अथर्ववेदप्रायश्चित्तम्

[[अथर्ववेदप्रायश्चित्तम् Source: EB]]

[

Aथर्ववेदप्रयस्चित्तनि
Bअसेद् ओन् थे एद्.: Aथर्वप्रायश्चित्तानि, Tएxत् मित् Aन्मेर्कुन्गेन्
वोन् Pरोf. Jउलिउस् वोन् Nएगेलेइन्, Uनिवेर्सित्य् ओf Kओएनिग्स्बेर्ग्, Gएर्मन्य्.
Pउब्लिस्हेद् इन् JAOS ३३ [१९१३], ७१-१४४ (तेxत्); २१७-२५३ (इन्दिचेस् अन्द् चोर्रिगेन्द);
३४ [१९१४], २२९-२७७ (प्रेfअचे अन्द् इन्त्रोदुच्तिओन्).

Eलेच्त्रोनिच् Tएxत् प्रेपरेद् (२००६-०७) ब्य् Aर्लो Gरिffइथ्स् इन् चोल्लबोरतिओन् wइथ् Rएइन्होल्द् Gरुएनेन्दह्ल्.

STRUCTURE OF REFERENCES:
AVPर्_न्.न्ःन्न्/न्न् = Aथर्ववेदप्रायश्चित्तानि_अध्याय.सेच्तिओन्ःपगे/लिने नुम्बेर् (ओf वोन् Nएगेलेइन्ऽस् एदितिओन्)
% प्रेचेदेस् नोतेस् ब्य् Aर्लो Gरिffइथ्स्

THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Tएxत् चोन्वेर्तेद् तो Uनिचोदे (UTF-८).
(Tहिस् fइले इस् तो बे उसेद् wइथ् अ UTF-८ fओन्त् अन्द् योउर् ब्रोwसेर्ऽस् VIEW चोन्fइगुरतिओन्
सेत् तो UTF-८.)

देस्च्रिप्तिओन्ः मुल्तिब्य्ते सेqउएन्चेः
लोन्ग् अ आ
लोन्ग् A Ā
लोन्ग् इ ई
लोन्ग् I Ī
लोन्ग् उ ऊ
लोन्ग् U Ū
वोचलिच् र् ऋ
वोचलिच् R Ṛ
लोन्ग् वोचलिच् र् ॠ
वोचलिच् ल् ऌ
वोचलिच् L Ḷ
लोन्ग् वोचलिच् ल् ॡ
वेलर् न् ङ्
वेलर् N Ṅ
पलतल् न् ञ्
पलतल् N Ñ
रेत्रोfलेx त् ट्
रेत्रोfलेx T Ṭ
रेत्रोfलेx द् ड्
रेत्रोfलेx D Ḍ
रेत्रोfलेx न् ण्
रेत्रोfलेx N Ṇ
पलतल् स् श्
पलतल् S Ś
रेत्रोfलेx स् ष्
रेत्रोfलेx S Ṣ
अनुस्वर ं
विसर्ग ः
लोन्ग् ए ē
लोन्ग् ओ ō
ल् उन्देर्बर् ल्
र् उन्देर्बर् ṟ
न् उन्देर्बर् ṉ
क् उन्देर्बर् ḵ
त् उन्देर्बर् ṯ

Uन्लेस्स् इन्दिचतेद् ओथेर्wइसे, अच्चेन्त्स् हवे बेएन् द्रोप्पेद् इन् ओर्देर्
तो fअचिलितते wओर्द् सेअर्छ्.

Fओर् अ चोम्प्रेहेन्सिवे लिस्त् ओf GRETIL एन्चोदिन्ग्स् अन्द् fओर्मत्स् सेएः
ह्त्त्प्ः//ग्रेतिल्.सुब्.उनि-गोएत्तिन्गेन्.दे/ग्रेतिल्/ग्रेत्दिअच्.प्द्f
अन्द्
ह्त्त्प्ः//ग्रेतिल्.सुब्.उनि-गोएत्तिन्गेन्.दे/ग्रेतिल्/ग्रेत्दिअस्.प्द्f

Fओर् fउर्थेर् इन्fओर्मतिओन् सेएः
ह्त्त्प्ः//ग्रेतिल्.सुब्.उनि-गोएत्तिन्गेन्.दे/ग्रेतिल्.ह्त्म्

(AVPर्_१.१ः७१/१) ओम् नमो ऽथर्ववेदाय \।\।

(AVPर्_१.१ः७१/१-२) अथातो याज्ञे कर्मणि प्रायश्चित्तानि व्याख्यास्यामो विध्य्-अपराधे \।

(AVPर्_१.१ः७१/२-४) सर्वत्र पुनः कार्यं कृत्वोत्तरतः प्रायश्चित्तं प्रायश्चित्तं वा कृत्वोत्तरतः समाधानं \।

(AVPर्_१.१ः७१/४-५) यत् पूर्वं प्रायश्चित्तं करोति गृहैः पशुभिर् एवैनं समर्धयति \।

(AVPर्_१.१ः७१/५-६) यद् उत्तरतः स्वर्गेणैवैनं तल् लोकेन समर्धयति \।

(AVPर्_१.१ः७१-७२/६-१) कथम् अग्नीन् आधायान्वाहार्य श्रपणम् आहरेत् \।

(AVPर्_१.१ः७२/१) कथम् इति \।

(AVPर्_१.१ः७२/१-२) प्राणा वा एते यजमानस्याध्यात्मं निधीयन्ते यद् अग्नयस् \।

(AVPर्_१.१ः७२/२-३) तेषु हुतेषु दक्षिणाग्नाव् आज्याहुतिं जुहुयाद् <अग्नये ऽन्नादायान्नपतये स्वाहा [च्f. PS २०.४३.९, ;SS १९.५५.५]>_इति \।

