ञातं
वस्तु द्वीतं इण् गतौ (धा.पा. 1045) द्वीतस्येदं द्वैतं मिथ्याज्ञानम् ; न विद्यते मिथ्याज्ञानं
यस्मात्तदद्वैतम् । मिथ्याज्ञानविरोधिवा । अहं ममतादिमिथ्याध्यवसायनिवर्तकमिति यावत् ।
एतादृशमात्मानं चतुर्थं पादं मन्यन्ते औपनिषदा इत्यर्थः । सोऽयमात्मा चतुष्पात् इति प्रतिज्ञातं
विश्वतैजसप्राज्ञतुरीयाख्यरूपचतुष्टयं सपरिकरं निरूप्य रूपत्रयविषये मन्त्रानुदाहृत्य चतुर्थविषये
मन्त्रानुदाहरिष्यन् इदानीं चतूरूपाऽत्मा अवश्यं ज्ञातव्य इति वदन्नुपसंहरति - स आत्मेति । य
इति शेषः । चतूरूपो य आत्मा सः विज्ञेयः । विविधतया चतुर्विधतया विशेषेण च मुमुक्षुभिर्ज्ञेय इत्यर्थः ॥ 5 ॥
॥ इति द्वितीयखण्डभाष्यं ॥
तृतीयः खण्डः
[पादभूतस्य भगवतः मात्रास्वरूपत्वम् ]
हरिः ओम् सोऽयमात्मा अध्यक्षरमोङ्कारोऽधिमात्रम् ।पादा मात्राः मात्राश्च
पादाः अकार उकारो मकार इति ॥ 1 ॥
कू.भा. - एवं समस्तोङ्कारप्रतिपाद्यस्यात्मनो विश्वादिरूपचतुष्टयं निरूप्य तेषां रूपाणां
अकारादिप्रणवांशप्रतिपाद्यत्वादिमाहात्म्यं वक्तुमुक्तमनुवदति - सोऽयमिति । ओमित्याक्रियमाणतया
ओंङ्कारशब्दितस्सोऽयं चतुरात्मकत्वेनोक्त आत्मा अध्यक्षरं- अधि सर्वतोऽधिकं च तदक्षरं
अविनाशि चेत्यध्यक्षरम् । अक्षरशब्दस्वाभाव्यान्नपुंसकलिङ्गता । कीदृशमक्षरमित्याह- अधिमात्रमिति ।
अधि अधिकाः मात्राः अंशा यस्य तदधिमात्रम् । मात्राः क इत्यत आह - पादा मात्रा इति ।
पद्यन्त इति पादाः । विश्वादिरूपाणि मात्रा इत्युक्ता इत्यर्थः । पादाः कीदृशा इत्यतो अकारादिप्रतिपाद्या
विश्वादय इत्याह - मात्राश्च पादा अकार इति । अ इत्याक्रियते प्रतिपाद्यत इत्यकारः विश्वः ।
एवमुक्तदिशा उकारः तैजसः । मकारः प्राज्ञः । उपलक्षणमिदम् । नादबोध्यस्तुरीयोऽपि वाक्यशेषोक्त्या
ग्राह्यः । एते विश्वतैजसप्राज्ञतुरीयाः पादाः मात्राशब्देन अधिमात्रमित्यत्रोक्ता इत्यर्थः ॥ 1 ॥
[प्रणवाक्षरेषु अकाररूप: परमात्मा वैश्वानरः]
जागरितस्थानो वैश्वानरोऽकारः प्रथमा मात्रा । आप्तेरादिमत्त्वाद्वा आप्नोति ह वै
सर्वान् कामानादिश्च भवति । य एवं वेद ॥ २ ॥
कू.भा. - तत्रावर्णप्रतिपाद्यं रूपं स्थानोक्त्या निर्दिशति - जागरितेति । अकारः `अ’
इत्याक्रियमाणः प्रथमामात्रा- प्रणवप्रतिपाद्यस्याक्षरस्य प्रथमांश इत्यर्थः । अत्र जागरितस्थानं
