कारिकाः

गौडपादीयाः माण्डूक्योपनिषत्कारिकाः

गौडपादीयता

ओमित्यारभ्य य एवं वेद, य एवं वेद इति पर्यन्तं
द्वादशमन्त्रात्मिका इयं उपनिषत् सर्वत्र दरीदृश्यते ।
अनया साकं केचन एकोनत्रिंशत् श्लोकाः पठ्यन्ते ।
शांकरसिद्धान्ते एते श्लोकाः
गौडपादीयकारिकाः इति प्रसिद्धाः ।

रङ्गरामानुजैस् तु एते गौडपादीयाः इति मत्त्वा न व्याख्याताः,
परन्तु कूरनारायणमुनिभिः एते उपनिषद्-विवरणरूपाः श्रुत्यन्तर्गताः इत्येव +अङ्गीकृत्य व्याख्याताः, तथा भारद्वाजरामानुजाचार्यैरपि ।
मध्वाचार्यास्तु एताः कारिकाः ब्रह्मदृष्टाः मन्त्राः इत्येव स्पष्टम् अभिदधुः व्याचख्युश्च ।
परन्तु एताः गौडपादीयाः कारिकाः इत्येव प्रसिद्धिवर्तते ।

अत्रैते श्लोकाः भवन्ति ।

बहिः प्रज्ञो विभुर्विश्वो ह्यन्तः प्रज्ञस्तु तैजसः ।

घनप्रज्ञस्तथा प्राज्ञ एकएव त्रिधा स्मृतः ॥ १ ॥

प्र.दी. - पूर्वोक्तमन्त्रार्थदाढ्यार्य श्लोकरूपमन्त्रानुदाहरति इयं श्रुतिः - अत्रेति । अत्र

उक्तार्थे, एते - वक्ष्यमाणाः बहिःप्रज्ञ इत्यादिश्लोकाः, भवन्ति उक्तार्थदाढ्यार्य भवन्तीत्यर्थः ।

विभुः - समर्थः, विश्वः - विश्वनामकः परमात्मा, बहिः प्रज्ञः - बहिः रूपादौ प्रज्ञा यस्य सः,

सर्वस्य पूर्ववदर्थो बोध्यः । जाग्रद्दशानिर्वाहक इत्यर्थः । अन्तः प्रज्ञस्तु तैजसः - तैजसनामकः

परमात्मा, स्वप्नदशानिर्वाहकः । प्राज्ञः - प्राज्ञनामकः परमात्मा, घनप्रज्ञः - प्रज्ञानस्वरूपः,

सुषुप्त्यवस्थानिर्वाहकः । एकएव त्रिधास्मृतः ओमित्येकाक्षरं ब्रह्म व्याहरन् मामनुस्मरन्

(भ.गी. ८-१३) एको ह वै नारायण आसीत् (महो. १-१) इत्युक्तप्रणवशब्दवाच्यैको नारायण एव

अवस्थात्रयनिर्वाहकत्वेन त्रिप्रकारतया स्थित इत्यर्थः ॥ १ ॥

कू.भा. - उपनिषत् स्वयंप्रमाणत्वेऽपि स्वोक्तार्थदार्ढ्याय स्वोक्तार्थे मन्त्रानुदाहरति - अत्रेति ।

अत्र उक्तेष्वर्थेषु । संवादिन इति शेषः । वैश्वानरो बहिःप्रज्ञः, तैजसोऽन्तःप्रज्ञः, प्राज्ञः प्रज्ञानघनः ;

इत्युक्तेऽर्थ मन्त्रमाह बहिरिति । विश्वः वैश्वानरः । पदानामर्थः पूर्वत्रेव ध्येयः एक एव त्रिधा

स्मृत इति । मन्त्रद्रष्ट्रा ब्रह्मणा भगवद्रूपाणामेतेषां एकत्वं स्मृतमित्यर्थः ॥ १ ॥

दक्षिणाक्षिमुखे विश्वो मनस्यन्तश्च तैजसः ।

आकाशे च हृदि प्राज्ञस्त्रिधा देहे व्यवस्थितः ॥ २ ॥

प्र.दी. - प्रणवशब्दवाच्यः एकः परमात्मा अस्मिन् देहे नामभेदेन स्थानत्रयेष्वस्तीत्याह

दक्षिणाक्षिमुखे इति । जीवस्य दक्षिणनेत्राग्रभागे, विश्वः - विश्वनामकः परमात्मा अस्ति ।

मनस्यन्तस्तु तैजसः तैजसनामका परमात्मा अन्तर्मनसि स्थित ‘इत्यर्थः । त्रिधा देहे

व्यवस्थितः - अयं परमात्मा अस्मिन् जीवशरीेरे त्रिप्रकारेण व्यवस्थित इत्यर्थः ॥ २ ॥

कू.भा. - जागरितस्थानः स्वप्रस्थानस्सुषुप्तस्थान इत्युक्तार्थे मन्त्रमाह- दक्षिणाक्षीति ।

मुखे . अग्रभागे । अन्तरित्यस्य विवरण - मनसीति । आकाशे च हृदि - हृदयाकाशे

हृत्कर्णिकाग्रस्थान इत्यर्थः । त्रिधा देहे व्यवस्थित इति । स भगवानेक एवास्मिन् देहे त्रिधा स्थित

इत्यर्थः ॥ २ ॥

विश्वो हि स्थूलभुङ्नित्यं तैजसः प्रविविक्तभुक् ।

आनन्दभुक्तथा प्राज्ञस्त्रिधा भोग निबोधत ॥ ३ ॥

प्र.दी. - जीवदेहस्थितविश्वतैजसप्राज्ञानांजीवाधिष्ठितद्वारा भोगमाह - विश्वो हि स्थूलभुक् इति ।

विश्वः नित्यं सदा स्थूलभुक् - स्थूलं रूपादिकं भुनक्तीति । तैजसः नित्यं प्रविविक्तभुक् .

स्वाप्नानर्थान् तत्तत्पुरुषमात्रानुभाव्यतया विविच्य भोजयिता । तथा प्राज्ञोऽपि नित्यम् आनन्दभुक् -

विषयव्यतिरिक्तविलक्षणानन्दभुक् । त्रिधा भोगं निबोधत - एवं त्रिप्रकारेण भोगं - जीवाधिष्ठितद्वारा

अनुभवं निबोधत - जानीयादित्यर्थः ॥ ३ ॥

कू.भा. - स्थूलभुक् प्रविविक्तभुगानन्दभुगित्युक्तेऽर्थ मन्त्रमाह - विश्व इति । निबोधतेति

मन्त्रद्रष्ट्रा ब्रह्मणा स्वोपदेश्यान् प्रत्युच्यते । एवं विजानथेत्यपि ध्येयम् ॥ ३ ॥

स्थूलं तर्पयते विश्वं प्रविविक्तं तु तैजसम् ।

आनन्दश्च तथा प्राज्ञं त्रिधा तृप्ति निबोधत ॥ ४ ॥

प्र.दीः - जीवदेहस्थितविश्वतैजसप्राज्ञानांजीवद्वारा तृप्तिमाह - स्थूलं तर्पयते विश्वमिति ।

स्थूलं रूपादिभोग्यभूतं वस्तु कर्तृ, विश्वं - विश्वनामकं कर्म, तर्पयते - तृप्तिं करोति । नित्यतृप्तस्य

परमात्मनः तृप्तिः क्रीडारूपेति विज्ञेया । प्रविविक्तं तु स्वाप्रपदार्थ तु तैजसं तर्पयते । आनन्दः -

सुषुप्त्यानन्दः प्राज्ञं तर्पयते । एवं त्रिप्रकारेण तृप्तिं निबोधत - विजानीथ ॥ ४ ॥

कू.भा. - उक्त एवार्थे मन्त्रान्तरं पठति - स्थूलमिति । स्थूलं - भोग्य वस्तु कर्तृ ।

विश्वं कर्म । एवमग्रेऽपि । नित्यतृप्तस्य स्थूलादिना तृप्तिः क्रीडारूपा ध्येया । आनन्दं - आनन्दः ।

लिङ्गव्यत्ययात् । विजानथ - विजानीथ । विकरणव्यत्ययात् ॥ ४ ॥

त्रिषु धामसु यद्भोज्यं भोक्ता यश्च प्रकीर्तितः ।

वेदैतदुभयं यस्तु स भुञ्जानो न लिप्यते ॥ ५ ॥

प्र.दी. - भोक्तभोज्यस्वरूपं विजानन् जीवः विषयानुभवजन्यविकारं न प्राप्नोतीत्याह -

त्रिषु धामस्विति । त्रिषु - नेत्रमनोहृदयाकाशरूपेषु स्थानेषु यद्भोज्यं - स्थूल प्रविविक्तानन्दात्मकं,

यच्च भोज्यस्वरूपमुक्तं, यश्च - विश्वतैजसप्राज्ञरूपः परमात्मा भोक्ता - जीवाधिष्ठातृतया भोक्तृत्वेन

प्रकीर्तितः - उक्तः । यस्तु - जीवः एतत्पूर्वोक्तमुभयं भोक्तृभोग्यलक्षणं उभयं वेद - जानाति सः -

