मध्वः

माण्डूक्योपनिषत् भाष्यम् - श्रीमदानन्दतीर्थभगवत्पादविरचितम्

पूर्णानन्दज्ञानशक्तिस्वरूपं नित्यमव्ययम् । चतुर्धा सर्वभोक्तारं वन्दे विष्णुं परं पदम् ।।
मण्डूकरूपिणा वरुणेन चतूरूपो नारायणः स्तूयते ।
ध्यायन् नारायणं देवं प्रणवेन समाहितः । मण्डूकरूपी वरुणस्तुष्टाव हरिमव्ययम् ।। इति पाद्मे ।
ओमित्युक्तं तु यद्ब्रह्म तदक्षरमुदाहृतम् । औतमत्र जगद्यस्मादों तस्मात् भगवान् हरिः ।।
तदिदं गुणपूर्त्यैव सर्वमित्येव शब्दितम् । भाविभूतभवत्कालेष्वेकरूपतया हरिः ।।
सर्वदा नित्य इत्येषा व्याख्योङ्कारस्य कीर्तिता ।। इति बृहत्संहितायाम् ।
ओमित्याक्रियते यस्मादोङ्कारोसावतः परः । सर्वत्वमिति पूर्णत्वं तन्नान्यस्य हरेः क्वचित् ।। इति नैर्गुण्ये ।
सर्वमोङ्कार एवेत्यन्यस्य पूर्णत्वनिवारणम् । त्रिकालातीतत्वं च तस्यैव । प्रकृतेरपि त्रिकालातीतत्वं विद्यत इत्यन्यदिति ‘विशेषणम् ।
परमं यो महद्ब्रह्म’ ‘तदेव ब्रह्म परमं कवीनाम्’ ‘पूर्णमदः पूर्णमिदम्’ इत्यादिषु प्रसिद्धं च ब्रह्मणः पूर्णत्वमित्याह- सर्वं ह्येतत् ब्रह्मेति ।।
श्रीब्रह्मादिसकलदेहेषु स्थित्वादानादिकर्ता योयं कश्चित् प्रतीयते । जीवानामस्वातन्त्र्यदर्शनात् । सोपि स एवेति दर्शयति- अयमात्मा ब्रह्मेति ।
पूर्णस्तु हरिरेवैको नान्यत् पूर्णं कदाचन । विना च प्रकृतिं नान्यत् कालातीतं परात्मनः ।।
कालश्चैव दिशो वेदाः प्रकृत्यात्मान ईरिताः । अभिमानात्तु जीवानां न कालातीतता भवेत् ।।
मुक्तानामपि पूर्वत्र कालसम्बन्ध ईरितः । पूर्णत्वं च सदा विष्णोः प्रसिद्धं सर्ववेदतः ।।
सोयं विष्णू रमाब्रह्मरुद्रानन्तादिगः सदा । आदानादनकर्तृत्वादात्मा तेषामगोचरः ।।
इति मण्डूकरूपी सन् ददर्श वरुणः श्रुतिम् ।। इति हरिवंशेषु ।।1-3।।
चतुर्धावस्थितो देहे परमात्मा सनातनः । वैश्वानरो जागरितस्थानगो गजवक्त्रकः ।।
निर्माता बाह्यसंवित्तेर्जीवानां तदगोचरः । अष्टादशमुखान्यस्य पुमाकाराणि सर्वशः ।।
मध्यमं तु गजाकारं चतुर्बाहुः परः पुमान् । पादौ हस्तिकरो हस्ता इति सप्ताङ्ग ईरितः ।।
स्थूलान् भोगानिन्द्रियैः स शुभान् भुङ्क्ते न चाशुभान् । विश्वं स्थूलं समुद्दिष्टं सर्वगम्यत्वहेतुतः ।।
तत्सम्बन्धी नरोनाशाद् वैश्वानरः उदाहृतः । विनायकस्तु विश्वस्य ध्यानादैद् गजवक्त्रताम् ।।
तथैव तैजसध्यानात् त्रिध्यानादिन्द्र इन्द्रताम् । चतुर्ध्यानाच्च रुद्रत्वं आप जनार्दनात् ।।
एवम्भूतगुणो विष्णुश्चतुरात्मा परात् परः ।। इति महायोगे ।।