(AVPर्_१.१ः७२/३-४) कथम् अग्नीन् आधाय प्रवसति \।

(AVPर्_१.१ः७२/४-५) यथैनान् न विरोधयेद् अपि ह शश्वद् ब्राह्मणनिगमो भवति \।

(AVPर्_१.१ः७२/५-६) प्राणान् वा एषो ऽनुचरान् कृत्वा चरति यो ऽग्नीन् आधाय प्रवसतीति \।

(AVPर्_१.१ः७२/६-७) कथम् अग्नीन् आधाय प्रवत्स्यन् प्रोष्य वोपतिष्ठेत \।

(AVPर्_१.१ः७२/७-८) तूष्णीम् एवेत्य् आहुस् \। [एद्. तूष्नीम्]

(AVPर्_१.१ः७२/८) तूष्णीं वै श्रेयांसम् आकाङ्क्षन्ति \।

(AVPर्_१.१ः७२/८-१०) यदि मनसि कुर्वीताभयम् वो ऽभयं मे ऽस्त्व् इत्य् अभयं हैवास्य भवत्य् एवम् उपतिष्ठमानस्य \।\।

(AVPर्_१.१ः७२/१०-११) एकवचनम् एकाग्नौ \।

(AVPर्_१.१ः७२/११-१२) पुरा छायानां संभेदाद् गार्हपत्याद् आहवनीयम् अभ्युद्धरेत् \। [एद्. अब्युद्ध्-]

(AVPर्_१.१ः७२/१२-१३) मृत्युं वै पाप्मानं छायां तरति \।

(AVPर्_१.१ः७२/१३) संप्रैषं कृत्वोद्धराहवनीयम् इति \।

(AVPर्_१.१ः७२/१३-१४) संप्रैषवर्जम् एकाग्नौ \।\। १ \।\।

(AVPर्_१.२ः७२/१४-१७) वाचा त्वा होत्रा प्राणेनाध्वर्युणा चक्षुषोद्गात्रा मनसा ब्रह्मणा श्रोत्रेणाग्नीध्रेणैतैस् त्वा पञ्चभिर् ऋत्विग्भिर् दैव्यैर् अभ्युद्धराम्य् \।

(AVPर्_१.२ः७२/१७-१८) उद्ध्रियमाण उद्धर पाप्मनो मा यद् अविद्वान् यच् च विद्वांश् चकार \।

(AVPर्_१.२ः७२/१८-१९) अह्ना यद् एनः कृतम् अस्ति पापं सर्वस्माद् एनस उद्धृतो मुञ्च तस्माद् इति सायं \।

(AVPर्_१.२ः७२/१९-२०) रात्र्या यद् एनः कृतम् अस्ति पापम् इति प्रातर् \।

(AVPर्_१.२ः७२/२०-२१) अमृताहुतिम् अमृतायां जुहोम्य् अग्निं पृथिव्या अदित्या उपस्थे \।

(AVPर्_१.२ः७२/२१-२२) तयानन्तं लोकम् अहं जयामि प्रजापतिर् यं प्रथमो जिगाय \।

(AVPर्_१.२ः७२-७३/२२-१) अग्निर् ज्योतिर् ज्योतिर् अग्निर् इति सायं \।

(AVPर्_१.२ः७३/१) सूर्यो ज्योतिः ज्योतिः सूर्य इति प्रातर् \।

(AVPर्_१.२ः७३/२) हिरण्यम् अन्तर् धारयेत् \।

(AVPर्_१.२ः७३/२-३) आर्षेयस् तत् पश्यन्न् आहवनीयम् अभ्युद्धरेत् \।

(AVPर्_१.२ः७३/३-४) अथ यस्याहवनीयम् अभ्युद्धृतम् आदित्यो ऽभ्यस्तम् इयात् का तत्र प्रायश्चित्तिर् \।

(AVPर्_१.२ः७३/४-५) दर्भेण हिरण्यं बद्ध्वा पश्चाद् धारयेत् \।

(AVPर्_१.२ः७३/५-६) आर्षेयस् तत् पश्यन्न् अग्निम् आहवनीयम् अभ्युद्धरेत् \।

(AVPर्_१.२ः७३/६-७) अथ यस्याहवनीयम् अभ्युद्धृतम् आदित्यो ऽभ्युदियात् का तत्र प्रायश्चित्तिर् \।

(AVPर्_१.२ः७३/७-८) दर्भेण रजतं बद्ध्वा पुरस्ताद् धारयेत् \। [सेए चोर्रिगेन्द प्. २५१]

(AVPर्_१.२ः७३/८-९) आर्षेयस् तत् पश्यन्न् आहवनीयम् अभ्युद्धरेत् \।

(AVPर्_१.२ः७३/९-१०) अथ यस्य सायम् अहुतम् अग्निहोत्रं प्रातर् आदित्यो ऽभ्युदियात् का तत्र प्रायश्चित्तिर् \।