एतादृशज्ञानी भुञ्जानोऽपि - ज्ञानविषयाननुभवन्नपि न लिप्यते तत्फलैर्न लिप्यते ।

तत्कृतोञ्चनीचादिविकारं न प्राप्नोतीत्यर्थः ॥ ५ ॥

कू.भा. - विश्वादिरूपत्रयस्वरूपं तत्तत्स्थानेषु तद्भोज्यस्वरूपञ्च जानतः फलमाह - त्रिष्विति । त्रिषु

धामसु - अक्षिमनोहृदयाकाशरूपेषु यद्भोज्यं स्थूलप्रविविक्तानन्दात्मकं, यश्च भोक्ता

विश्वतैजसप्राज्ञरूपात्मा एतदुभयं - भोक्तृभोज्यलक्षणमुभयं यस्तु - योऽधिकारी वेद - जानाति

सः ज्ञानविषयान् भुञ्जानः - अनुभवन्नपि तत्फललेपं न प्राप्नोति । तत्कृतोच्चनीचादिविकारं न

प्राप्नोतीत्यर्थः । तत्तत्स्थानेषु तत्तत्फलभोजयिता स्वस्य स्वेतरस्य च जीवस्य कर्मफलप्रदस्सर्वेश्वर

एव । न ममात्रभोगे इतरजीवानां वा स्वातन्त्र्यमिति मत्वा न विकरोतीति भावः ॥ ५ ॥

प्रभवस्सर्वभावानां सतामिति विनिश्चयः ।

सर्वं जनयति प्राणश्चेतोंऽशून्पुरुषः पृथक् ॥ ६ ॥

प्र.दी. - विश्वतैजसप्राज्ञतुरीयापरनामधेयकः परमात्मा सर्वजगत्कर्तेति सतामभिप्राय

इत्याह - प्रभवस्सर्वभूतानामिति । पुरुषः - सहस्त्र शीर्षा पुरुषः (पु.सू. १) इत्युक्तपुरुषशब्दवाच्यः

श्रियःपतिः सर्वभूतानां प्रभवः - प्रभवन्त्यस्मात्सर्वे इति व्युत्पत्त्या सर्वभूतजनक इति सतां परब्रह्मवेत्तृणां

ब्रह्मादिव्यासपराशराणां विनिश्चयः - मुख्याभिप्रायः । एतदेव विवृणोति - सर्वं जनयतीति ।

प्राणः - सर्वान् प्रलयकाले स्वसमीपं नयतीति प्राणः । कुक्षिस्थाखिलभुवन इत्यर्थः । चेतोंऽशून् -

ज्ञानरूपरश्मियुक्तान् जीवान् पृथक् - पृथक्कर्मानुगुणयुक्तदेवमनुष्यादीन् । सर्वं - अचेतनं सर्व च

जनयति । अनेन विवर्तोपादानं परमात्मा इत्यसतां वादो निरस्तः ॥ ६ ॥

कू.भा. - एष योनिस्सर्वस्येत्युक्तार्थे मन्त्रमाह - प्रभव इति । प्रभवत्युत्पद्यतेऽनेनेति

प्रभवः । सर्वभावानां - सर्ववस्तूनां यथायोगमुत्पत्तिहेतुः । चतूरूपात्मेति योज्यम् । इति सतां

निश्चय इत्युक्त्या असतां अन्यथा निश्चय इति लभ्यते । तदग्रे विवरिष्यते । सर्वप्रभवत्वं व्यनक्ति

सर्वं जनयति प्राण इति । सर्वस्य प्रणेतृत्वहेतुना प्राणनामा । स एव सर्वं जनयतीत्युक्त्या न

विवर्तरूपमुपादानत्वं सर्वप्रभवत्वमित्युक्तं भवति । पुरुषः - पूर्णषड्गुणत्वादिना पुरुषनामा

प्रागुक्तनामा चतूरूपात्मा हरिः चेतोंऽशून् - ज्ञानाख्यरश्मियुक्तान् जीवानिति यावत् । पृथक्

देवदानवमानवादिभेदेन जनयति ॥ ६ ॥

.

विभूतिं प्रसवंत्वन्ये मन्यन्ते सृष्टिचिन्तकाः ।

स्वप्नमायास्वरूपेति सृष्टिरन्यैर्विकल्पिता ॥ ७ ॥

प्र.दी. - ब्रह्मविवर्तः प्रपञ्चः इत्यसतामाशयमाह - विभूतिं प्रसवं त्वन्य इति । असृष्टिचिन्तकाः

इति छेदः । पूर्वोक्तपरमपुरुषसृष्टजगद्विषयकज्ञानशून्याः । अन्ये तु - असन्तस्तु प्रसवं यतो वा

इमानि (तै.भृ. १) इत्यादि श्रुतिसिद्धजगदुत्पत्तिं कर्मपदं; विभूतिं मन्यन्ते । ब्रह्मणः -

जीवजडभूतविविधरूपतया भवनमिति मन्यन्ते । तथा च ब्रह्मैव प्रपञ्चरूपेण परिणमत इत्यर्थः ।

अन्यैः - पूर्वोक्तब्रह्मविवर्तोपादानवादिभिः सृष्टिः - सर्वशक्तिविशिष्टभगवत्कर्तृकानन्तकोटिब्रह्माण्डसृष्टिः ।

स्वप्नमायास्वरूपेति - स्वप्नदृष्टपदार्थ- सदृशेति, मायाविनिर्मितगन्धर्वनगरतुल्येति च विकल्पिता -

रज्जुसर्पवत् शुक्तिकारजतवत् मरुमरीचिकावत् मिथ्याभूतेति बहुप्रकारेण कल्पिता ॥ ७ ॥

कू.भा. - सतामिति विनिश्चय इत्यत्र असतां वैपरीत्येन निश्चय इत्यर्थात्प्राप्तम् । तदुभयं

व्यनक्ति - विभूतिम् इत्यादिना । सृष्टिचिन्तकाः - सृष्टिविषयविचारवन्तः अन्ये

ब्रह्मस्वरूपपरिणामवादिनोऽसन्तः प्रसवं - सृष्टिं विभूतिं - जीवजडात्मना विविधतया भवनं

ब्रह्मणो मन्यन्ते - सृष्टिचिन्तका इत्यनेन यथावत् ब्रह्मस्वरूपानभिज्ञा इति सूचितम् । अन्यैः -

ब्रह्मविवर्तः प्रपञ्च इति वादिभिः सृष्टिः विकल्पिता - विविधतया कल्पिता । कथं ? स्वप्नमायास्वरूपेति ।

स्वाप्नपदार्थसृष्टिः सुप्तात्मविवर्तो यथा मायास्वरूपा, तथा तत्स्वरूपब्रह्मविवर्तरूपा जाग्रत्सृष्टिरपि

मायास्वरूपा । मायापदेन मायाविनिर्मितगन्धर्वनगरादिग्रहः । तत्स्वरूपा तत्तुल्यस्वरूपा । मिथ्याभूतेत्येवं

विकल्पितेत्यर्थः ॥ ७ ॥

इच्छामात्रं प्रभोस्सृष्टितिरिति सृष्टौ विनिश्चिताः।

कालात्प्रसूतिं भूतानां मन्यन्ते कालचिन्तकाः ॥ ८ ॥

प्र.दी. - विवर्तपरिणामानङ्गीकारे ब्रह्मणः कथं जगत्पष्टिरित्याह - इच्छामात्रमिति ।

प्रभोः अखिलजगत्सृष्टिसमर्थस्य भगवतः सृष्टिः अनन्तकोटिब्रह्माण्डसृष्टिः इच्छामात्रं । बहुस्यां

प्रजायेयेति संकल्पमात्रं संकल्पमात्रादेव जगत्सृजतीत्यर्थः । सृष्टौ -सृष्टिविषये सन्तः विनिश्चिताः-

एवं निश्चितवन्तः । कालचिन्तकाः • काल एव ईश्वर इति वाविनः भूतानां । सर्वभूतानां

कालात्प्रसूर्ति - कालादेव उत्पत्तिं मन्यन्ते ॥ ८ ॥

कू.भा- परिणामविवर्तयोरभावे कथं हरेर्जगत्सृष्टिरित्यतस्सतां विनिश्चयप्रकारमाह-

इच्छेति । केवलमिच्छामात्रं - अनायासेनाविलम्बेन अविकारित्वेन प्रभोः। अवन्ध्यशक्तेः सृष्टिः-

प्रभुकर्तृका विश्वविषयिणी सृष्टिरिति सृष्टौ - विषये विनिश्चिताः विनिश्चयवन्तः औपनिषदा

इत्यर्थः । भागवतस्सत्यसंकल्पत्वात् स सर्वशक्तस्वसंकल्पमात्रादेव स्वशरीरभूतचेतनाचेतनप्रपञ्चमग्रे

सूक्ष्मं स्थूलरूपेण परिणाम्य स्वयमविकार एव सर्वात्मकरसर्वोपादानं भवतीति मन्यन्ते इति भावः ।

विनिश्चिता इति कतर्रि क्तः ? पुनर्मतान्तराण्याह - कालेति । कालचिन्तकाः - कालमेवेश्वरं

मन्वानाः भूतानां प्रसूतिं - उत्पत्ति कालान्मन्यन्ते । उपलक्षणमेद्यदृच्छानियतिस्वभावादीनां