जाग्रद्दर्शनसंस्काररूपत्वात् स्वप्नगं तु यत् । प्रविविक्तं तु तज्ज्ञानकारणोन्तज्ञं उच्यते ।। इति वाराहे ।।3-4।।
सुषुप्तं तु तमो ज्ञेयं हरिं प्राप्य तदावृतः । न कामयेन्नैव पश्येज्जीवः स्वात्मतमो विना ।।
कालं च तस्य स्थानस्य पतिः प्राज्ञो हरिः स्वयम् । चित्तस्थो दर्शयेद् यस्मात् तैजसः स्वप्नकृद्धरिः ।।
न बाह्यं ज्ञापयेद्यस्माद् प्राज्ञस्तेन जनार्दनः । एकीभावं व्रजेतां च तेन विश्वस्य तैजसः ।।
एकीभूतस्त्वतः प्राज्ञो घनो जीवस्तमोवृतः । तन्मात्रस्य सकालस्य घनप्रज्ञः प्रदर्शनात् ।। इति प्रकाशिकायाम् ।
आनन्दमयः पूर्णानन्दः । चेतोमुखः ज्ञानस्वरूपमुखः । प्रज्ञानघन इति विपरीतसमासः । घनप्रज्ञ इति वक्ष्यमाणत्वात् । विषयभोगं
विनानन्दमात्रभुक्त्वादानन्दभुगिति विशेषः । आनन्दमयचेतोमुखसर्वज्ञत्वसर्वेश्वरत्वादिचतुष्टयेपि समम् । अन्यत्रातिदेशार्थमेकत्रानन्दमयत्वं
चेतोमुखत्वं चोक्तम् । एष चतूरूप आत्मा सर्वज्ञत्वसर्वेश्वरत्वादिलक्षणः ।।
परमात्मा चतूरूपः सर्वप्राणिशरीरगः । विश्वश्च तैजसः प्राज्ञस्तुरीयश्चेति कथ्यते ।।
तानि रूपाणि सर्वाणि पूर्णानन्दमयानि तु । चेतोमुखानि सर्वाणि पूर्णज्ञानस्वरूपतः ।।
मुखशब्दस्तु सर्वस्य देहस्याप्युपलक्षणः । तथापि मुखशब्दोयं पूर्णत्वं सूचयेद् विभोः ।।
ज्ञानस्य मुख्यवाचित्वान्मुखवाच्यपि सन् स्वतः ।। इति मार्कण्डेये ।।
पूर्णानन्दस्वरूपस्य क्रीडा भोगो न चान्यथा । यथादित्यस्य दीपेन न विशेषोस्ति कश्चन ।। इति ब्रह्मतर्के ।
प्रमाणस्य प्रमाणं च बलवत् विद्यते मुने । ब्रह्मदृष्टान् यतो मन्त्रान् प्रमाणं सिललेश्वरः ।।
अत्र श्लोका भवन्तीति चकारैव पृथक् पृथक् ।। इति गारुडे ।
खण्डचतुष्टयेपि पृथक् पृथक् ।
प्रभवः सर्वभावानां विष्णुरेव न संशयः । इत्थं सतां निश्चयः स्यादन्यथा त्वसतां भवेत् ।।
सर्वस्य हि प्रणेतृत्वात् प्राणो नारायणः परः ।।
तां सृष्टिं बहुधा प्राहुर्ज्ञानिनोज्ञानिनस्तथा । विष्णुर्विकृतिमायाति महदिस्वरूपिणीम् ।।
तत्तद्विविधभूतिस्तु सृष्टिः प्रोक्ता ह्यपण्डितैः । स्वप्नप्रमायास्वरूपां च केचिदज्ञाः जना विदुः ।।
अविकारस्य चिन्मात्रस्वेच्छयैवाखिलं जगत् । उत्पद्यत इति प्राज्ञाः प्राहुबर्‌रह्मादयोखिलाः ।।
पूर्णशक्तेः कुतो माया सार्वज्ञात् स्वप्नवत् कुतः । सर्वदोषव्यतीतस्य विकारः कुत इष्यते ।।
तस्मादेवाविकारस्य विष्णोरिच्छावशादिदम् । यथार्थमेव सम्भूतमिति वेदवचोखिलम् ।।
