०३ तृतीयः खण्डः

सोऽयमात्माऽध्यक्षरमोंकारोऽधिमात्रं..

तृतीयः खण्डः

एवं समग्रोङ्कारप्रतिपाद्यस्याऽऽत्मनो विश्वादिरूपचतुष्टयं निरूप्य तेषां रूपाणामकारादिप्रणवांशप्रतिपाद्यत्वादिमाहात्म्यं वक्तुम् उक्तमनुवदति- सोऽयमात्माऽध्याक्षरमोंकार इति ।

सोऽयमात्माऽध्यक्षरमोंकारोऽधिमात्रं पादा मात्रा अकार उकारो मकार इति ।

जागरितस्थानो वैश्वानरोऽकारः प्रथमा मात्रा । आप्तेरादिमत्त्वाद् वा ।

आप्नोति ह वै सर्वान् कामानादिश्च भवति य एवं वेद ॥ १ ॥

ओमित्याक्रियमाणतयों कारशब्दितः सोऽयं चतुरात्मकत्वेनोक्त आत्माध्यक्षरम् । अधि सर्वतोऽधिकं च तदक्षरमविनाशि चेत्यध्यक्षरम् । शब्दस्वाभाव्यान्नपुंसकता । कीदृशमक्षरमित्यत आह-अधिमात्रमिति । अधिका मात्रा अंशा यस्य तदक्षरमधिमात्रम् । मात्राः का इत्यत आह- पादा मात्रा इति ॥ पद्यन्त इति पादा विश्वादिरूपाणि । पादाः क इत्यत अकारादिप्रतिपाद्या विश्वादय इत्याह- अकार इति ॥ अ इत्याक्रियते आहूयते प्रतिपाद्यत इत्यकारो विश्वः । एवमुक्तदिशा उकारस्तैजसः । मकारः प्राज्ञः । उपलक्षणमिदम् । नादबोध्यस्तुरीयोऽपि नाद इति शेषोक्त्या ग्राह्यः । अवर्णप्रतिपाद्यं रूपं स्थानोक्त्या निर्दिशति- जागरितेति ॥ अकारो ऽ इत्याक्रियमाणः प्रथमा मात्रा समग्रप्रणव-

प्रतिपाद्यस्याक्षरनाम्न आत्मनः प्रथर्मोऽश इत्यर्थः । अत्र जागरितस्थानः प्रथमा मात्रा वैश्वानर इत्यनूद्य अकार इत्यवर्णप्रतिपाद्यत्वं विधीयत इति न पौनरुक्त्यमिति बोध्यम् । एवमग्रेऽपि । वैश्वानरस्यावर्णवाच्यत्वे निमित्तद्वयमाह - आप्तेरादिमत्त्वाद्वेति ॥ तत्तज्जीवयोग्यभोग्यविषयान् भोगान् आपयति प्रापयति विश्व इति ‘अ’ इत्युच्यते विश्व इत्यर्थः । ‘आप्ऌ व्याप्तौ’ अन्तर्णीतण्यर्थाड्डप्रत्यये अ इति रूपमिति भावः । प्राज्ञस्तैजसश्चाऽदी अस्येति आदिमान्, तस्माद्वा अ इत्युच्यत इत्यर्थः । सुषुप्तौ स्वप्ने च प्राज्ञतैजसाभ्यामेकीभूतो विश्वः सुप्तेरुत्थाने प्राज्ञात्, स्वपनादुत्थाने तैजसाद्विविक्तस्सन् दक्षिणाक्षिस्थानमायातीति तयोरादि- तया विश्वस्य तदादित्त्वमिति भावः । एतन्निमित्तद्वययुक्तत्वेनावर्णवाच्यत्वं विश्वस्य जानतः फलमाह - आप्नोति ह वा इति ॥ योऽधिकारी एवमकारवाच्यत्वं विश्वस्य वेद, अस्येति शेषः, अस्य वेदितुः स विश्वः सर्वान् स्वयोग्यान् सर्वान् कामान् काम्यमानानाप्नोति प्रापयति, अन्तर्णीत- णिच् । ‘आदिश्च’ विश्व एवं वेदितुरादिश्च भवति, आविर्भूतस्वरूपतया मुक्तरूपेण तत उत्पद्यते तज्ज्ञानीति तस्यायमादिः कारणं भवती- त्यर्थः । यद्वाऽऽदिश्चेत्यत्रैवास्येति शेषः । आप्नोतीत्यत्र तु स ज्ञानीति शेषो ध्येयः ॥ १ ॥