तेषां निरासः पुरुषप्रभुपदाभ्यामेव ज्ञेयः अत एव इच्छामात्रमिति पक्षस्य मध्ये निवेशः ॥ ८ ॥

भोगार्थं सृष्टिरित्यन्ये क्रीडार्थेमिति चापरे ।

देवस्यैष स्वभावोऽयमाप्तकामस्य का स्पृहा ॥ ५ ॥ इति ।

प्र.दी.- अवाप्तसमस्तकामस्य श्रियः पतेः इयं सृष्टिलीलारूपेति स्वाभिप्रायपाह श्रुतिः ।

भोगार्थमिति । अन्ये - केचन भगवतः इयं सृष्टिः अतृप्तस्येव भोगार्थमिति मन्यन्ते । अपरे

क्रीडार्थं · राज्ञां कन्दुकादिक्रीडावत् भगवतः सृष्टिं मन्यन्ते । मतान्तराण्युपपाद्य स्वसिद्धान्तमाह-

देवस्यैष स्वभाव इति । आप्तकायस्य - अवाप्तसमस्तकामस्य, देवस्य क्रीडाशीलस्य श्रियः पतेः

एषः - सृष्ट्यादिव्यापारः स्वभाव एव - नैज एव नान्यत्प्रयोजनमस्ति - लोकवत्तु लीलाकैवल्यम्

(ब्र.सू. २-१-३३) इत्ययमर्थ एव व्यासार्यस्सूत्रितः । इतिशब्दो विश्वतैजसादि रूपत्रयनिरूपण-

समाप्तिबोधकः ॥ १ ॥

कू.भा. - तर्हि परिपूर्णस्य पुरुषस्य सृष्टिः किमर्थेत्यतो लोकानुग्रहार्थं स्वभाव इति वक्तुं

मतान्तराण्याह भोगार्थमिति । हरेरतृप्तस्यैव भोगार्थं सृष्टिरित्यन्ये मन्यन्ते । अपरे तु महाराजस्य

कन्दुकादिविहार इव क्रीडारूपप्रयोजनसिद्ध्यर्थं विश्वसृष्टिरीश्वरस्येति मन्यन्त इत्यर्थः । स्वमतमाह

श्रुतिः - देवस्येति । देवस्य - क्रीडाशीलस्य अयं - लीलारूपः एषः - सृष्ट्यादिविषयः स्वभाव एव ।

नान्यत्प्रयोजनमिति भावः । लोकवत्तु लीलाकैवल्यम् (ब्र.सू. २-१-३३) इति सूत्रम् । कुतः ?

आप्तकामस्य का स्पृहा - प्रयोजनस्पृहा न कापीत्यर्थः । इति शब्दो रूपत्रयनिरूपणसमाप्तौ ॥ ९ ॥

निवृत्तेः सर्वदुःखानामीशानः प्रभुरव्ययः ।

अद्वैतस्सर्वभावानां देवस्तुर्यो विभुस्स्मृतः ॥ १० ॥

प्र.दी. उक्तस्वरूपस्य तुरीयापरनामधेयस्य वासुदेवस्य महिमानमाह - अत्रेति ।

तुरीयविषयकोक्तार्थे एते - वक्ष्यमाणाः श्लोका भवन्ति । तान् श्लोकानाह - निवृत्तेरिति ।

सर्वदुःखानां - आश्रितसर्वदुःखानां आध्यात्मिकादीनां निवृत्तेः - निवारणस्य कारणमिति शेषः ।

आश्रितसर्वानिष्टनिवारणकारणभूत इत्यर्थः । ईशानः - सर्वनियामकः । अत एव प्रभुः - समर्थः ।

अव्ययः नाशरहितः । सदैकरूप इत्यर्थः । अद्वैतः सजातीया द्वितीयवस्तुरहितः । विभुः सर्वव्यापकः ।

तुरीयः - तुरीयापरनामधेयकः श्रीवासुदेवः सर्वभावानां - भू सत्तायां (धा.पा. १) इति धातुः ।

भवन्तीति भावाः, सत्तारूपाणां सर्वजीवानां देवः - उपास्यभूत इति स्मृतः । ब्रह्मविद्भिरिति

शेषः ॥ १० ॥

कू.भा. - चतुर्थरूपस्योक्तं माहात्म्यं संवादयितुमाह - अत्रेति । तुरीयस्योक्तार्थे एते

वक्ष्यमाणाश्श्लोकाः संवादिनो भवन्तीत्यर्थः । प्रपञ्चोपशमम् इत्यादिनोक्ते सर्वानिष्टनिवर्तकत्वादिरूपेऽर्थे

श्लोकानाह - निवृत्तेरिति । सर्वदुःखानां निवृत्तेः कारणमिति शेषः । ईशान् ब्रह्मादीन् अनिति

प्रेरयतीति ईशानः, प्रभुः - स्वामी । अव्ययः - शश्वदेकरूपः । अद्वैतः - मिथ्याज्ञाननिवर्तकः ।

सर्वभावानां - भवन्तीति भावाः । भू सत्तायाम् (धा.पा. १) भगवज्ज्ञानेन लब्धसत्ताका इत्यर्थः ।

अस्ति ब्रह्मेति चेद्वेद । सन्तमेनं ततो विदुः (तै.आन. ३०) इति श्रुतेः । सर्वेषां भावानां अधिकृतात्मनां

देवः - उपास्यः विभुः - समर्थः स्मृतः । मन्त्रदृग्भिरिति शेषः ॥ १० ॥

कार्यकारणबद्धौ ताविष्येते विश्वतैजसौ ।

प्राज्ञः कारणबद्धस्तु द्वौ तौ तुर्रे न सिद्ध्यतः ॥ ११ ॥

प्र.दी. - तुरीयवासुदेवस्वरूपं विश्वादित्रयविलक्षणमित्याह - कार्यकारणबद्धाविति ।

तौ पूर्वोक्तौ विश्वतैजसौ - जाग्रत्स्वप्नदशानिर्वाहकविश्वतैजसौ कार्यकारणबद्धौ इष्येते।

विश्वः जीवद्वारा अज्ञानकार्यभूताहंकारममतादिभ्रमरूपकार्यबन्धविशिष्टः न तु सृतः । तैजसस्तु

तत्कारणभूताविद्यारूपबन्धविशिष्टः इति इष्येते । प्राज्ञस्तु कारणबद्ध इति इष्यते । जीवद्वार

कारणभूताज्ञानरूपसुषुप्तिबन्धविशिष्टः । तुर्ये- चतुर्थे वासुदेवे तौ - पूर्वोक्तौ द्वौ - कार्यकारण-

बन्धनियमनव्यापारः कारणमात्रबन्धनियमनव्यापारश्च न सिद्ध्यतः - न स्त इत्यर्थः ॥ ११ ॥

कू.भा. - नान्तः प्रज्ञं न बहिः प्रज्ञम् इत्यादिना तुरीयस्य विश्वादिरूपत्रयवैधर्म्यमुक्तं ।

तत्र मन्त्रमाह - कार्येति । अज्ञानकार्यभूतोऽहंकारममतादिभ्रमः । तद्रूपः कार्यबन्धः ।

तत्कारणाविद्याबन्धः कारणबन्धः जीवनिष्ठतादृशजाग्रत्पदार्थभ्रमाविद्यारूपकार्यकारणबन्धस्वामी

विश्वः । तैजसस्त्वविद्याकार्यभूतोक्तरूपस्वाप्नपदार्थभ्रमेण तत्कारणाज्ञानेन च बद्धजीवनिष्ठतादृश-

बन्धस्वामीत्यर्थः । प्राज्ञस्तु तत्कारणाज्ञानरूपसुषुप्तिबद्धः । सुषुप्ति ‘बन्ध’ स्वामी तुरीये चतुर्थरूपे

द्वौ । कार्यकारणबन्धनियमनव्यापारः कारणमात्रबन्धनियमनव्यापारश्च द्वावपि न सिध्द्यत

इत्यर्थः ॥ ११ ॥

नात्मानं न परांश्चैव न सत्यं नापि चानृतम् ।

प्राज्ञः किञ्चन संवेत्ति तुर्य तत्सर्वदृक्सदा ॥ १२ ॥

प्र.दी. - तुरीयस्य प्राज्ञवैलक्षण्यमाह - नात्मानमिति । प्राज्ञः - सुषुप्तिजीवाधिष्ठानभूतः

परमात्मा आत्मानं - सुषुप्तजीवस्वरूपं न संवेत्ति - न संवेदयेत् । अपरानन्यान् जीवान्न संवेदयेत् ।

सत्यं - दृश्यमानं जगत् असत्यं - रज्जुसर्पज्ञानादिकं च न संवेदयेत् । किञ्चन जीवस्वरूपसुखं

विना किमपि वस्तु न संवेदयेदिति यावत् । तत् प्रसिद्धं तुरीयं वासुदेवः सदा सर्वदृक् सर्वं

दर्शयतीति सर्वदृक् । मुक्तिकाले तत्तद्योग्यं सर्वं सर्वदा अनियमेन प्रदर्शयतीत्यर्थः ॥ १२ ॥