केचित् कालत एवैतां सृष्टिमाहुरकोविदाः । केचिद्रुद्राद् ब्रह्मणश्च प्रधानादिति चापरे ।।
विमूढाः सर्व एवैते यतो नारायणः परः । सर्वकर्ता सर्वशक्तिरेक एव न चापरः ।।
प्रधानकालब्रह्मेशमुखाः सर्वेपि तद्वशाः । तस्यापि विष्णोः सृष्टिं तु केचिदाहुरनैपुणाः ।।
अतृप्तस्यैव भोगार्थं क्रीडार्थं तु विपश्चितः । सा च क्रीडा स्वभावोस्य कुतोतृप्त्या स्पृहा विभोः ।।
इति प्रथमखण्डः ।।
विष्णुस्तुरीयरूपेण द्वादशान्ते व्यवस्थिता । मुक्तानां प्राप्यरूपोसौ व्यवहारे न दृश्यते ।।
सम्यक् समाहितानां तु प्राप्तानां षोडशीं कलाम् । अपरोक्षदृशां क्वापि तुरीयं दृश्यते पदम् ।।
अन्तर्बहिश्च सौप्तं च समाधिज्ञानमेव च । बहिः शब्दादिकं जानन् पश्यन् स्वप्नं तथैव च ।।
यदा भवति सावस्था ह्युभयज्ञानशब्दिता । एतत्सर्वं तुरीयेण रूपेण न करोत्यजः ।।
सर्वज्ञानप्रदश्चापि मुक्तस्यैव तुरीयकः ।। इति ब्रह्माण्डे ।
अमुक्तस्य त्वदृश्यत्वात् षोडशी वा कलामृते । तुरीयोदृष्ट इत्युक्तो ग्रहणादेरगोचरः ।।
विना मुक्तिं यतस्तेनाव्यवहार्यं इतीरितः । जाग्रदादिप्रवृत्तिस्तु लक्षणं ह्यनुमापकम् ।।
अलक्षणस्तद्राहित्यादचिन्त्यस्तत एव च । तत एव ह्यनिर्देश्यश्चिदानन्दैकलक्षणः ।।
मुक्तस्य सर्वव्यापारहेतुरेव तुरीयकः । एकः प्रधान उद्दिष्ट आत्मा पूर्णत्वतः श्रुतः ।।
तदेवास्य स्वरूपं यदैकात्म्यं तेन कीर्तितः । प्रत्ययो ज्ञानरूपत्वात् सार आनन्दरूपतः ।।
प्रपञ्चो विस्तृतेर्विष्णुः शम आनन्दरूपतः । उत्कृष्टानन्दरूपत्वादुपशब्दः प्रकीर्तितः ।।
प्रपञ्चं देहबन्धाख्यं तुरीयः शमयेद्यतः । प्रपञ्चोपशमस्तेनाप्युक्तः स भगवान् प्रभुः ।।
निर्दुःखसुखरूपत्वाच्छिवशब्दः श्रुतौ श्रुतः । अन्यथाप्रत्ययो द्वैतं शमयेत् तं यतो हरिः ।।
अद्वैतस्तेन चोद्दिष्टस्तुरीयः पुरुषोत्तमः ।। इति माहात्म्ये ।।
अपेक्ष्य वस्तुयाथार्थ्यं द्वित्वमन्यस्वरूपया । इण् गताविति धातोश्च तज्ज्ञानं द्वैतमुच्यते ।। इति सङ्कल्पे ।
‘स आत्मा स विज्ञेयः’ इति सोयमात्मा चतुष्पादिति चतुर्धा विभक्त उच्यते उपसंहारार्थम् । ‘सोयमात्माध्यक्षरम्’ इति पृथगारम्भात् ।
विश्वादिरूपो यस्त्वात्मा स विज्ञेयो मुमुक्षुभिः । निर्विशेषोपि भगवांश्चतुर्धा समुदीरितः ।। इति प्रत्यये ।
सर्वदुःथानां निवृत्तेः कारणभूतस्तुरीयो देवः । हरिस्तुरीयरूपेण मोक्षदः सम्प्रकीर्तितः ।।
देवः स सर्वजीवानां गम्यत्वात् समुदीरितः । भावाः जीवाः समुद्दिष्टा भवन्त्येते यतो विभोः ।।