(AVPर्_१.२ः७३/१०-११) मैत्रः पुरोडाशश् चरुर् वा \।

(AVPर्_१.२ः७३/११-१३) नित्याः पुरस्ताद्धोमाः संस्थितहोमेषु <मित्रः पृथिव्या अध्यक्ष [PS १५.७.१]> इति मध्यत ओप्य संस्रावभागैः संस्थापयेत् \।

(AVPर्_१.२ः७३/१३-१४) अथ यस्य प्रातर् अकृतम् अग्निहोत्रं सायम् आदित्यो ऽभ्यस्तमियात् का तत्र प्रायश्चित्तिर् \।

(AVPर्_१.२ः७३/१४-१५) वारुणः पुरोडाशो नित्याः पुरस्ताद्धोमाः \।

(AVPर्_१.२ः७३/१५-१६) संस्थितहोमेषु <यत् किं चेदं वरुण [PS १९.४३.५, ;SS ६.५१.३]> \।

(AVPर्_१.२ः७३/१६) इति मध्यत ओप्य संस्रावभागैः संस्थापयेत् \।

(AVPर्_१.२ः७३/१७-१८) अथ यस्य प्रातर् अहुतम् अग्निहोत्रम् आदित्यो ऽभ्युदियात् का तत्र प्रायश्चित्तिर् \।

(AVPर्_१.२ः७३/१८) मैत्रः पुरोडाशो नित्याः पुरस्ताद्धोमाः \।

(AVPर्_१.२ः७३/१९-२०) संस्थितहोमेषु <मित्रः पृथिव्या अध्यक्ष [PS १५.७.१]> इति मध्यत ओप्य संस्रावभागैः संस्थापयेत् \।

(AVPर्_१.२ः७३/२०-२१) आहुती वैताभ्याम् ऋग्भ्यां जुहुयात् \।\। २ \।\।

(AVPर्_१.३ः७३/२२-२३) अथ यो ऽग्निहोत्रेणोदेति स्वर्गं वा एष लोकं यजमानम् अभिवहति \।

(AVPर्_१.३ः७३/२३) नाहुत्वावर्तेत \।

(AVPर्_१.३ः७३/२३-२४) स यद्य् आवर्तेत स्वर्गाद् एवैनं तल् लोकाद् आवर्तेत \।

(AVPर्_१.३ः७३-७४/२४-१) अथ यस्याग्निहोत्रं हूयमानं स्कन्देत् का तत्र प्रायश्चित्तिर् \।

(AVPर्_१.३ः७४/१-२) अपरेणाहवनीयं दक्षिणं जान्व् आच्योपविशति \।

(AVPर्_१.३ः७४/२) यत् स्रुच्य् अतिशिष्टं स्यात् तज् जुहुयात् \।

(AVPर्_१.३ः७४/३-५) अथ यत्रैवावस्कन्नं भवति तं देशम् अभिविमृज्य <विमृग्वरीं पृथिवीम् आ वदामि [PS १७.३.९, ;SS १२.१.२९]>_इति प्राङ्मुखो(!)पविश्य_<अग्निर् भूम्याम् [PS १७.२.८, ;SS १२.१.१९]> इति तिसृभिर् आलभ्याभिमन्त्रयेत \।

(AVPर्_१.३ः७४/५-७) अथ चेत् सर्वम् एव स्कन्नं स्याद् यच् चरुस्थाल्याम् अतिशिष्टं स्यात् तज् जुहुयात् \।

(AVPर्_१.३ः७४/५-७) अथाहवनीय आज्याहुतिं जुहुयात् \।

(AVPर्_१.३ः७४/७-८) <यन् मे स्कन्नम् [Kऔश्ऽ ६.१, Vऐत्ऽ १६.१७]> इत्य् एतयर्चा \।

(AVPर्_१.३ः७४/८-१०) <यन् मे स्कन्नं मनसो जातवेदो यद् वा ऽस्कन्दद् धविषो यत्र-यत्र उत्प्रुषो विप्रुसः संजुहोमि सत्याः सन्तु यजमानस्य कामाः स्वाहा [Kऔश्ऽ ६.१]>_इत्य् \।

% नोते चसे ओf प्रतीक/सकलपाठ

(AVPर्_१.३ः७४/१०-११) अथ यस्याग्निहोत्रे ऽमेध्यम् आपद्येत का तत्र प्रायश्चित्तिर् \।

(AVPर्_१.३ः७४/११-१३) अपरेणाहवनीयम् उष्णम् इव भस्म निरूह्य तत्र ताम् आहुतिं जुहुयात् \।

(AVPर्_१.३ः७४/१३) तद् धुतं चाहुतं च भवति \।

(AVPर्_१.३ः७४/१३-१४) यच् चरुस्थाल्याम् अतिशिष्टं स्यात् तज् जुहुयात् \।

(AVPर्_१.३ः७४/१४-१५) अथ चेच् चरुस्थाल्याम् एवामेध्यम् आपद्येत का तत्र प्रायश्चित्तिस् \।

(AVPर्_१.३ः७४/१५-१७) तत् तथैव हुत्वाथान्याम् आहूय दोहयित्वा श्रपयित्वा तद् अस्मै तत्रैवासीनायान्वाहरेयुर् \।

(AVPर्_१.३ः७४/१७-१८) (अथ ऊर्ध्वं प्रसिद्धम् अग्निहोत्रम्) \।

(AVPर्_१.३ः७४/१८-२०) अथ यस्याहवनीयगार्हपत्याव् अन्तरेण यानो वा रथो वा निवर्तेत श्वा वान्यो वाभिधावेत् का तत्र प्रायश्चित्तिर् \।