को द्वितीयः पादः ? य उकार इत्युक्त इत्यत आह- स्वप्नस्थान इति ॥

स्वप्नस्थानस्तैजस उकारो द्वितीया मात्रा ।

उत्कर्षादुभयत्वाद् वा । उत्कर्षति ह वै ज्ञानसन्ततिं समानश्च भवति ।

नास्याब्रह्मवित् कुले भवति । य एवं वेद ॥ २ ॥

स्वप्नस्थानो द्वितीया मात्रा आत्मनो द्वितीयोऽशः । तैजस उकार उ इत्याक्रियमाणत्वादुकार इत्युक्तः । उवर्णवाच्यत्वे निमित्तद्वयमाह –उत्कर्षादुभयत्वाद्वेति । जाग्रदशायां विद्यमानदेहाभिमानादुत्थाप्य देहाभिमानं त्याजयित्वा स्वप्नमण्डले जीवं कर्षतीत्युत्कर्षणाद्धेतोर्वा, बाह्याज्ञप्तिरूपनिद्रां वासनामयविषयानुभवं च प्रयच्छतीत्युभयत्वाद्, उभयहेतुत्वाद्वा निमित्ताद् उ इत्युच्यते तैजस इत्यर्थः । तथा वेदितुः फलमाह- उत्कर्षति ह वा इति ॥ योऽधिकारी एवं निमित्तद्वय- युक्ततयोकारवाच्यतैजसं वेद स ज्ञानी ज्ञानसन्ततिं ज्ञानधारां, ज्ञाननित्यत्वमिति यावत्, आप्नोतीत्यनुषङ्गः । उत्कर्षति देहबन्धादात्मानम् उत्कर्षति उद्धरति । उत्कृष्य च, समानश्च ‘मानमन्तर्गतिस्स्मृता’ इत्युक्तेर् मानसहितः समानः सर्वमोक्षिणाम् अन्तर्गतस्तन्मध्यस्थो भवतीत्यर्थः । दोषाभावात् स्नेहाच्चेति भावः । अस्य ज्ञानिनः कुले अब्रह्मविन्न भवति, ब्रह्मज्ञानिसन्ततिरेव भवतीत्यर्थः ॥ २ ॥

कस्तृतीयः पादः ? कथमस्य मकारत्वम् ? किञ्च तज्ज्ञानिनः फलम् ? इत्यतस्तत्सर्वं क्रमादाह- सुषुप्तस्थान इति ॥

सुषुप्तस्थानः प्राज्ञो मकारस्तृतीया मात्रा ।

मितेरपीतेर्वा मिनोति ह वा इदं सर्वमपीतिश्च भवति य एवं वेद ॥ ३ ॥

सुषुप्तस्थानस्तृतीया मात्रा आत्मनस्तृतीयोंऽशः प्राज्ञः मकारो ‘म’ इत्याक्रियमाणः । कुतः ? मितेरपीतेर्वा । स्वात्मनि जीवमन्तर्गमयतीति स्वान्तर्गमनहेतोर्वा, वृत्तिज्ञानस्यापीतेरप्ययशब्दितलयकरणाद्वा ‘म’ इत्याक्रियत इत्यर्थः । योऽधिकारी एवं निमित्तद्वययुक्तत्वेन मकारवाच्यं प्राज्ञं वेद, स ज्ञानी इदं सर्वं यथायोग्यं जगन्मिनोति स्वान्तर्गमयति । जीवानामत्वेऽप्यधिकारिणः सूर्यादेरिव प्रकाशतो व्याप्तिरस्तीति तन्मध्येऽन्तर्गमयति मुक्तः सन्निति भावः । अपीतिश्च भवति अप्ययकृच भवति, दुःखाद्यनिष्टस्येत्यर्थः ॥ ३ ॥

एवं रूपत्रयं प्रणवगताकारादिवर्णत्रयप्रतिपाद्यमुक्त्वा चतुर्थं रूपममात्रश्चतुर्थम् इत्यादिनाऽग्रे विवक्षुः प्रागुक्तरूपत्रयज्ञानिनो यानि फलान्युक्तानि तत्र ब्रह्मदृष्टश्लोकान् प्रमाणयति - तत्रैत इति ॥

तत्रैते श्लोका भवति ।

विश्वस्यात्वविवक्षायामादिसामान्यमुत्कटम् ।

मात्रासम्प्रतिपत्तौ स्यादाप्तिसामान्यमेव च ॥ ४ ॥

तत्र रूपत्रयज्ञानिफले एते वक्ष्यमाणश्लोकाः संवादिनो भवन्ति । क्रमेण तान् मन्त्रान् पठति- विश्वस्येति ॥ अत्वविवक्षायामिति विवक्षापदेनोपासनं ग्राह्यम् । आदिमत्त्वाद्वेत्यत्रोक्तदिशा आदिमत्त्वनिमित्तेन प्रणबैक- देशाकारवाच्यत्वोपासनायां सत्यामुपासकस्यादिसामान्यम् आदि- श्वेत्यत्रोक्तदिशाऽऽदिमत्त्वसामान्यम् आदिमत्त्वेन विश्वसाम्यं भवति । उत्कटं स्पष्टमेतत् । ‘तं यथा यथोपासते तदेव भवति’ इत्यादेरिति भावः । मात्रासम्प्रतिपत्तौ आत्मनोंऽशो विश्वः, आप्तिनिमित्तेन प्रणवांशाकारार्थ इति विश्वरूपांशध्याने ध्यातुराप्तिसामान्यमेव स्यात् । सर्वकामावास्या च विश्वसाम्यमेव भवेदित्यर्थः ॥ ४ ॥