ईशानामपि मुक्तानां ईशानः सोननाच्छ्रुतः ।। इति प्रत्याहारे ।
कार्यकारणबन्धस्य तदधीनत्वतो विभुः । विश्वादिरूपो भगवान् बद्ध इत्युच्यते श्रुतौ ।।
कुतो बन्धः परस्यास्य बन्धेशस्य चिदात्मनः ।। इति च ।
‘स बद्धः स दुःखी स बन्धयति स दुःखयतीति । स जीवः स प्रकृतिः स जीवयति स प्रकरोतीति । सोवरः सोनित्यः सोवरयति सोनित्ययति’ इति
कौण्डिन्यश्रुतिः ।
विष्णोर्गुणोक्तिपरता मम नित्यं सुरेश्वराः । तदर्थमन्यद्वचनमतस्तस्य विरोधि यत् ।।
तन्ममार्थो न हि क्वापि साहं तत्सरणात् सदा । सरस्वतीति सम्प्रोक्ता तस्माज्ज्ञेया गुणा हरेः ।। इति महोपनिषदि ।।
नात्मानं न परांश्चैव न सत्यं नापि चानृतम् । प्राज्ञः संवेदयेत् किञ्चिज्जीवकालतमो विना ।।
सुप्त्यवस्थां सुखं चापि विना नान्यत् प्रदर्शयेत् । सर्वं तु दर्शयेन्मुक्तौ तुरीयः परमेश्वरः ।। इति प्रत्यये ।
स्वतन्त्रे कर्तृशब्दः स्यात् प्राज्ञस्यावेदनं यथा । सर्वप्रदर्शके चैव तुरीये सर्वदर्शनम् ।। इति ब्रह्मतर्के ।
निद्रायुतास्तु विश्वाद्यास्तदधीना यतो हि सा । यथा भृत्ययुतः स्वामी न ह्यज्ञानं परात्मनः ।। इति च ।
अभेदमपि तद्ब्रह्म बहुरूपं विशेषतः । करोति न करोतीति व्यवहार्यं स्वशक्तितः ।। इति च ।
न संवेदयतीत्यस्वीकारे ‘तुर्यं तत्सर्वदृक् सदा’ ‘द्वैतस्याग्रहणं तुल्यमुभयोः प्राज्ञतुर्ययोः’ इति च विरुद्धम् । द्वैतग्रहणाकारणत्वं तुल्यमित्यर्थः ।
द्वैतं न ग्राहयेत् तुर्यो न च प्राज्ञः कथञ्चन । द्वैतग्रहणबीजं तु निद्रा प्राज्ञं समाश्रिता ।। इति प्रकटश्रुतिः ।
विपरीतज्ञानादपि विपरीतज्ञानान्तरं जायते ।
अनादिमायया विष्णोरिच्छया स्वापितो यदा । तया प्रबोधमायाति तदा विष्णुं प्रपश्यति ।। इति प्रकाशिकायाम् ।।
तन्वा स्वस्वामिसम्बन्धः प्रपञ्चो शरीरिणः । वस्तुतोसौ न चैवास्ति परमस्य वशे यतः ।।
तन्त्रादिकस्तथाप्येष ह्यभिमानात् प्रदृश्यते । अतः स विद्यत इति ह्यङ्गीकारो भवेद्यदि ।।
तथापि भगवज्ज्ञानात् स निवर्तेदसंशयम् ।। इति ब्रह्मतर्के ।
अद्वैतमनन्यथा ज्ञातं परब्रह्मादि वस्तु । द्वैतं द्विधा ज्ञातमन्यथा ज्ञातमज्ञैः । परमार्थतः परमेश्वरात् । तस्यैव मायामात्रं तदिच्छया निर्मितम् ।
तदन्यथाज्ञानं तस्मात् तदिच्छयैव निवर्तते ।
परेण ब्रह्मणा यत्तु द्विधा न ज्ञानमञ्जसा । तदद्वैतं परं ब्रह्म तदेव ज्ञातमन्यथा ।।
जीवेन द्वैतमुद्दिष्टं मिथ्याज्ञानं तदेव च । परमार्थात् पराद् विष्णोर्जातमिच्छावशादनु ।।