(AVPर्_१.३ः७५/१-२) मन्त्रवन्ति च कार्याणि सर्वाण्य् अध्ययनं च यत् \। नान्तरागमनं तेषां साधु विछेदनाद् भयम् \।\।

(AVPर्_१.३ः७५/३-४) इति गार्हपत्याद् अध्य् आहवनीय उदतन्तुं निषिञ्चन् इयात् \।\।

(AVPर्_१.३ः७५/४-६) <तन्तुं तन्वन् रजसो भानुम् अन्व् इहि ज्योतिष्मतः पथो रक्ष धिया कृतान् \।\। अनुल्बणं वयत जोगुवाम् अपो \।\। मनुर् भव जनया दैव्यं जनम् \।\। [.RV १०.५३.६ एत्च्.]>

(AVPर्_१.३ः७५-७६/६-१) <तंन्वंस् तन्तुर् उप सेदुर् अग्ने त्वं पथा रजसि देवयानः \। त्वया ऽग्ने पृष्ठं वयम् आरुहेमाधा देवैः सधमादं मदेम \।\।> [च्f. Bऔध्;SS १३.४३ः१५०.८ <त्वं नस् तन्तुर् उत सेतुर् अग्ने><त्वं पन्था भवसि देवयानः><त्वयाग्ने पृष्ठं वयम् आरुहेम [TB.२.४.२.६]><अथा देवैः सधमादं मदेम>]

(AVPर्_१.३ः७६/१-२) स्वाहेति सर्वत्रैतत् प्रायश्चित्तम् अन्तरागमने स्मृतम् \।\।

(AVPर्_१.३ः७६/३) यज्ञस्य संततिर् असि यज्ञस्य त्वा संतत्या संतनोमि \।

(AVPर्_१.३ः७६/४-६) वसूनां रुद्राणाम् आदित्यानां मरुताम् ऋषीणां भृगूणाम् अ"न्गिरसाम् अथर्वणां ब्रह्मणः संततिर् असि ब्रह्मणस् त्वा सम्तत्या संतनोमि \।

(AVPर्_१.३ः७६/६-८) <यन् मे छिद्रं मनसो यच् च वाचः सरस्वती मन्युमन्तम् जगाम विश्वैस् तद् देवैः सह संविदानः सं दधातु बृहस्पतिः [PS १९.३८.६, ;SS १९.४०.१]> \।\। ३ \।\।

(AVPर्_१.४ः७६/८-१०) <मा न आपो मेधां मा ब्रह्म प्रमथिष्टन \। शुष्यदा यूयं स्यन्दध्वम् उपहूतो ऽहं सुमेधा वर्चस्वी [PS २०.६०.३, ;SS १९.४०.२]> \।

(AVPर्_१.४ः७६/१०-१२) <मा नो मेधां मा नो दीक्षां मा नो हिंसिष्टं यत् तपः शिवा नः संस्वंत आयुषे शिवा भवन्तु मातरः [PS २०.६०.४, ;SS १९.४०.३]> \।

(AVPर्_१.४ः७६/१२-१३) <नमस् ते पथ्या रेवति स्वस्ति मा परा-यणः \। स्वस्ति मा पुनरायणः [PS २०.६१.१/२]> \।

% नोते मन्त्र fरोम् PS २०, अन्द् रेलेवन्चे fओर् स्तन्zअ दिविसिओन् इन् PS!

(AVPर्_१.४ः७६/१३) <मा न आपो मेधाम् [PS २०.६०.३, ;SS १९.४०.२]> \।

(AVPर्_१.४ः७६/१४) <पुनर् मैत्व् इन्द्रियम् [PS ३.१३.६, ;SS ७.६७.१]> इति च \।\।४\।\।

(AVPर्_१.५ः७६/१४-१५) अथ यस्याहवनीयो ऽग्निर् जागृयाद् गार्हपत्य उपशाम्येत् का तत्र प्रायश्चित्तिर् \।

(AVPर्_१.५ः७६-७७/१५-२) यत् प्रा~न्चम् उद्वर्तयति तेनायतना[च्] च्यवते यत् प्रत्यञ्चम् असुरवद् यज्ञं तनोति \।

(AVPर्_१.५ः७७/२-३) यद् अनुगमयतीश्वरा वैनं तत् प्राणा हास्युर् इति वा \।

(AVPर्_१.५ः७७/३) अथ नु कथम् इति \।

(AVPर्_१.५ः७७/४-६) सभस्मकम् आहवनीयं दक्षिणेन दक्षिणाग्निं परिहृत्य गार्हपत्यस्यायतने प्रतिष्ठाप्य तत आहवनीयं प्रणयेत् \।

(AVPर्_१.५ः७७/६-८) <भद्राद् अभि श्रेयः प्रेहि [च्f. PS २०.४.२, ;SS ७.८.१ः अधि]> इत्य् एतयर्च@@ गार्हपत्य आज्यं विलायोत्पूय चतुर्गृहीतं गृहीत्वाहवनीयगार्हपत्याव् अन्तरेण व्यवेत्य जुहुयात् \।