कू.भा. - न प्रज्ञानघनं नाप्रज्ञम् इत्युक्तप्राज्ञवैधर्म्ये मन्त्रमाह - नात्मानमिति । आत्मानं

सुषुप्तजीवस्वरूपं न संवेदयेत् । तथा नापरान् अन्यान् जीवान् न सत्यं घटादिकं नापि चानृतं

शुक्तिरजतादिकं संवेदयेदित्यर्थः । जीवस्वरूपसुखं विना नान्यत्किमपि संवेदयेदिति यावत् । तुरीयं

तु सदा सर्वदृक् सर्वं दर्शयतीति सर्वदृक् मुक्तौ तत्तद्योग्यं सर्वं सर्वदा प्रदर्शयतीत्यर्थः ॥ १२ ॥

द्वैतस्याग्रहण तुल्यमुभयोः प्राज्ञतुर्ययोः ।

बीजनिद्रायुतः प्राज्ञः सा च तुर्ये न विद्यते ॥ १३ ॥

प्र.दी. - तुरीयस्य प्राज्ञवैलक्षण्यान्तरमाह - द्वैतस्याग्रहणमिति । उभयोः प्राज्ञतुर्ययोः -

द्वैतस्याग्रहणं देहगेहयोः स्वातन्त्र्यभ्रमराहित्यं तुल्यं - समानमित्यर्थः । प्राज्ञस्तु बीजनिद्रायुतः

देहगेहादौ स्वातन्त्र्यबुद्धिबीजभूता मूला विद्या बीजनिद्रा तया युतः युक्त इत्यर्थः । सा च

स्वातन्त्र्यबीजभूता मूलाविद्या तुर्ये - वासुदेवे परमात्मनि न विद्यते - नास्तीत्यर्थः ॥ १३ ॥

कू.भा. - शिवमद्वैतम् इति तुरीयस्य यन्मिथ्याज्ञाननिवर्तकत्वमुक्तम् तत्प्राज्ञस्यापि सममिति

वदन् ततस्तुरीयस्य वैलक्षण्यान्तरमाह - द्वैतस्येति । द्वैतस्य - देहगेहादौ स्वातन्त्र्यस्य अग्रहणं -

ग्रहणाहेतुत्वं गेहादौ स्वातन्त्र्यभ्रमाजनकत्वं प्राज्ञतुरीययोस्तुल्यम् । बीजेति । देहगेहादौ

स्वातन्त्र्यबुद्धिबीजभूता मूलाविद्या बीजनिद्रा तया युतः तद्युक्तत्वप्रदः प्राज्ञः । सा चेति । चस्त्वर्थे ।

तुर्ये तु सा बीजनिद्रा तद्युतत्वप्रदत्वमिति यावत् । न विद्यते इत्यर्थः ॥ १३ ॥

स्वप्ननिद्रायुतावाद्यौ प्राज्ञस्त्वस्वप्ननिद्रया ।

न निद्रां नैव च स्वप्नं तुर्ये पश्यन्ति निश्चिताः ॥ १४ ॥

प्र.दी. - पुनरपि विश्वादिवैलक्षण्यं तुरीयस्याह - स्वप्ननिद्रायुतावाद्यो इति । आद्यौ

विश्वतैजसौ स्वप्रनिद्रायुतौ जागरस्याप्युपलक्षणम् । जीवद्वारा जाग्रदवस्था निद्राजन्यस्वप्नावस्थाविशिष्टौ

भवतः । प्राज्ञस्तु अस्वप्ननिद्रया युतः तुर्ये - वासुदेवे । जागरणं निद्रां स्वप्नं, चकारोऽनुक्तसमुच्चयार्थकः ;

सुषुप्तिं च निश्चिताः - निश्चितार्थज्ञानवन्तः न पश्यन्तीत्यर्थः ॥ १४ ॥

कू.भा. - प्रकारान्तरेण विश्वादेस्साधर्म्यवैधर्म्य आह - स्वप्नेति । स्वप्नेत्युपलक्षणम् ।

जागरस्यापि जाग्रत्स्वप्नभ्रमाभ्यां तद्धेतु निद्राशब्दिताविद्यया च युतावाद्यौ तदुभयसंबन्धनियामकौ

विश्वतैजसौ । प्राज्ञस्तु अस्वप्ननिद्रया द्विविधभ्रमविनाकृत केवलाविद्यया युतः । तन्मात्रबन्धस्वामी

इत्यर्थः । निश्चिताः - सम्यक् निश्चयवन्तः सन्तः निद्रां - निद्राकृतबन्धस्वामित्वं स्वप्नम् -

द्विविधभ्रमबन्धहेतुत्वं च तुरीये न पश्यन्ति - न जानन्तीत्यर्थः ॥ १४ ॥

अन्यथा गृह्णतः स्वप्नो निद्रातत्त्वमजानतः ।

विपर्यासे तयोः क्षीणे तुरीयं पदमश्नुते ॥ १५ ॥

प्र.दी. - एवंविधस्य तुरीयस्य वासुदेवस्य दर्शनप्राप्तिः कदेत्यत्राह - अन्यथागृह्णत इति ।

भगवदधीनदेहगेहादौ स्वीयमिति ज्ञानवतः, तत्वमजानतः परतत्वमजानतो जीवस्य निद्रा, स्वप्नश्च

भवतः । तयोः निद्रास्वप्नयोः विपर्यासे अवर्तन्ते क्षीणे सति तुरीयं पदं - वासुदेवसंबन्धिस्थानम् ।

यद्वा पद्यते प्राप्यत इति पदम् प्राप्यं तुरीयं वासुदेवं अश्नुते - प्राप्नोति ॥ १५ ॥

कू.भा. - एवंविधतुरीयस्य दर्शनप्राप्तिः कदा भवेतामित्यत्राह - अन्यथेति । अन्यथा

गृह्णतःः देहगेहादौ भगवदधीने स्वाधीनतां जानतः स्वप्नो भवति । स्वप्नपदेन मिथ्याज्ञानरूपभ्रमपरम्पराग्रहः

तत्वं- भगवतस्स्वातन्त्र्यादिरूपं तत्वमजानतो निद्रा मूलाविद्याबन्धो भवति । तयोः

निद्राभ्रमयोः विपर्यासे आवर्तने क्षीणे सति तुरीयं पदं - चतुर्थरूपं अश्नुते, साक्षात्कारद्वारा

प्राप्नोतीत्यर्थः ॥ १५ ॥

अनादिमायया सुप्तो यदा जीवः प्रबुध्यते ।

अजमनिद्रमस्वप्नमद्वैतं बुध्यते तदा ॥ १६ ॥

प्र.दी.-भगवत्कृपया श्रीवासुदेवं साक्षात्करोतीत्याह - अनादिमायया सुप्तः इति ।

अनादिमायया - अनादिभूताज्ञानेन सुप्तः - अनादिकालप्राप्तसंसाररूपमायाशयने सुप्तः इत्यर्थः ।

यद्वा अनादिर्भगवान् श्रियःपतिः । तदधीनमायया सुप्तः स्वस्वरूपपरस्वरूपाद्यनभिज्ञः इत्यर्थः ।

जीवः यदा प्रबुध्यते - भगवत्कृपया प्रबुध्यते जागरूको भवति स्वस्वरूपाद्यर्थपञ्चकज्ञानवान्

भवति । तदा - तत्काले अजं, अजायमानो बहुधा विजायते (तै.आर.३-१३-३) इति श्रुत्यन्तरप्रतिपाद्यं,

अनिद्रं - सर्वदा आश्रितरक्षणजागरूकं, अस्वप्नं - स्वप्नाद्यवस्थारहितं अद्वैतं - सजातीयद्वितीयवस्तुरहितं

श्रीवासुदेवं बुध्यत बुध अवगमने (धा.पा.८५८) इति धातुः । साक्षात्करोति ॥ १६ ॥

कू.भा. - निद्राभ्रमयोरावर्तनक्षयः केन स्यात् ? यस्य क्षये भगवदपरोक्षधीरित्यतो

भगवत्प्रसादेनैवेत्याह अनादीति । मायाशब्देन भगवदिच्छा तदधीनाऽविद्या च गृह्येते । अनादीति

तन्त्रम् । अनादेर्विष्णोरनादिमायया कर्मरूपाविद्यया सुप्तः - स्वापितः संसारे निवेशितो जीवो यदा

अनादिमायया भगवदिच्छया भगवत्प्रसादेन प्रबुध्यते भगवानेव स्वतन्त्रोऽन्यत्सर्वं

तदधीनमित्यादितत्त्वज्ञानवान् भवति । तदा अजं - जननादिदोषहीनं अनिद्रमस्वप्नं

विश्वादिरूपव्यापाराप्रवर्तकं अद्वैतं - मिथ्याज्ञाननिवर्तकं, इदमुपलक्षणं सर्वानिष्टनिवर्तकं भगवन्तं

बुध्यते - साक्षात्करोति ॥ १६ ॥

प्रपञ्चो यदि विद्येत निवर्तेत न संशयः ।

मायामात्रमिदं द्वैतमद्वैतं परमार्थतः ॥ १७ ॥

प्र.दी. - ज्ञानिनोऽपि प्रामादिकभ्रमप्रपञ्चो विद्यत इति । तन्निवृत्तिस्तु सर्वस्वतन्त्रश्रियःपतिज्ञानात्