मायेतीच्छा समुद्दिष्टा मायामात्रं तदुद्भवम् । उत्तमत्वात् परार्थोसौ भगवान् विष्णुरव्ययः ।। इति च ।
अनन्यथा इतमवगतमद्वैतम् (?) । द्वैतं वस्तुस्वरूपापेक्षया द्विधा ह्यन्यथा ज्ञातमित्यर्थः । अतो विकल्पः शरीरादिसम्बन्धः केनचिदज्ञानादिना
कारणेन कल्पितोप्युपदेशान्निवर्तते । अयं सतां वाद ज्ञाते सति ब्रह्मणि द्वैतमन्यथाज्ञानं निवर्तते इति ।।
विकल्पो देहबन्धादिः केनचित् कारणेन तु । कल्पितो विनिवर्तेत गुरुवाक्यादसंशयः ।।
एष एव सतां वादो ज्ञाते ब्रह्मणि तत्त्वतः । निवर्ततेन्यथाज्ञानं तत आनन्दमेत्यसौ ।। इति च ।
इति द्वितीयखण्डः ।।
अधिकं सर्वतोविनाशि चेत्यध्यक्षरम् । अधिका एव मात्रा अंशा यस्य तदधिमात्रम् । अ इत्यनेनाभिधानेनाक्रियत इत्यकारः । तत्र पूवोक्तो
वैश्वानरः प्रथमा मात्रेत्याद्यनुवादः । अकार इत्यादिकं विधेयम् । प्राज्ञस्तैजसश्चादिरस्येत्यादिमात्रम् । सुप्तेरुत्थाने प्राज्ञाद्विभक्तो भवति विश्वः ।
स्वप्नादुत्थाने तैजसात् । आदिश्चास्योपासकस्य भवति ।।1-2।।
शरीराभिमानादुत्थाप्य कर्षतीत्युत्कर्षः । निद्रा विषयानुभवश्चानेन क्रियत इत्युभयत्वम् । समानः सर्वेषां मध्यस्थो भवति ।।3।।
मितेरन्तर्गमनात् ।
अधिकत्वाच्च नित्यत्वादध्यक्षरमुदाहृतः । येंशास्तस्य तु सर्वेपि पूर्णाः प्रत्येकशो विभोः ।।
अतोधिमात्रमुद्दिष्टो मात्रा अंशा उदाहृताः । श्रुतः स विष्णुरोङ्कार ओमित्याक्रियते यतः ।।
आद्यस्तदंशो ह्याप्तिः स्याद् विषयानापयेद्यतः । जीवस्य तु यतः प्राज्ञात् तैजसाद्वा समुत्थितिः ।।
अविभागोपि भगवानादिमांस्तेन कीर्तितः । तस्मादुत्पद्यते मुक्तस्तज्ज्ञानानन्दलक्षणः ।।
आप्नोति विषयान् सर्वान् निद्राया विषयस्य च । उभयोः कारणत्वेन ह्युभयस्तैजसः श्रुतः ।।
देहाभिमानादुद्धृत्य कर्षति स्वप्नमण्डले । उत्कर्षत्वं ततस्तस्य तज्ज्ञानी ज्ञाननित्यताम् ।।
आप्नोति देहादुत्कृष्य स्वात्मानं सर्वमोक्षिणाम् । मध्यस्थश्च भवेत् स्नेहाद्दोषाभावाच्च सर्वशः ।।
स्वात्मन्यन्तर्गमयति मानमन्तर्गतिः स्मृता । जीवमन्तर्गतं कृत्वा तज्ज्ञानलयकृद् यतः ।।
प्राज्ञो मानमपीतिश्च तज्ज्ञोप्येवं विमुक्तिगः । व्याप्त्यान्तर्गमयेत् सर्वं दुःखाद्यं तु विलापयेत् ।।
अणूनामपि जीवानां प्रकाशो व्यापको भवेत् । अण्डमात्रे बहिश्चापि देवतानां यथाक्रमम् ।।
अतोन्तर्गतं मुक्तौ जीवेषु जगतो भवेत् ।। इति ब्रह्मतर्के ।।4।।
मात्रासम्प्रतिपत्तौ अंशध्याने । आदिमत्वं विश्वस्य विद्यते । तदुपासकस्यापि भवतीत्यादि सामान्यम् ।