(AVPर्_१.५ः७७/८-११) <अयं नो अग्निर् अध्यक्ष [PS २०.६१.५-६, सकल अत् Kऔश्ऽ ८९.१३]> इति द्वाभ्याम् एतेन उ वा अस्य संत्वरमाणस्याहवनीयगार्हपत्यौ जनिताव् <अयं मा लोको ऽनुसंतनुताम् [Vऐत्ऽ ७.१२]> इत्य् \। [एद्. जनिता वयं]

(AVPर्_१.५ः७७/११-१२) एतेन ह वा अस्य संत्वरमाणस्याहवनीयगार्हपत्यौ पाप्मानम् अपहतः \।

(AVPर्_१.५ः७७/१२-१३) सो ऽपहतपाप्मा ज्योतिर् भूत्वा देवान् अप्य् एतीति \।

(AVPर्_१.५ः७७/१३-१४) अथाहवनीय आज्याहुतिं जुहुयाद् <असपत्नं पुरस्ताद् [PS १०.८.४/१२.६.५, ;SS १९.१६.१]> इत्य् एतयर्चा \।

(AVPर्_१.५ः७७/१४-१५) अथ यस्याग्निहोत्रं श्रप्यमाणं विष्यन्देत् तद् अद्भिर् उपनिनयेत् \।

(AVPर्_१.५ः७७/१६) तद् अनुमन्त्रयते \।

(AVPर्_१.५ः७७/१६) <पृथिवीं तुरीयम् [च्f. AB ७.५.३]> इत्य् एताभिः \।

(AVPर्_१.५ः७७/१६-१७) <पृथिवीं तुरीयं मनुष्यान् यज्ञो ऽगात् \। ततो मा द्रविणम् आष्ट \।

(AVPर्_१.५ः७७/१८-२०) अंतरिक्षे तुरीयं \। दिवि तुरीयम् \। (अप्सु तुरीयम् \। अप्स्व् इत्य् आह भूतानि तानि \। देवान् यज्ञो ऽगात् \। ततो मा द्रविणम् आष्ट \।)

(AVPर्_१.५ः७७/२०-२१) <त्रातारम् इन्द्रम् [PS ५.४.११, ;SS ७.८६.१] \। <ययोर् ओजसा [PS २०.१५.१०, ;SS ७.२५.१]>_इति चैता विष्णुवरुणदेवत्या ऋचो जपति \।

(AVPर्_१.५ः७७/२१-२२) यद् वै यज्ञस्य विरिष्टं तद् वैष्णवं \।

(AVPर्_१.५ः७७/२२) यद् गुष्पितं तद् वारुणं \।

(AVPर्_१.५ः७७/२३) यज्ञस्य वा ऋद्धिर् \।

(AVPर्_१.५ः७७/२३-२४) भूयिष्ठाम् ऋद्धिम् आप्नोति यत्रैता विष्णुवरुणदेवत्या ऋचो जपत्य् \।

(AVPर्_१.५ः७७-७८/२४-१) अथाद्भुतेष्व् एता एव तिस्रो जपेत् \।

(AVPर्_१.५ः७८/१-२) तिस्रो जपेत् \।\। ५ \।\। इति यज्ञप्रायश्चित्तसूत्रे प्रथमो ऽध्यायह् समाप्तः \।

(AVPर्_२.१ः७८/३-४) अथ यस्य पुरोदाशे ऽमेध्यम् आपद्येत का तत्र प्रायश्चित्तिर् \।

(AVPर्_२.१ः७८/४-६) आज्येनाभिघार्य <अप्स्व् अन्तर् [PS १.२.४, ;SS १.४.४]> इति सकृद् एवाप्सु हुत्वाथाहवनीय आज्याहुती जुहुयाद् <असपत्नं पुरस्ताद् [PS १०.८.४/१२.६.५, ;SS १९.१६.१]> इत्य् एताभ्याम् ऋग्भ्याम् \।

(AVPर्_२.१ः७८/६-७) अथ यस्य पुरोडाशः क्षामो भवति का तत्र प्रायश्चित्तिः \।

(AVPर्_२.१ः७८/७-८) सो ऽग्नये क्षामवते ऽष्टाकपालं पुरोडाशं निर्वपेत् \।

(AVPर्_२.१ः७८/८) नित्याः पुरस्ताद्धोमाः \।

(AVPर्_२.१ः७८/८-१०) संस्थितहोमेषु <पृतनाजितं सहमानम् [PS २०.३३.९, ;SS ७.६३.१]> इति मध्यत ओप्य तथा संस्रावभागैः संस्थापयेत् \।

(AVPर्_२.१ः७८/१०-११) अथाहवनीये ताभ्याम् ऋग्भ्याम् \।

(AVPर्_२.१ः७८/११-१२) अथ यस्याग्निहोत्रं तृतीये नित्यहोमकाले विछिद्येत का तत्र प्रायश्चित्तिः \।

(AVPर्_२.१ः७८/१२-१३) सो ऽग्नये तन्तुमते ऽष्टाकपालं पुरोडाशं निर्वपेत् \।

(AVPर्_२.१ः७८/१३) नित्याः पुरस्ताद्धोमाः \।

(AVPर्_२.१ः७८/१३-१६) संस्थितहोमेषु <त्वम् अग्ने सप्रथा असि जुष्टो होता वरेण्यः \। त्वया यज्ञं वि तन्वते [PSK २०.५१.७]> इति मध्यत ओप्य संस्रावभागैः सम्स्थापयेत् \।