भवतीति भगवदुपास्योपासकभावः पारमार्थिक इति, जीवेश्वरैक्यादिभावस्तु भगवन्मायाविलसित

इत्याह - प्रपञ्चो यदि विद्येत इति । प्रपञ्चः ज्ञानिनो हि जीवस्य अनादिकालप्राप्तदेहगेहादिषु

स्वातन्त्र्याभिमानरूपभ्रमप्रपञ्चः विद्येत यदि, परमार्थतः पारमार्थिकस्वस्वरूप, परस्वरूपाद्यर्थपञ्चकज्ञानं

विनिवर्तेत निवतर्त इत्यर्थः । न संशयः - एतस्मिन्नर्थे संशयो न कर्तव्यः । यद्वा परः - उत्कृष्टः

मा - नास्ति यस्मात्सः परमः । यद्वा परः ब्रह्मादिसर्वदेवताप्रार्थनीयत्वेन उत्कृष्टा मा लक्ष्मीः यस्य

परमः लक्ष्मीपतिः । तस्य अर्थतः श्रियःपतिरेव परं तत्वमिति ज्ञानात् स्वातन्त्र्यादिभ्रमप्रपञ्चो

निवर्तत इत्यर्थः । यद्वा प्रपञ्चः ब्रह्मरुद्रादयः सर्वे उपास्या इति जीवेश्वरयोरैक्यमित्यादिभ्रमप्रपञ्च

विद्येत यदि तदा संशयः एतत्सत्यं वा असत्यं वेति संशयः न निवर्तते वर्तत एवेत्यर्थः ।

मायामात्रमिदं द्वैतमद्वैतं परमार्थत इति । निष्कृष्टार्थमाह इदं - परिदृश्यमानं द्वैतं - द्वयोर्भावः

द्विता द्वितैव द्वैतम् । उपास्योपासकभावः परमार्थतः प्राप्तमित्यध्याहार्यः । न्यायतः प्राप्तंसर्ववादिमत-

सम्मतमित्यर्थः । अद्वैतं - द्वैतं न भवतीत्यद्वैतं जीवेश्वरैक्यभावं मायामात्रं - न मां दुष्कृतिनो मूढाः

प्रपद्यन्ते नराधमाः । माययापहतज्ञानाः आसुरं भावमाश्रिताः । (भ.गी.७-१५) इत्युक्तौ सुरजनमोहक-

भगवन्मायाविलसितमिति ज्ञेयम् । द्वैतं मिथ्याभूतमिति अद्वैतं परमार्थमिति कैश्चिद्व्याख्यातम् । तत्तु

विकल्पो विनिवर्तेत इत्यादिपूर्वोक्तोपासनाप्रकरणविरोधादसमञ्जसम् ॥ १७ ॥

कू.भा. - ननु देहगेहादौ स्वस्वामिसम्बन्धादिरूपबन्धस्य जीवस्वरूपस्येव स्वाभाविकत्वेन

निवृत्त्ययोगात् विपर्यासे तयोः क्षीण इत्युक्तिः कथमित्यतो नायं स्वाभाविक इत्याह - प्रपञ्च इति ।

देहगेहादौ स्वस्वामिसम्बन्धादिरूपो बन्धः प्रपञ्चः सः स्वातन्त्र्येण नास्त्येव । यदि पराधीनोऽपि

विद्यत इत्यङ्गीक्रियते तद्यपि परमार्थतः परमश्चासावर्थश्च परमार्थः - उत्तमोऽर्थः भगवान् ।

तस्मात्परमार्थतः परमेश्वरप्रसादादिति यावत् । निवर्तेत - निवर्तत एव । न संशयः

अनादितोऽनुवृत्तस्य देहादी स्वीयत्त्वज्ञानरूपभ्रमस्य कथं निवृत्तिरित्यत आह - मायेति । अद्वैतं -

महद्भिर्यथावत्तया ज्ञातं ब्रह्मादिवस्तुजातमज्ञैः द्वैतं - द्वितीयेन प्रकारेण ज्ञातं तद्वैपरीत्येन ज्ञातं तच्च

मिथ्याज्ञानं तेषां मायामात्रम् भगवदिच्छामात्रनिर्मितं जातमित्यर्थः । तथा च

तादृशमिथ्याज्ञानस्यानादितोऽनुवृत्तस्यापि ईश्वरेच्छया जातत्वेनास्वाभाविकत्वात्तत्प्रसादेन तन्निवृत्तियुक्तेति

भावः । उक्तं हि संसारबन्धस्थितिमोक्षहेतुः, (श्वे.उ.६-१६) दैवी ह्येषा गुणमयी मम माया

दुरत्यया । मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥ (भ.गी.७-१४) इत्यादिकम् ॥ १७ ॥

विकल्पो विनिवर्तेतँ कल्पितो यदि केनचित् ।

उपदेशादयं वादो ज्ञाते द्वैतं न विद्यते ॥ १८ ॥ इति ॥

प्र.दी. - सतामुपदेशात् भगवन्मायामोहनजन्यजीवेश्वरैक्यादिरूपवादो न सम्भवतीत्याह -

विकल्पो विनिवर्तेत इति । परमात्मजीवयोरैक्यं नैगुण्यं ब्रह्मणस्तथा । मयैव वक्ष्यते देवि ‘कता

ब्राह्मणरूपिणा ॥ इत्यादि प्रमाणबोध्येन केनचित्कुमार्गप्रवर्तकेन विकल्पः - ब्रह्मरुद्रादिपरत्ववादरूपः

जीवेश्वरैक्यादिरूपः विकल्पः कल्पितो यदि - निर्मितो यदि, उपदेशादयं वादः - श्रियःपतिरेव

परं तत्वमिति सतामुपदेशात् अयं वादः - पूर्वोक्तविविधविकल्परूपासद्वादः विनिवर्तेत - सवासनया

निवर्तत इत्यर्थः । ज्ञाते - परमात्मनि श्रीवासुदेवे स्वरूपे ज्ञाते सति अद्वैतं जीवेश्वरैक्यभावादिकं

न विद्यते - न सम्भवति इति विज्ञायत इति यावत् ॥ १८ ॥

कू.भा. - उक्तमेव सर्ववाक्यार्थं विशदयन्नुपसंहरति - विकल्प इति । देहगेहादौ

स्वीयताभिमानादिनानात्मकबन्धरूपो विकल्पः उक्तरीत्याऽस्वाभाविको यदि केनचिदज्ञानादिना

स्वाभाविकत्वेन कल्पितः तर्ह्यप्युपदेशात् महतामुपदेशबलात् विनिवर्तेत - विनिवर्तत एव । न

निवर्ततेति पाठे काकुः न निवर्तेत किं? अपि तु निवर्तेतैवेत्यर्थः । कस्सतां वादः?

यदुपदेशान्नानाविधस्वातन्त्र्यादिभ्रमनिवृत्तिरित्यत आह - अयमिति । ब्रह्मणि यथावद्ज्ञाते सति

द्वैतं - शिवमद्वैतम् इत्यत्रोक्तव्युत्पत्त्या मिथ्याज्ञानं न विद्यते । निवर्तत इत्ययं सतां वाद इत्यर्थः ।

इति शब्दस्य इत्येते श्लोका भवन्तीत्यनेनान्वयः ॥ १८ ॥

विश्वस्यात्वविवक्षायामादिसामान्यमुत्कटम् ।

मात्रासंप्रतिपत्तौ स्यादाप्तिसामान्यमेव च ॥ १९ ॥

प्र.दी. - एवं विश्वादिरूपत्रयं प्रणवावयवाकारादिवर्णत्रयवाच्यत्वेन प्रतिपाद्यचतुर्थवासुदेवरूपं

अमात्रश्चतुर्थ इत्यादिना अग्रे विवक्षुः प्रागुक्तरूपत्रयज्ञानिनो फलानि विवृणोति । अत्रेति । रूपत्रयज्ञानिफले

विषये, एते वक्ष्यमाणाः श्लोका भवन्ति । तान्मन्त्रान्क्रमेणाह - विश्वस्येति । अत्वविवक्षायां,

अत्रत्यविवक्षाशब्देन उपासनमुच्यते । अकारवाच्यविश्वनामधेयकानिरुद्धपरमात्मोपासनायां उपासकस्य

उत्कटं - उत्कृष्टं आदिसाम्यं - आदिमत्वसाम्यं भवति । मात्रासंप्रतिपत्तौ मात्राप्रणवांशः अकारः

व्याप्तिनिमित्तकप्रणवांशकाकारवाच्यविश्वरूपप्रद्युम्नपरमात्मसंप्रतिपत्तौ ध्याने सति उपासकस्य

आप्तिसामान्यमेव च सर्वकामावाप्तिसाम्यं च स्यात् । चकारोऽनुक्तसमुच्चयार्थकः ॥ १९ ॥

कू.भा. - एवं रूपत्रयं प्रणवस्याकारादिवर्णत्रयप्रतिपाद्यमुक्त्वा चतुर्थं रूपं अमात्रश्चतुर्थः