तैजसस्योत्वविज्ञाने उत्कर्षो दृश्यते स्फुटम् ।

मात्रासम्प्रतिपत्तौ स्यादुभयत्वं तथाविधम् ॥ ५॥

तेजसस्योत्वविज्ञाने प्रागुक्तरीत्योत्कर्षोनिमित्तेन प्रणवैकदेशोकार- वाच्यत्वोपासनायां तस्योपासकस्योत्कर्षतीत्यत्रोक्तदिशा स्फुटमुत्कर्षो दृश्यते प्रमाणप्रमित इत्यर्थः । मात्रासम्प्रतिपत्तौ प्रागुक्तदिशोभयहेतुत्व- निमित्तेन प्रणवांशोकारवाच्यत्वेनाऽत्मांशतैजसध्याने तस्य ध्यातुस्तथाविधं प्रागुक्तज्ञानसन्ततिरूपं समानत्वं चेत्युभयत्वं स्यादित्यर्थः ॥ ५ ॥

मकारभावे प्राज्ञस्य मानसामान्यमुत्कटम् ।

मात्रासम्प्रतिपत्तौ तु लयसामान्यमेव च ॥ ६ ॥

प्राज्ञस्य मकारभावे मकारत्वे प्रागुक्तमितिरूपनिमित्तेन प्रणवैकदेश- ‘म’वर्णवाच्यत्वे विज्ञाते सति मानसामान्यं सर्वान्तर्भावरूपमानेन प्राज्ञसाम्यमुत्कटं स्फुटमित्यर्थः । मात्रासम्प्रतिपत्तौ बाह्यादिज्ञानलयकृत्त्व- निमित्तेन प्रणवांशमकारवाच्यत्वेनाऽत्मांशप्राज्ञध्याने तु ध्यातुर्लयसामान्यं दुःखादिलयकृत्त्वेन प्राज्ञसाम्यमेव च स्यादित्यर्थः ॥ ६ ॥

विश्वादिरूपाणामत्वोत्वमकारभावज्ञानिनो यदादिसामान्यादिफलमुक्तं तद्द तद्धारडाय विश्वादेरत्वादिज्ञानिन आदिसामान्यादिकं फलमिति यो जानाति तस्याप्यस्ति फलमित्याह- त्रिष्विति ॥

त्रिषु धामसु यत् तुल्यं सामान्यं वेत्ति निश्चितम् ।

स पूज्यस्सर्वभूतानां वन्द्यश्चैव महामुनिः ॥ ७ ॥

त्रिषु धामसु त्रिषु रूपेषूक्तविधया ध्यातेषु सत्सु ध्यातुः पुरुषस्य यत् तुल्यं ध्येयविश्वादिसदृशम् आदिमत्त्वादिसामान्यं तद् भवतीति निश्चितं यथा तथा वेत्ति स वेदिता महामुनिः सर्वभूतानां पूज्यो वन्द्यश्चैव भवतीत्यर्थः ॥ 6 ॥

विश्वादिरूपोपासकानां सर्वकामावात्यादिफलमुक्तं प्राक् । इदानीं विश्वादिप्राप्तिरूपफलं चाऽऽह - अकार इति ॥

अकारो नयते विश्वमुकारश्चापि तैजसम् ।

मकारश्च पुनः प्राज्ञं नामात्रे विद्यतेऽगतिरिति ॥ ८ ॥

॥ इति तृतीयः खण्डः ! ।

अ इत्याक्रियमाणो विश्वः स्वात्मोपासकं विश्वं स्वात्मानं नयते प्राप- यति । ‘उकारश्चापि तैजसम्’ इत्यादौ नयत इत्यनुकर्षः । प्राग्वद् व्याख्या । ‘पुनः प्राज्ञम्’’ इति पुनः शब्दः प्रत्यहं सुप्तौ प्राप्तिसत्त्वेऽपि स्थानविशेषे मुक्तौ तत्प्राप्त्यभिप्रायेणेति ज्ञेयम् । तुरीयोपासकस्य कथमित्यतस्तस्यापि तत्प्राप्तिरस्तीत्याह - नामात्र इति ॥ अमात्रेऽनंशे । विश्वतैजसयोः प्राज्ञेन प्रतिदिनम् एकीभावो विभागश्चास्तीति मात्रा - त्वम् । तुरीयस्य तु तन्नेत्यमात्र इत्युच्यते । तुरीयः । अमात्रे चतुर्थे अगतिस् तत्प्राप्त्यभावस् तदुपासकस्य न विद्यते, विद्यत एव गतिरित्यर्थः । तुरीयेऽस्ति गतिरिति वक्तव्ये ‘अगतिर्न विद्यते ’ इत्युक्तिर् विश्वादेरिव बाह्यादिव्यवहारकारणत्वं न विद्यते यथा तथा गम्यत्वमपि नेति शङ्कायां तन्निरासार्थमिति ज्ञेयम् ॥ ८ ॥

॥ इति तृतीयः खण्डः ॥