% नोते मन्त्र fरोम् PSK २० उन्त्रचेद् इन् PSO

(AVPर्_२.१ः७८/१६-१७) <असपत्नं पुरस्ताद् [सेए अबोवे]> इत्य् एताभ्याम् ऋग्भ्याम् \।

(AVPर्_२.१ः७८/१७-१८) अथ यस्य सांनाय्यं व्यापद्येत का तत्र प्रायश्चित्तिः \।

(AVPर्_२.१ः७८/१८) प्रातर्दोहं द्वैधं कृत्वा तेन यजेत \।

(AVPर्_२.१ः७८/१९-२०) अथ आहवनीय आज्याहुतिं जुहुयात् <त्रातारम् इन्द्रम् [सेए अबोवे]> इत्य् एतयर्चा \।

(AVPर्_२.१ः७८/२०-२१) प्रातर्दोहं चेद् अपहरेयुः सायंदोहं द्वैधं कृत्वा तेन यजेत \।

(AVPर्_२.१ः७८/२१-२२) अथाहवनीय आज्याहुतिं जुहुयात् <त्रातारम् इन्द्रम् [सेए अबोवे]> इत्य् एतयर्चा \।

(AVPर्_२.१ः७८/२२-२३) अथ चेत् सर्वम् एव सांनाय्यं व्यापद्येत का तत्र प्रायश्चित्तिर् \।

(AVPर्_२.१ः७८/२३-२५) ऐन्द्रं पुरोडाशं माहेन्द्रं वा सांनाय्यस्यायतने प्रतिष्ठाप्य तेन यजेत \।

(AVPर्_२.१ः७८/२५-२६) अथाहवनीय आज्याहुतिं जुहुयात् <त्रातारम् इन्द्रम् [सेए अबोवे]> इत्य् एतयर्चा \।

(AVPर्_२.१ः७८/२६-२७) अथ यस्य हवींषि व्यापद्येरन् का तत्र प्रायश्चित्तिर् \।

(AVPर्_२.१ः७८/२७) आज्यस्यैतानि निरुप्य तेन यजेत \।

(AVPर्_२.१ः७८-७९/२७-१) अथाहवनीय आज्याहुतिं जुहुयात् <त्रातारम् इन्द्रम् [सेए अबोवे]> इत्य् एतयर्चा \।

(AVPर्_२.१ः७९/१-२) अथ चेत् सर्वाण्य् एव हवींषि व्यापद्येरन् का तत्र प्रायश्चित्तिर् \।

(AVPर्_२.१ः७९/२-३) आज्यस्यैतानि निरुप्यैतयाज्यहविषेष्ट्या यजेरन् \।

(AVPर्_२.१ः७९/३) इत्य् अपि हि कीर्तित[ं] \।

(AVPर्_२.१ः७९/३) मध्या[स्] त्व् एव भवन्ति \।

(AVPर्_२.१ः७९/४) तैर् यजेत \।

(AVPर्_२.१ः७९/४-५) अथाहवनीय आज्याहुतिं जुहुयात् <त्रातारम् इन्द्रम् [सेए अबोवे]> इत्य् एतयर्चा \।\। १ \।\।

(AVPर्_२.२ः७९/५-६) अथातो दृष्टाभ्युद्दृष्टाणीत्य् आचक्षते \।

(AVPर्_२.२ः७९/६) अद्य सायम् अमावास्या भविष्यतीति \।

(AVPर्_२.२ः७९/६-७) न प्रतिहरणाय च स स्यात् \।

(AVPर्_२.२ः७९/७-८) अथ स यो ऽन्यो ब्रूयाद् अदर्शं चाद्य पुरस्ताद् इति तं तु किम् इति ब्रूयात् \।

(AVPर्_२.२ः७९/८) अथ वा \।

(AVPर्_२.२ः७९/८-९) स स्याद् एवाधस् \।

(AVPर्_२.२ः७९/९) ताम् एव प्रायश्चित्तिं कृत्वा यजेतेति द्वैपायनः \।

(AVPर्_२.२ः७९/१०) कृतस्य वै प्रायश्चित्तिर् भवतीति लाङ्गलिः \।

(AVPर्_२.२ः७९/१०-११) समाप्यैव तेन हविषा यद्दैवतं तद् धवि[ः] स्यात् \।

(AVPर्_२.२ः७९/१२-१३) अथान्यद् धविर् निर्वपेद् अग्नये दात्रे पुरोडाशम् इन्द्राय प्रदात्रे पुरोडाशं विष्नवे शिपिविष्टाय पुरोडाशम् \।

(AVPर्_२.२ः७९/१३-१४) अथैतान् यथानिरुप्तांस् त्रेधा कुर्याद् यथा ब्राह्मणोक्तं \।

(AVPर्_२.२ः७९/१५) नित्याः पुरस्तद्धोमाः \।

(AVPर्_२.२ः७९-८०/१५-१) संस्थितहोमेष्व् <अग्निं वयं त्रातारं हवामहे य इमं त्रायताम् अस्माद् यक्ष्माद् अस्माद् आमयत[ः] \। [PS २.५०.१]>

% नोते PS मन्त्र

(AVPर्_२.२ः८०/१) <त्रातारम् इन्द्रम् [सेए अबोवे]> \।

(AVPर्_२.२ः८०/१-२) <उरु विष्णो विक्रमस्व [PS २०.७.७, ;SS ७.२६.३च्]>_इति मध्यत ओप्य संस्रावभागैः संस्थापयेत् \।