इत्यादिनाऽग्रे विवक्षुः प्रागुक्तरूपत्रयज्ञानिनो यानि फलान्युक्तानि तत्र ब्रह्मदृष्टश्लोकान् प्रगणयति

अत्रेति । अत्र - रूपत्रयज्ञानिफले एते - वक्ष्यमाणाः श्लोकास्संवादिनो भवन्ति । क्रमेण

तान्मन्त्रान् पठति - विश्वस्येति । अत्वविवक्षायामिति विवक्षापदेनोपासनं ग्राह्यम् । आदिमत्त्वाद्वा

इत्यत्रोक्तदिशा आदिमत्वनिमित्तेन विश्वस्य प्रणवैकदेशावर्णवाच्यत्वोपासनायां सत्यामुपासकस्य

आदिसामान्यं - आदिश्च इत्यत्रोक्तदिशा आदिमत्वसामान्यं आदित्वेन विश्वसाम्यं भवति ।

उत्कटं - स्पष्टमेतत् । यथा यथोपासते स तथैव भवति (मुद्ग.उ. ३) इत्यादेरिति भावः ।

मात्रासंप्रतिपत्तौ - मात्रा - आत्मनोंऽशो विश्वः । आप्तिनिमित्तकप्रणवांशाकारार्थ इति विश्वरूपांशध्याने

ध्यातुराप्तिसामान्यमेव स्यात् । सर्वकामावाप्त्यैव विश्वसाम्यमेव भवेदित्यर्थः ॥ १९ ॥

तैजसस्योत्वविज्ञाने उत्कर्षो दृश्यते स्फुटम् ।

मात्रासंप्रतिपत्तौ स्यादुभयत्वं तथाविधम् ॥ २० ॥

प्र.दी. - उकारवाच्यतैजसापरनामधेयकप्रद्युम्नोपासकफलं विवृणोति - तैजसस्येति ।

तैजसस्योत्वविज्ञाने - उकारवाच्यतैजसापरनामधेयकप्रद्युम्नोपासनायामित्यर्थः । उपासकस्य स्फुटं

उत्कर्षो दृश्यते । मात्रासंप्रतिपत्तौ - मात्रा प्रणवांशः उकारः तद्वाच्यः अनिरुद्धः परमात्मा तस्य

सम्प्रतिपत्तौ ध्याने सति तथाविधं उभयत्वं स्यात् । ज्ञानसन्ततिरूपत्वादिकं उत्कृष्टेषु समानत्वं

चोभयं स्यादित्यर्थः ॥ २० ॥

कू.भा.-तैजसस्येति । तैजसस्य उत्वविज्ञाने - प्रागुक्तरीत्या उत्कर्षनिमित्तेन

प्रणवैकदेशोकारवाच्यत्वोपासनायांतस्योपासकस्य उत्कर्षति इत्यत्रोक्तदिशा स्फुटमुत्कर्षो दृश्यते

प्रमित इत्यर्थः । मात्रासंप्रतिपत्तौ - प्रागुक्तदिशोभयहेतुत्वनिमित्तेन प्रणवांशोकार-

वाच्यत्वेनात्मांशतैजसध्यानेन तस्य ध्यातुस्तथाविधं प्रागुक्तं ज्ञानसन्ततिरूपसर्वज्ञत्वं समानत्वं

चेत्युभयवत्वं स्यादित्यर्थः ॥ २० ॥

मकारभावे प्राज्ञस्य मानसामान्यमुत्कटम् ।

मात्रासंप्रतिपत्तौ तु लयसामान्यमेव च ॥ २१ ॥

प्र.दी. - मकारवाच्यप्राज्ञापरनामधेयकसंकर्षणोपासकफलं विवृणोति - मकारभावे प्राज्ञस्य

इति । मकारभाव इति मकारवाच्यप्राज्ञापरनामधेयकसंकर्षणपरमात्मोपासनायामित्यर्थः । उत्कटं - उत्कृष्टं

मानसामान्यं - सर्वज्ञत्वरूपमानसाम्यं भवति । मात्रासम्प्रतिपत्तौ - प्रणवांशभूतमकारवाच्यसंकर्षण-

परमात्मध्याने सति ध्यातुः लयसामान्यमेव च - सर्वानिष्टलयकृत्परमात्मसाम्यं च भवतीत्यर्थः ॥ २१ ॥

कू.भा. मकारेति । प्राज्ञस्य मकारभावे मकारत्वे प्रागुक्तमितिरूपनिमित्तेन

प्रणवैकदेशमकारवाच्यत्वे विज्ञाते सति मानसामान्यं - सर्वान्तर्भावरूपप्राज्ञसाम्यम् उत्कटं -

स्फुटमित्यर्थः । मात्रासंप्रतिपत्तौ - ऐन्द्रियिकविज्ञानलयकृत्त्वनिमित्तेन प्रणवांश मकारवाच्यत्वेन

आत्मांशप्राज्ञध्याने तु ध्यातुः लयसामान्यं - दुःखादिलयकृत्त्वेन प्राज्ञसाम्यमेव स्यादित्यर्थः ॥ २१ ॥

त्रिषु धामसु यत्तुल्यं सामान्यं वेत्ति निश्चितः ।

स पूज्यः सर्वभूतानां वन्द्यश्चैष महामुनिः ॥ २२ ॥

प्र.दी. - अनिरुद्धाधुपासकफलवेत्तारः सर्वभूतवन्द्या भवन्तीत्याह - त्रिषु धामस्विति ।

त्रिषु धामसु विश्वतैजसप्राज्ञापरनामधेयकानिरुद्धप्रद्युम्नसंकर्षणेषु ध्यातेषु सत्सु ध्यातुर्यत्तुल्यं

ध्येयविश्वादिसामान्यं सादृश्यं भवतीति निश्चितः सन् यः वेत्ति - जानाति - सः - महामुनिः ।

सर्वभूतानां पूज्यो भवति । वन्द्यश्च - नमस्कारयोग्यश्च भवति ॥ २२ ॥

कू.भा. - विश्वादिरूपाणामत्वोत्वमत्वज्ञानिनो यदादिसामान्यादिफलमुक्तं तद्दार्ढ्याय

विश्वादेरत्वादिज्ञानिन आदिसामान्यादिकं फलमिति यो जानाति तस्याप्यस्ति फलमित्याह -

त्रिष्विति । त्रिषु धामसु - त्रिषु रूपेषु उक्तविधया ध्यातेषु सत्सु ध्यातुः यत्तुल्यं ध्येयविश्वादिसादृश्यं

सामान्यं - आदिमत्त्वादिसाम्यं च भवतीति निश्चितः - निश्चयवान् सन् वेत्ति सः - वेदिता

महामुनिः - सर्वभूतानां पूज्यो वन्द्यश्च भवतीत्यर्थः ॥ २२ ॥

अकारो नयते विश्वं उकारश्चापि तैजसम् ।

मकारश्च पुनःप्राज्ञं नामात्रे विद्यतेऽगतिः ॥ २३ ॥

॥ इति तृतीयः खण्डः ॥

प्र.दी. - विश्वादिरूपत्रयोपासनात्सर्वकामाप्त्यादिफलमुक्त्वा अद्य विश्वादिप्राप्तिमाह - अकारो

नयते विश्वमिति । अकारः - प्रणवावयवभूतोकारः स्वोपासकं विश्वं नयति

विश्वापरनामधेयकमनिरुद्धं प्रापयति । उकारश्चापि तैजसं - प्रणवावयवभूतोकारश्चापि तैजसं

तैजसापरनामधेयकप्रद्युम्नं प्रापयति । मकारश्च पुनः प्राज्ञं प्रणवावयवभूतमकारः स्वोपासकं

पुनरपि प्राज्ञं संकर्षणं नयति - प्रापयति । नयतीति सर्वत्रानुवर्तते । सुषुप्तौ जीवस्य प्राज्ञेन

सहानुदिनं सम्बन्धस्य विद्यमानत्वात्पुनरपीत्युक्तिः । नामात्रे विद्यते गतिः अकारोकारयोः

मकारेणैकीभूतत्वमस्तीति कृत्वा त्रयाणां मात्रत्वं सिद्धम् । अस्य नादस्याशब्दरूपेण अभावादमात्रत्वम् ।

तस्मादमात्रे नादामात्रे नादात्मकतुरीयापरनामधेयक श्रीवासुदेवोपासने सतीत्यर्थः । अगतिः

परमात्मप्राप्यभावः न विद्यते - नास्ति । नञ् द्वयस्य अस्त्यर्थबोधकत्वात् वासुदेवसाम्यमस्त्येवेत्यर्थः ।

तुरीये अस्ति गतिरिति वक्तव्ये विद्यत इत्युक्तिः विश्वादेरिव यथा बाह्यादिव्यापारकारणत्वं नास्ति ।

तथा गम्यत्वमपि नास्तीति कुशंकानिवारणार्थं अगतिर्नविद्यत इत्युक्तिः ॥ २३ ॥

-

कू.भा. - विश्वादिरूपोपासनात् सर्वकामावाप्त्यादिफलमुक्तं प्राक् । इदानीं विश्वादिप्राप्तिरूपफलं

चाह - अकार इति । अकारः अ इत्याक्रियमाणो विश्वः स्वात्मोपासकं विश्वं - स्वात्मानं

नयति - प्रापयति । उकारश्चापि तैजसमित्यादौ - नयत इत्यनुकर्षः । प्राग्वद्याख्या । पुनः

प्राज्ञमिति - पुनश्शब्दः प्रत्यहं सुप्तौ प्राप्तिसत्त्वेऽपि स्थानविशेषे मुक्तौ तत्प्राप्त्यभिप्रायेणेति ज्ञेयम् ।

तुरीयोपासकस्य कथमित्यतस्तस्यापि तत्प्राप्तिरस्तीत्याह - नामात्र इति । विश्वतैजसयोः प्राज्ञेन

प्रतिदिनमेकीभावोऽस्तीति विश्वादीनां मात्रत्वम् । तुरीयस्य तन्नेत्यमात्र इत्युच्यते तुरीयः । अमात्रे .