प्रथममात्रां वैश्वानरमुद्दिश्य अकार इत्यवर्ण- प्रतिपाद्यत्वं विधीयत इत्यपौनरुक्त्यम् । एवमग्रेऽपि ।
वैश्वानरस्यावर्णवाच्यत्वे निमित्तद्वयमाह- आप्तेरादिमत्त्वाद्वेति । तत्तज्जीवयोग्यभोग्यविषयान् भोगाय
आपयति - प्रापयति विश्व इत्युच्यते विश्व इत्यर्थः। आपॢव्याप्तौ (धा.पा. 1261) इति
धातोरन्तर्णीतण्यर्थात् ड प्रत्यये टिलोपे च `अ’ इति रूपमिति भावः । प्राज्ञ: तैजसश्चादी अस्येत्यादिमान् ।
तस्माद्वा `अ’ इत्युच्यत इत्यर्थः । सुषुप्तौ स्वप्ने च प्राज्ञतैजसाभ्यामेकीभूतो विश्वस्सुप्तेरुत्थाने
प्राज्ञात् , स्वप्नादुत्थाने च तैजसा- द्विविक्तस्सन् दक्षिणाक्षिस्थानमायातीति तयोरादितया विश्वस्य
ताभ्यामादिमत्त्वमिति भावः । एतन्निमित्तद्वययुक्तत्वेन अवर्णवाच्यं जानतः फलमाह - आप्नोति ह
वा इति । यः अधिकारी एवं अकारवाच्यत्वं विश्वस्य वेद ; अस्येति शेषः । स वैश्वानरः
अस्य वेदितुः सर्वान् कामान् स्वयोग्यसर्वकामान् आप्नोति - प्रापयति । अन्तर्णीतणिच् ।
आदिश्च - एवं वेदितुः विश्वः आदिश्च भवति । आविर्भूतस्वरूप-तया मुक्तरूपेण तत उत्पद्यते
तद्ज्ञानीति तस्यायमादिकारणं भवतीत्यर्थः । यद्वा आदिश्चेत्यत्रैव अस्येति शेषः । आप्नोतीत्यत्र
तु स ज्ञानीति शेषो ध्येयः ॥ 2 ॥
[उकाररूप: तेजस: प्रणवद्वितीयमात्रा]
स्वप्नस्थानस्तैजस उकारो द्वितीया मात्रोत्कर्षादुभयत्वाद्वा उत्कर्षति ह वै ज्ञानसन्ततिं
समानश्च भवति नास्याब्रह्मवित्कुले भवति य एवं वेद ॥३॥
कू.भा. - अथ द्वितीयपादमाह - स्वप्नेति । द्वितीया मात्रा आत्मनो द्वितीयांशस्तैजसः,
उकारः - उरित्याक्रियमाणत्वादुकारः। उवर्णवाच्यत्वे निमित्तमाह - उत्कर्षादुभयत्वाद्वेति ।
जाग्रद्दशायां विद्यमानदेहाभिमानादत्याज्य- देहाभिमानं त्याजयित्वा स्वप्नमण्डले जीवं कर्षतीत्युत्कर्षणाद्धेतोर्वा
बाह्यज्ञप्तिरूपनिद्रां वासनामयविषयानुभवं च प्रयच्छतीत्युभयहेतुत्वाद्वा उरित्युच्यते तैजस इत्यर्थः ।
तथा वेदितुः फलमाह - उत्कर्षति ह वा इति । योऽधिकारी एवं निमित्तद्वययुक्ततयोकारवाच्यतैजसं
वेद स ज्ञानी ज्ञानसन्ततिं - ज्ञानधारां ज्ञाननित्यत्वमिति यावत्। आप्नोतीत्यनुषङ्गः । उत्कर्षति -
देहबन्धादात्मानमुत्कर्षति उद्धरति । उत्कृष्य च समानश्च मानमन्तर्गतिः स्मृता इति स्मृत्युक्तेर्मानसहितः