(AVPर्_२.२ः८०/२-३) पाथिकृतीत्य् आचक्षते पौर्णमास्यमावास्येति चातिपन्ने \।\। २ \।\।

(AVPर्_२.३ः८१/१) अथातो ऽभ्यु[द्]दृष्टानीत्य् आचक्षते \।

(AVPर्_२.३ः८१/१-२) अद्य सायम् अमावास्या भविष्यतीति न प्रतिहरणाय च स स्यात् \।

(AVPर्_२.३ः८१/२-४) अथ स यो ऽन्यो ब्रूयाद् अदर्शं चाद्य पश्चाद् इति तं तु किम् इति ब्रूयात् \।

(AVPर्_२.३ः८१/४) अथ वा स स्याद् एवाधस् \।

(AVPर्_२.३ः८१/४-५) ताम् एव प्रायश्चित्तिं कृत्वा यजेतेति द्वैपायनः \।

(AVPर्_२.३ः८१/५-६) कृतस्य वै प्रायश्चित्तिर् भवतीति लाङ्गलिर् \।

(AVPर्_२.३ः८१/६-८) <येन पथा वैवस्वतो यमो राजा नो ययौ अग्निर् नस् तेन नयतु प्रजा[न]न् वैश्वानरः पथिकृद् विश्वगृष्टिः [PS ५.६.७]> \।

% नोते PS मन्त्र, नोत् च्लोसेद् ब्य् इति

(AVPर्_२.३ः८१/८-९) समाप्यैव तेन हविषा यद् दैवतं तद् धविः स्यात् \।

(AVPर्_२.३ः८१/९) अथान्यद् धविर् निर्वपेत् \।

(AVPर्_२.३ः८१/९-११) अग्नये पथिकृते पुरोडाशम् इन्द्राय वृत्रघ्ने पुरोडाशं वैश्वानरं द्वादशकपालं पुरोडाशं \।

(AVPर्_२.३ः८१/११) नित्याः पुरस्ताद्धोमाः \।

(AVPर्_२.३ः८१/१२) संस्थितहोमेषु <त्वम् अग्ने सप्रथा असि [सेए अबोवे]> \।

(AVPर्_२.३ः८१/१२-१३) <येन पथा वैवस्वतः [सेए अबोवे]> \।

(AVPर्_२.३ः८१/१३) <शास इत्था महान् असि [PS २.८८.१, ;SS १.२०.४]> \।

(AVPर्_२.३ः८१/१३-१४) <वैश्वानरो न ऊतये [PS १९.९.४, ;SS ६.३५.१]> इति मध्यत ओप्य संस्रावभागैः संस्थापयेत् \।

(AVPर्_२.३ः८१/१४-१५) महापाथिकृतीत्य् आचक्षते \।

(AVPर्_२.३ः८१/१५) उभयोर् अपि पत्तयोस् \।

(AVPर्_२.३ः८१/१५-१६) तद् आहुर् न ते विदुर् ये तथा कुर्वन्त्य् \।

(AVPर्_२.३ः८१/१६) अथ नु कथम् इति \।

(AVPर्_२.३ः८१/१६-१८) गार्हपत्याज्यं विलायोत्पूय चतुर्गृहीतं गृहीत्वाहवनीयगार्हपत्याव् अन्तरेणातिव्रज्य जुहुयात् \।

(AVPर्_२.३ः८१/१८-२०) <असौ य उदयात् पुरो वसानो नीललोहितो ऽथ दृष्टम् अदृष्टं नो दुष्कृतं तत् स्वाहा [?]>_इत्य् \।

(AVPर्_२.३ः८१/२०) एवम् एवाभ्यु[द्]दृष्टे \।

(AVPर्_२.३ः८१/२०-२२) <असौ य उदयात् पश्चाद् वसानो नीललोहितो [त्य] ऽथ दृष्टम् अदृष्टं नो दुष्कृतं करत् स्वाहा [?]>_इति \।

% च्f. wइथ् थे मन्त्र(स्) जुस्त् qउओतेद्ः PS २०.२५.१द्

(AVPर्_२.३ः८१-८२/२२-१) स य एवम् एतेन तेजसाज्येन यशसा प्रीणाति सो ऽस्यैष दृष्टः प्राणान् यशसा प्रीणाति \।\। ३ \।\।

(AVPर्_२.४ः८२/१-२) अथ यो ऽहुत्वा नवं प्राश्नीयाद् अग्नौ वागमयेत् का तत्र प्रायश्चित्तिः \।

(AVPर्_२.४ः८२/२-३) सो ऽग्नये व्रतपतये ऽष्टाकपालं पुरोडाशं निर्वपेत् \।

(AVPर्_२.४ः८२/३) नित्याः पुरस्ताद्धोमाः \।

(AVPर्_२.४ः८२/३-४) संस्थितहोमेष्व् <अग्ने प्राश्नाहि प्रथमस् त्वं हि वेत्थ यथा हविः [?]> \।

(AVPर्_२.४ः८२/४-६) <वन्वन् हविर् यथा देवेभ्यो यजमानं च वर्द्धय [?]> <अग्निश् च देव सवितस् [PS १९.२७.१]> \।

(AVPर्_२.४ः८२/६-७) <त्वम् अग्ने व्रतपा असि [PS १९.४७.४, ;SS १९.५९.१]>\। <इदावत्सराय [PS १९.५१.१]>_इति मध्यत ओप्य संस्रावभागैः संस्थापयेत् \।