चतुर्थे अगतिः - तत्प्राप्त्यभावस्तदुपासकस्य न विद्यते । विद्यत एव गतिरित्यर्थः । तुरीयेऽस्ति

गतिरिति वक्तव्ये अगतिर्न विद्यत इत्युक्तिः विश्वादेरिव बाह्यादिव्यवहारकारणत्वं यथा नास्ति तथा

गम्यत्वमपि नेति शंकावारणार्थमिति ज्ञेयम् ॥ २३ ॥

ओंकारं पादशो विद्यात्पादामात्रा न संशयः ।

ओंकारं पादशो ज्ञात्वा न किञ्चिदपि चिन्तयेत् ॥ २४ ॥

प्र.दी. प्रणवे प्रणवावयवाकारादिवाच्यप्रद्युम्नादिव्यूहचतुष्टयध्यानपूर्वक समस्तप्रणव-

शब्दवाच्यपरवासुदेवध्याने अन्यस्मरणत्यागःकर्तव्य इत्याह - ओंकारं पादशो विद्यात् इति ।

ओंकारं - समस्तप्रणवप्रतिपाद्यं परवासुदेवं पादशो विद्यात् - पादभूताकारादिप्रतिपाद्या-

निरुद्धप्रद्युम्नसंकर्षणवासुदेवव्यूहचतुष्टयसहितं जानीयादित्यर्थः । पादाः के? इत्यत्राह-मात्राः

अकारादय इति । विद्यात् । न संशयः ओंकारं पादशो ज्ञात्वा - ओंकारवाच्यं परवासुदेवं

प्रद्युम्नादिव्यूहचतुष्टयविशिष्टत्वेन ज्ञात्वा न किञ्चिदपि चिन्तयेत् - ध्यानसमये देवतान्तर-

साधनान्तरविषयान्तरादिकं न स्मरेदित्यर्थः ॥

कू.भा. - प्रणवावयवाकारादि प्रतिपाद्यभगवद्रूपज्ञानमन्यस्मरणत्यागेन सम्पाद्यमित्यत्र मन्त्रान्

ब्रह्मदृष्टानाह अत्रैते’ इति । अत्र उक्तार्थे । ओंकारमिति । ओंकारं - ओमित्याक्रियमाणं

समग्रप्रणवप्रतिपाद्यं पादशः - पादैः पद्यन्ते प्राप्यन्ते स्वोपासकैरिति पादैर्विश्वाद्यंशैः विश्वादिचतूरूपात्मना

जानीयात् । पादाः किंरूपा इत्यत आह - पादा इति । मात्राः - प्रणवांशभूताकारादि प्रतिपाद्या इत्यर्थः ।

ओंकारं - प्रणववाच्यं पादशः - चतूरूपतया ज्ञात्वा किञ्चिदपि न चिन्तयेत् - इतरचिन्तया

जायमानफलस्य ततोऽधिकफलस्य चैतद्ज्ञानादेव सिद्धेरिति भावः ॥ २४ ॥

युञ्जीत प्रणवे चेतः प्रणवो ब्रह्म निर्भयम् ।

प्रणवे नित्ययुक्तस्य न भयं विद्यते क्वचित् ॥ २५ ॥

प्र.दी. - समस्तप्रणवशब्दवाच्यपरवासुदेवध्यानयुक्तस्य क्वचिदपि संसारभयं नास्तीत्याह -

युञ्जीत प्रणवे चेत इति । प्रणवे - सर्ववेदवेदाद्यन्तेषु हरिशब्दसामानाधिकरण्यतया

शिष्टजनप्रयुक्तोंकारवाच्यपरवासुदेवस्वरूपे चेतः - मनः युञ्जीत - संयोजयेत् । ओमित्यात्मानं

युञ्जीत (महा.ना.१८) इति श्रुत्यन्तरम् । प्रणवो ब्रह्म निर्भयम् । प्रणववाच्यं वस्तु

आश्रितसंसारभयनिवर्तकबृहत्त्वादिगुणयुक्तपरंब्रह्मेत्यर्थः । प्रणवे - नित्ययुक्तस्य प्रणववाच्यपरवासुदेवे

नित्यध्यानायुक्तस्य जीवस्य न भयं विद्यते क्वचित् , कालत्रयेऽपि संसारभयं नास्तीत्यर्थः । न च

पुनरावर्तते (छां.उ. ८-१५-१) इति श्रुत्यन्तरम् ॥ २५ ॥

.

कू.भा. - संसारभयं तितीर्पणा ओंकारो भगवान् सर्वथा ध्येय इत्यत्र श्लोकं पठति

युञ्जीतेति । प्रणवे - प्रणववाच्ये हरौ चेतो युञ्जीत - तद्विषयं कार्यम् । स कीदृशः प्रणव इत्यत

आह - प्रणवो ब्रह्मेति । गुणैर्ब्रहणात् पूर्णत्वात् ब्रह्म विश्वादिरूपचतुष्टयात्मकः प्रणवः निर्भयं; यतो

ब्रह्मगुणपूर्णमिति । विश्वादिचतूरूपो हरिर्जाग्रदाद्यवस्था प्रणयनाद्वा प्रणव इत्युच्यते । प्रपूर्वान्नयतेर च्प्रत्यये

धातोर्नुशब्दादेशे गुणावादेशणत्वेषु प्रणव इति सिद्धिः । फलमाह - प्रणव इति । तस्मिन्प्रणवे हरौ

नित्ययुक्तस्य - नित्यं तद्ध्यायिन इत्यर्थः । क्वचित् - केनापि निमित्तेनेत्यर्थः । फलसाम्यार्थमेव

ब्रह्म निर्भयमिति विशेषणोक्तिः ॥ २५ ॥

प्रणवो ह्यपरं ब्रह्म प्रणवश्च परः स्मृतः ।

अपूर्वोऽनन्तरो बाह्यो न परः प्रणवोऽव्ययः ॥ २६ ॥

प्र.दी. - प्रणवं - प्रणवशब्दवाचं परवासुदेवं च स्तौति - प्रणव इति । प्रणवो ह्यपरं

ब्रह्म - प्रणवः ओँकारः हीति प्रसिद्धौ । अपरं ब्रह्म - शब्दरूपमप्रसिद्धं परं ब्रह्म ओमित्येकाक्षरं

ब्रह्म (भ.गी. ८-१३) इति श्रुत्यन्तरप्रसिद्धमित्यर्थः । प्रणवश्च - तादृशप्रणववाच्यः परबासुदेवः

परः । परिपूर्णत्वादिगुणविशिष्टः इति स्मृतः । अपूर्वः - न विद्यते पूर्वं कारणं यस्य अपूर्वः ।

अनन्तरः - अन्तशब्दपर्यायो ह्यन्तरशब्दः । न विद्यते अन्तरं नाशो यस्य अनन्तरः । नित्य

इत्यर्थः । यद्वा न विद्यते अन्तरं सजातीयवस्त्वन्तरं यस्मान्नास्तीत्यनन्तरं असदृश इत्यर्थः ।

अबाह्यः - सर्वगतत्वादस्य बाह्यं नास्तीत्यबाह्यः । न परः, परः उत्कृष्टो यस्मानास्तीति न परः ।

प्रणवः - प्रकर्षेण स्वाश्रितान् स्वसमीपं नयतीति प्रणवः । प्रपूर्वान्नयतेरच्प्रत्यये धातोः नुशब्दादेशे

गुणावादेशणत्वेषु कृतेषु प्रणव इति रूपं भवति । एतादृशः परमात्मा अव्ययः - सदैकरूप इत्यर्थः ॥ २६॥

कू.भा. - विश्वादिरूपाणामन्योन्यं मूलरूपेण च न गुणतारतम्यमित्याह - प्रणव इति ।

अपरं - अपरः पूर्वतनः । मूलरूपपूर्वावतारात्मा प्रणवः - हरिः ब्रह्म - पूर्णः । हि प्रसिद्धमेतत् ।

सर्वेषु भूतेष्वेतमेव ब्रह्मत्याचक्षत इत्यादाविति भावः । परं - यश्चात्मनो विश्वाद्यवताररूपः प्रणवः

हरिश्च ब्रह्म पूर्ण इत्याकर्षः । स्मृतः - श्लोकद्रष्ट्रेति योज्यम् । पूर्वावतारे पश्चिमावतारे च पूर्णतैव । न