अमात्रेप्यगतिर्न विद्यते । प्रतिदिवसं विभाग एकीभावश्च विद्यते विश्वादीनाम् । तुरीयस्य तन्न विद्यत इत्यमात्रः । विश्वादीनां व्यवहारकारणत्वं
विद्यते । तुरीयस्य तन्न विद्यत इत्यतो गम्यत्वमपि नास्तीत्याशङ्कां निवर्तयति । ‘अगतिर्न विद्यते’ इति । ‘आत्मानं संविशति’ इति गतिवचनात् ।
आदिमत्त्वेन सामान्यमुपास्येन भवेदिति । उपासकस्य सञ्जानन् सर्ववन्द्यो भवेत् पुमान् ।।
सामान्यत्रयमप्येतत् तुल्यं मुक्तिगतत्वतः । अमात्रत्वं तुरीयस्याप्यविभागाद् दिने दिने ।।
जाग्रदादेरकर्तापि गम्योसौ ज्ञानिनां भवेत् ।। इति च ।
आदिमत्त्वादिसामान्यं तुल्यं मोक्षोपभोग्यतः । अमात्रत्वं तुरीयस्याप्यविभागाद्दिने दिने ।। इत्यात्मसंहितायाम् ।।
इति तृतीयखण्डः ।।
आत्मैव भूत्वान्याभिमानं त्यक्त्वा परमात्मनैव परमात्मानं प्रविशत्युपासकः । अव्यवहार्यत्वादिकमात्र साम्यमिति दर्शयितुं
पुनरप्युक्तमव्यवहार्यत्वादिकम् ।।1।।
तुरीयं नादनामानं हरिं ज्ञात्वा परं पदम् । तमेव प्रविशेच्छुद्धरूपी तत्सदृशात्मवान् ।।
ज्ञानानन्दौ च शक्तिश्च तथापि न समाः क्वचित् । विमुक्तस्यापि जीवस्य पारतन्त्र्यं च नित्यदा ।।
चतूपूपस्यास्य विष्णोर्नाम प्रणव इत्यपि । जाग्रदादिप्रणयनात् स एव ब्रह्म बृंहणात् ।।
ओमित्याक्रियमाणत्वादोङ्कारः सम्प्रकीर्तितः । आदिमत्वादयो ह्यर्था ओमित्यस्य श्रुतौ श्रुताः ।।
अपूर्वः कारणाभावान्नाशाभावादनन्तरः । पराधीनस्थित्यभावादनपर उदाहृतः ।।
सर्वगत्वादबाह्यश्च तं ज्ञात्वा प्रविमुच्यते ।। इति च ।।
परत्वमपरत्वं च विष्णोरेकस्य वै यदा । श्रूयते न तु सामर्थ्यभेदस्तत्र कथञ्चन ।।
अवतारस्य पूर्वत्वात् पौर्वापर्यमुदाहृतम् ।। इति ब्रह्मतर्के ।
पूर्वावतारे पश्चिमावतारेपि पूर्ण एवेति प्रणवो ह्यपरं ब्रह्मेत्यादेरर्थः ।।
एकोपि निर्विशेषोपि चतुर्धा व्यवहारभाक् । यस्तं वन्दे चिदानन्दं विष्णुं विश्वादिरूपिणम् ।।
इति चतुर्थखण्डः ।।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितं माण्डूक्योपनिषद्भाष्यम् ।।

माण्डूक्योपनिषत्

ओमित्येदक्षरमिदं सर्वम् । तस्योपव्याख्यानं भूतं भवद् भविष्यदिति ।।1।।
सर्वमोङ्कार एव । यच्चान्यत् त्रिकालातीतं तदप्योङ्कार एव । सर्वं ह्येतद् ब्रह्म । अयमात्मा ब्रह्म ।।2।।
सोयमात्मा चतुष्पात् । जागरितस्थानो बहिःप्रज्ञः । सप्ताङ्ग एकोनविंशतिमुखः स्थूलभुग् वैश्वानरः प्रथमः पादः ।।3।।