समानः - सर्वमोक्षिणामन्तर्गतश्च भवति । दोषाभावात्प्रीत्या चेति भावः। अस्य - ज्ञानिनः कुले
अब्रह्मविन्न भवति । ब्रह्मज्ञानसन्ततिरेष भवतीत्यर्थः ॥ 3 ॥
[तृतीयमात्रायाः मकारस्य निरूपणम् ]
सुषुप्तस्थानो प्राज्ञो मकारस्तृतीया मात्रा मितेरपीतेर्वा । मिनोति ह वा इदं सर्वं
अपीतिश्च भवति, य एवं वेद ॥ ४ ॥
कू.भा. - तृतीयपादमाह - सुषुप्तेति । तृतीया मात्रा - आत्मनस्तृतीयोंशः मकारः
म इत्याक्रियमाणः । कुतः ? मितेरपीतेर्वा । स्वात्मनि जीवमन्तर्गमयतीति स्वान्तर्गमनहेतोर्वा ।
वृत्तिज्ञानस्यापीतेः अप्ययशब्दितलयकारणाद्वा म इत्याक्रियत इत्यर्थः । यः - अधिकारी एवं -
निमित्तद्वययुक्तत्वेन मकारवाच्यं प्राज्ञं वेद स ज्ञानी इदं सर्वं यथायोग्यं जगत् मिनोति - स्वान्तर्गमयति
जीवानामणुत्वेऽप्यधिकारिणः सूर्यादेरिव प्रकाशतो व्याप्तिरस्तीति तन्मध्येऽन्तर्गमयति मुक्तस्सन्निति
भावः । अपीतिश्च भवति - अप्ययकृच्च भवति दुःखाद्यनिष्टस्येत्यर्थः ॥ 4 ॥
॥ इति तृतीयखण्डभाष्यम् ॥
चतुर्थः खण्डः
[प्रणवस्थनादस्य निरूपणम् ]
अमात्रश्चतुर्थोऽव्यवहार्यः प्रपञ्चोपशमः शिवोऽद्वैत एवमोङ्कार आत्मैव
संविशत्यात्मनात्मानम् । य एवं वेद, य एवं वेद ॥ १ ॥
॥ इति चतुर्थः खण्डः ॥
कू.भा. - नान्तःप्रज्ञं इत्यादिनोक्ततुरीये गुणानुवादपूर्वकं तुरीयस्य नादप्रतिपाद्यत्वमाह -
अमात्र इति। अद्वैतइत्येतदन्तमनुवादः । ओङ्कार इति प्रणवैकदेशनादप्रतिपाद्यत्वं विवक्षितम् ।
अमात्रादिपदानां पूर्ववद्व्याख्या। तदनुवादस्तु तुरीये पूर्वमुक्तमव्यवहार्यत्वादिकमुपासकस्यापि समं
मुक्ताविति प्रदर्शनायेति ज्ञेयम् ।यथा विश्वादीनामकारादिवाच्यत्वं एवमोङ्कारैकदेशनादवाच्यत्वं
तुरीयस्येत्यर्थः । नादप्रतिपाद्यत्वेन तुरीयोपासकस्य फलमाह - आत्मेति । यः - अधिकार्येवं -
अमात्रत्वाव्यवहार्यत्वादिना ओङ्कारं - ओङ्कारैकदेशनादप्रतिपाद्यं वेद - जानाति सः - आत्मैव
सन् शुद्धस्वरूपं एव सन् देहगेहादावन्यत्र ममताद्यभिमानत्यागीभूत्वा इति यावत्। आत्मना -
परमात्मना । तत्प्रसादेनेति यावत् । आत्मानं - नादबोध्यं तुरीयात्मानं संविशति - प्रविशति ।
प्रविश्य बहिरन्तः स्वेच्छया स्वयोग्यभोग्यान्भुञ्जानः सन् सुखमास्त इति भावः । य एवं वेदेति
द्विरुक्तिरुक्तविधोपासनोपदेशावधारणार्था ॥ 1 ॥
॥ श्रीकूरनारायणमुनिविरचितमाण्डूक्योपनिषद्भाष्यं समाप्तम् ॥