क्वचिन्न्यूनतेति भावः । प्रणवो ब्रह्मेत्युक्तं पूर्णत्वं व्यनक्ति - अपूर्व इति । न विद्यते पूर्व कारणं यस्य

सोऽपूर्वः प्रणवः - नाशाभावादनन्तरः । अन्तशब्दपर्या- योऽत्रान्तरशब्दः । सर्वगतत्वादबाह्यः ।

पराधीनस्थित्यभावान्नपरः । अव्ययः - शश्वदेकप्रकारः ॥ २६ ॥

सर्वस्य प्रणवो ह्यादिमध्यमन्तस्तथैव च ।

एवं हि प्रणवं ज्ञात्वा व्यश्नुते तदनन्तरम् ॥ २७ ॥

प्र.दी. - एवं प्रणव प्रणवार्थज्ञानिनः फलमाह - सर्वस्येति । प्रणवः सर्वस्य वेदस्य

आदिः । मध्यः । तथैव चान्तः । आदिमध्यान्तेषु च प्रयुक्त इत्यर्थः । यद्वा प्रणवः

प्रणवशब्दवाच्यः परवासुदेवः सर्वस्य - प्रपञ्चस्य आदिः - सृष्टिकर्ता, मध्यः - पालनकर्ता, तथैव

चान्तः - प्रलयकर्ता च । जगज्जन्मादिकारणमित्यर्थः । एवं हि प्रणवं ज्ञात्वा - प्रणवं प्रणवशब्दार्थं

च एवं प्रकारेण ज्ञात्वा, अनन्तरं । प्रारब्धकर्मभोगानन्तरं तत् - वासुदेव परब्रह्म व्यश्नुते -

विशेषेण प्राप्नोतीत्यर्थः ॥ २७॥

कू.भा. - सर्वस्येति । प्रणवः - हरिः सर्वस्य - आदिः - कारणं, मध्यं - स्थितिकर्ता,

तथा अन्तः । नाशकर्ता च स एवेति निश्चये तद्ज्ञानिनः फलमाह - एवं हीति । एवं -

ब्रह्मवादिना प्रकारेण प्रणवं - हरिं ज्ञात्वा अनन्तरं - प्रारब्धभोगानन्तरं तत् - ब्रह्म व्यश्नुते -

विशेषेण प्राप्नोति । सदा सत्त्वेऽपि स्थानादिविशेषाभिप्रायेण वीत्युक्तिः ॥ २७ ॥

प्रणवं हीश्वरं विद्यात् सर्वस्य हृदि संस्थितम् ।

सर्वव्यापिर्नमोंकारं मत्वा धीरो न शोचति ॥ २८ ॥

प्र.दी, - प्रणवशब्दवाच्यसर्वहृदिस्थित श्रीपरवासुदेवोपासकस्संसारदुःखं न प्राप्नोतीत्याह -

प्रणवमिति । प्रणवशब्दवाच्यं परवासुदेवं सर्वस्य हृदि संस्थितं - सर्वस्य हृदि नियमनाथं स्थितं

ईश्वरं - ब्रह्मादिनियन्तारं विद्यात् - जानीयादित्यर्थः । धीरः - धिया ब्रह्मविषयकबुद्ध्या रमतीति

धीरः ज्ञानी सर्वव्यापिनं अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः (तै.ना. २५) इति श्रुत्यन्तरसिद्ध

श्रीमन्नारायणं ओंकारं - ओंकारवाच्यं प्रकृतपरवासुदेवं मत्वा - ज्ञात्वा न शोचति - तत्कृपया

संसारदुःखं न प्राप्नोतीत्यर्थः ॥ २८ ॥

कू.भा. - उपासने स्थानविशेषं विदधत् प्रणवस्य हरेर्महिमान्तरमाह - प्रणवं हीति ।

ईश्वरं - सर्वनियामकं प्रणवं हरिं सर्वस्य हृदि संस्थितं विद्यात् - उपासीत ईश्वरस्सर्वभूतानां

हृद्देशेऽर्जुन तिष्ठति । तमेव शरणं गच्छ (भ.गी. १८-६१,६२) इति स्मृतेरिति भावः । एवं

सर्वव्यापिनं ओंकारं - ओमित्याक्रियमाणं मत्वा उपास्य धीरः - ज्ञानी न शोचति

आविर्भूतापहतपाप्मत्वादिगुणाष्टको मुच्यत इत्यर्थः ॥ २८ ॥

अमात्रोऽनन्तमात्रश्च द्वैतस्योपशमश्शिवः ।

ओंकारो विदितो येन स मुनिर्नेतरो जनः ॥

स मुनिर्नेतरो जन इति ॥ २९॥

॥ इति गौडपादीयाः माण्डूक्यकारिकाः॥

प्र.दी - ओंकारवाच्यपरवासुदेवोपासकः मुक्तो भवतीत्याह - अमात्र इति । न विद्यन्ते

मात्राः अंशाः विश्वादिसंज्ञिकाः यस्य अमात्रः । मूलरूपपरवासुदेव इत्यर्थः । स एवानन्तमात्रः ।

अनन्ताः मात्राः रामकृष्णादिरूपाः अंशाः यस्य स अनन्तमात्रः । अनन्तावतारकन्दभूतः द्वैतस्योपशमः

द्वैतस्य प्रपञ्चस्य उपशान्तिः प्रलयकाले ह्यस्मिन्निति उपशमः । शिवः - मङ्गलकरः ओंकारः

समस्तप्रणववाच्य परवासुदेवः येनोपासकेन विदितः - विज्ञातः सः मुनिः - मुक्तो भवति । इतरः -

एतादृश परवासुदेवाविज्ञाता न मुक्तो भवति । किन्तु जनो भवति - जननादिविशिष्टो भवति

इत्यर्थः । स मुनिर्नेतरो जन इति द्विरुक्तिरुपनिषत्समाप्तिबोधिका ॥ २९ ॥

अस्यामुपनिषदि प्रथमखण्डे प्रणवावयवभूताकारोकारमकारवाच्यविश्वादिषु प्रद्युम्नादिदृष्टिः

कर्तव्येत्युक्ता । द्वितीयखण्डे जाग्रत्स्वप्नसुषुत्यधिष्ठानभूतानां विश्वादीनां वैभवमुक्त्वा प्रपञ्चः ब्रह्मविवर्तः

इत्यसद्वादिनामभिप्रायं चोक्त्वा, प्रपञ्चसृष्टिर्भगवतस्स्वभाव इत्यन्यदसत्यमिति तुरीयस्वरूपं

विश्वादिविलक्षणमित्युपास्योपासकभावस्सत्य इत्यन्यदसत्यमिति सतामुपदेशान्ते तादृशमोहो निवर्तत

इत्यादिकं प्रतिपादितम् । तृतीयखण्डे विश्वादयो अकारादिवाच्याः इति तेषु अनिरुद्धादिदृष्टिः

कर्तव्येति एतादृशज्ञानिनां फलमुक्त्वा अन्तकाले अकारादयस्स्वोपासकजनान् विश्वादीन्नयतीत्युक्तम् । अथ

चतुर्थखण्डे व्यूहवासुदेवस्वरूपं तदुपासकलब्धफलं चोक्त्वा समस्तप्रणवशब्दवाच्यपरवासुदेवोपासकः

मुक्तो भवतीत्यन्येषां मुक्तिर्नास्तीत्युक्तम् । ततश्चोपक्रमोपसंहारेषु ब्रह्मणः मायाविद्याभ्यां जीवेश्वरत्वकल्पनं

तन्मिथ्यात्वकल्पनं च यत्र कुत्रापि नोक्तम् । किन्तु प्रणवशब्दवाच्यः परवासुदेव इति तदुपासको

मुक्तो भवतीत्युक्तम् ॥

॥ भारद्वाजरामानुजाचार्यविरचिता गौडपादीयमाण्डूक्यकारिकाप्रतिपदार्थदीपिका समाप्ता ॥

कू.भा. - एवमुक्तां समस्तव्यस्तप्रणवाभिधेय भगवदुपासनामनुवदन् तद्ज्ञानिनः

स्तवेनोपसंहरति - अमात्र इति । अमात्रः मात्राः अंशाः । तद्विहीनः अमात्रः - मूलरूपेण

स्थित इति यावत् । अनन्तमात्रः - जगद्व्यापारनिर्वहणार्थमिच्छाकृतविश्वाद्यनन्तांशः

इच्छागृहीताभिमतोरुदेहः (वि.पु. ६-५-८४) इति स्मृतेः । द्वैतस्योपशमः - स्वोपासकानां

सर्वानिष्टनिवर्तकः, शिवः - निर्दुःखसुखरूपः, ओंकारः - ओमित्याक्रियमाणः । एवं रूपो येन

विदितः - ज्ञातः स मुनिः नेतरः; किन्तु सः जनः जननमरणादिना परिवर्तत इत्यर्थः । मुनिस्तु

मुच्यत इति भावः । स मुनिर्नेतरो जनः इति द्विरुक्तिरुक्तसर्वप्रमेयावधारणार्था । उपनिषत्समाप्त्यर्था च ॥ २९ ॥

॥ श्रीकूरनारायणमुनिविरचितं गौडपादीयमाण्डूक्यकारिकाभाष्यं समाप्तम् ॥