स्वप्नस्थानोन्तप्रज्ञः । सप्ताङ्गः एकोनविंशतिमुखः प्रविविक्तभुक् तैजसो द्वितीयः पादः ।।4।।
यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति तत् सुषुप्तम् । सुषुप्तस्थान एकीभूतः प्रज्ञानघन एवानन्दमयो ह्यानन्दभुक् चेतोमुखः
प्राज्ञस्तृतीयः पादः ।।5।।
एष सर्वेश्वरः एष सर्वज्ञः एषोन्तर्यामी । एषः योनिः सर्वस्य प्रभवाप्ययौ हि भूतानाम् ।।6।।
तत्रैते श्लोका भवन्ति ।
बहिःप्रज्ञो विभुर्विश्वो ह्यन्तःप्रज्ञस्तु तैजसः । घनप्रज्ञस्तथा प्राज्ञ एक एव त्रिधा स्मृतः ।।7।।
दक्षिणाक्षिमुखे विश्वो मनस्यन्तस्तु तैजसः । आकाशे च हृदि प्राज्ञस्त्रिधा देहे व्यवस्थितः ।।8।।
विश्वो हि स्थूलभुक् नित्यं तैजसः प्रविविक्तभुक् । आनन्दभुक् तथा प्राज्ञस्त्रिधा भोगं निबोधत ।।9।।
स्थूलं तर्पयते विश्वं प्रविविक्तं तु तैजसम् । आनन्दं च तथा प्राज्ञं त्रिधा तृप्तिं विजानथ ।।10।।
त्रिषु धामसु यद् भोज्यं भोक्ता यश्च प्रकीर्तितः । वेदैतदुभयं यस्तु स भुञ्जानो न िलप्यते ।।11।।
प्रभवः सर्वभावानां सतामिति विनिश्चयः । सर्वं जनयति प्राणश्चेतोंशून् पुरुषः पृथक् ।।12।।
विभूतिं प्रसवं त्वन्ये मन्यन्ते सृष्टिचिन्तकाः । स्वप्नमायासरूपेति सृष्टिरन्यैर्विकल्पिता ।।13।।
इच्छामात्रं प्रभोः सृष्टिरिति सृष्टौ विनिश्चिताः । कालात् प्रसूतिं भूतानां मन्यन्ते कालचिन्तकाः ।।14।।
भोगार्थं सृष्टिरित्यन्ये क्रीडार्थमिति चापरे । देवस्यैषः स्वभावोयमाप्तकामस्य का स्पृहेति ।।15।।
इति प्रथमः खण्डः ।।
नान्तःप्रज्ञं न बहिःप्रज्ञं नोभयतः प्रज्ञं न प्रज्ञानघनं नप्रज्ञं नाप्रज्ञमदृष्टं अव्यवहार्यं अलक्षणं अचिन्त्यं अव्यपदेश्यं ऐकात्म्यप्रत्ययसारं
प्रपञ्चोपशमं शिवमद्वैतं चतुर्थं मन्यन्ते । स आत्मा स विज्ञेयः ।।1।। अत्रैते श्लोकाः भवन्ति ।
निवृत्तेः सर्वदुःखानामीशानः प्रभुरव्ययः । अद्वैतः सर्वभावानां देवस्तुर्यो विभुः स्मृतः ।।2।।
कार्यकारणबद्धौ ताविष्येते विश्वतैजसौ । प्राज्ञः कारणबद्धस्तु द्वौ तु तुर्ये न सिद्ध्यतः ।।3।।
नात्मानं न परांश्चैव न सत्यं नापि चानृतम् । प्राज्ञः किञ्चन संवेत्ति तुर्यं तत् सर्वदृक् सदा ।।4।।
द्वैतस्याग्रहणं तुल्यमुभयोः प्राज्ञतुर्ययोः । बीजनिद्रायुतः प्राज्ञः सा च तुर्ये न विद्यते ।।5।।
स्वप्ननिद्रायुतावाद्यौ प्राज्ञस्त्वस्वप्ननिद्रया । न निद्रां नैव च स्वप्नं तुर्य पश्यन्ति निश्चिताः ।।6।।
अन्यथागृह्यतः स्वप्नो निद्रा तत्त्वमजानतः । विपर्यासे तयोः क्षीणे तुरीयं पदमश्नुते ।।7।।
अनादिमायया सुप्तो यदा जीवः प्रबुद्ध्यते । अजमनिद्रमस्वप्नमद्वैतं बुद्ध्यते तदा ।।8।।
प्रपञ्चो यदि विद्येत निवर्तेत न संशयः । मायामात्रमिदं द्वैतमद्वैतं परमार्थतः ।।9।।
विकल्पो विनिवर्तेत कल्पितो यदि केनचित् । उपदेशादयं वादो ज्ञाते द्वैतं न विद्यते ।।10।।
।। इति द्वितीयः खण्डः ।।
सोयमात्माध्यक्षरमोङ्कारोधिमात्रं पादा मात्रा अकार उकारो मकार इति ।।1।।
जागरितस्थानो वैश्वानरोकारः प्रथमा मात्रा । आप्तेरादिमत्त्वाद् वा । आप्नोति ह वै सर्वान् कामानादिश्च भवति । य एवं वेद ।।2।।
स्वप्नस्थानस्तैजस उकारो द्वितीया मात्रा । उत्कर्षादुभयत्वात् वा । उत्कर्षति ह वै ज्ञानसन्ततिं समानश्च भवति नास्याब्रह्मवित् कुले भवति ।
य एवं वेद ।।3।।
सुषुप्तस्थानः प्राज्ञो मकारस्तृतीया मात्रा । मितेरपीतेर्वा । मिनोति ह वा इदं सर्वमपीतिश्च भवति । स एवं वेद ।।4।।
अत्रैते श्लोकाः भवन्ति ।
विश्वस्यात्वविवक्षायामादिसामान्यमुत्कटम् । मात्रासम्प्रतिपत्तौ स्यादाप्तिसामान्यमेव च ।।5।।
तैजसस्योत्वविज्ञान उत्कर्षो दृश्यते स्फुटम् । मात्रासम्प्रतिपत्तौ स्यादुभयत्वं तथाविधम् ।।6।।
मकारभावे प्राज्ञस्य मानसामान्यमुत्कटम् । मात्रासम्प्रतिपत्तौ तु लयसामान्यमेव च ।।7।।
त्रिषु धामसु यत् तुल्यं सामान्यं वेत्ति निश्चितम् । स पूज्यस्सर्वभूतानां वन्द्यश्चैव महामुनिः ।।8।।
अकारो नयते विश्वमुकारश्चापि तैजसम् । मकारश्च पुनः प्राज्ञं नामात्रे विद्यतेगतिरिति ।।9।।
।। इति तृतीयः खण्डः ।।
अमात्रश्चतुर्थोव्यवहार्यः प्रपञ्चोपशमः शिवोद्वैतः ओङ्कार आत्मैव संविशत्यात्मनात्मानं य एवं वेद ।।1।।
अत्रैते श्लोकाः भवन्ति ।
ओङ्कारं पादशो विद्यात् पादा मात्रा न संशयः । ओङ्कार पादशो ज्ञात्वा न किञ्चिदपि चिन्तयेत् ।।2।।
युञ्जीत प्रणवे चेतः प्रणवो ब्रह्म निर्भयम् । प्रणवे नित्ययुक्तस्य न भयं विद्यते क्वचित् ।।3।।
प्रणवो ह्यपरं ब्रह्म प्रणवस्य परं स्मृतः । अपूर्वोनन्तरोबाह्योनपरः प्रणवोव्ययः ।।4।।
सर्वस्य प्रणवो ह्यादिर्मध्यमन्तन्तथैव च । एवं हि प्रणवं ज्ञात्वा व्यश्नुते तदनन्तरम् ।।5।।
प्रणवं हीश्वरं विद्यात् सर्वस्य हृदये स्थितम् । सर्वव्यापिनमोङ्कारं मत्वा धीरो न शोचति ।।6।।
अमात्रोनन्तमात्रश्च द्वैतस्योपशमः शिवः । ओङ्कारो विदितो येन स मुनिर्नेतरो जनः । स मुनिनेतरो जन इति ।।7।।
इति चतुर्थः खण्डः ।।
इति श्रीमाण्डूक्योपनिषत् ।।