% नोते PS मन्त्रस्

(AVPर्_२.४ः८२/७-११) यद्य् अनुगतम् अग्निं शङ्कमाना मन्थेयुर् मथिते ऽग्निम् अधिगछेयुर् <भद्राद् अधि श्रेयः प्रेहि [PS २०.४.२, ;SS ७.८.१]>_इति व्याहृतिभिश् च मथितं समारोप्याथेतरस्मिन् <पुनस् त्वा प्राणः [PS १२.१९.३ (२०.१४.२?)]>_इति पञ्चभिर् आज्याहुतीर् हुत्वा यथोक्तं प्राकृता वृत्तिर् \।

(AVPर्_२.४ः८२/११-१२) अथ यस्याग्निहोत्री घर्मदुघा दुह्यमाना वाश्येत् का तत्र प्रायश्चित्तिर् \।

(AVPर्_२.४ः८२/१२-१५) अशनापिपासे एवैषा यजमानस्य संप्रख्याय वाश्यतीति तां तृणम् अप्य् आदयेत् <सूयवसाद् भगवती [PS १६.६९.१०/२०.१२.४, ;SS ७.७३.११/९.१०.२०]>_इत्य् एतयर्चा \।

(AVPर्_२.४ः८२/१५-१६) अथाहवनीय आज्याहुतीर् जुहुयाद् <धाता दधातु नः [PS १.३९.४, ;SS ७.१७.१]> <पूर्णा दर्व [PS १.१०६.५, ;SS ३.१०.७]> इति द्वाभ्याम् ऋग्भ्याम् \।

(AVPर्_२.४ः८२/१६-१८) अथ यस्याग्निहोत्री घर्मदुघा (वा) दुह्यमानोपविशेत् का तत्र प्रायश्चित्तिर् \।

(AVPर्_२.४ः८२-८३/१८-१) भयं वा एषा यजमानस्य प्रख्यायोपविशति \।

(AVPर्_२.४ः८३/१-२) तस्या ऊधस्य् उदपात्रं निनयेत्_<शं नो देवीर् अभिष्टये [PS १.१, ;SS १.६.१]>_इति द्वाभ्यां \।

(AVPर्_२.४ः८३/२-४) ताम् अनुमन्त्रयते <यस्माद् भीता निषीदसि ततो नो अभयं कृधि पशून् नः सर्वान् गोपाय नमो रुद्राय मीढुषे [?]>_इत्य् \।

(AVPर्_२.४ः८३/४-५) अथैनाम् उत्थापयत्य् <उत् तिस्ठ देव्य् अदिते देवान् यज्ञेन बोधय \। इन्द्राय कृण्वती भागं मित्राय वरुणाय च [च्f. ;SS १९.६३.१]>_इत्य् \।

(AVPर्_२.४ः८३/५-८) उत्थिताम् अनुमन्त्रयते <उद् अस्थाद् देव्य् अदिते देवान् यज्ञेन बोधय \। आयुश् च तस्य भूतिं च यजमानं च वर्धय [च्f. ;SS १९.६३.१]>_इत्य् \।

(AVPर्_२.४ः८३/८-१०) अथाहवनीय आज्याहुतीर् जुहुयान् <मा नो विदन् [PS १.२०.१, ;SS १.१९.१]> इत्य् एतैर् अभयै रौद्रैश् च \।\। ४ \।\।

(AVPर्_२.५ः८३/१०-१२) अथ यस्य वपाम् आहुतिं वा गृहीतां श्येनः शकुनिः श्वा वान्यो वाहरेद् वातो वा विवमेत् का तत्र प्रायश्चित्तिर् \।

(AVPर्_२.५ः८३/१२-१३) <दिवं पृथिवीम् [PS ३.१२.७, ;SS ३.२१.७]> इत्य् अभिमन्त्र्याथाहवनीय आज्याहुतीर् जुहुयाद् <वात आ वातु भेषजम् [PS १९.४६.७, Kऔश्ऽ ११७.३-४]> इति सूक्तेन \।

(AVPर्_२.५ः८३/१४) अथ यस्य सोमग्रहो गृहीतो ऽतिस्रावेत् का तत्र प्रायश्चित्तिर् \।

(AVPर्_२.५ः८३/१५-१६) <द्रप्सश् चस्कन्द [PS १८.७८.७/२०.१३.७, ;SS १८.४.२८]>_इत्य् अभिमन्त्र्याथाहवनीय आज्याहुतीर् जुहुयान् <मनसे चेतसे धिये [PS १९.१०.१, ;SS ६.४१.१]>_इति सूक्तेन \।

(AVPर्_२.५ः८३/१६-१७) अथ यस्याष्टापदी वशा स्यात् का तत्र प्रायश्चित्तिर् \।

(AVPर्_२.५ः८३/१७-१८) दर्भेण हिरण्यं बद्ध्वाध्यधि गर्भं हिरण्यगर्भेण जुहुयात् \।

(AVPर्_२.५ः८३/१८-२३) यथामुं सा गर्भम् अभ्यश्चोतयद् यथामुं गर्भं सदर्भम् इव सहिरण्यं तम् उद्धृत्य प्रक्षाल्यानुपदं श्रपयित्वा प्राक्शिरसम् उदक्पाद्यं कामसूक्तेन जुहुयाद् अनंगन् <धीती वा [PS २०.१.१, ;SS ७.१.१]>_इत्य् अष्टभिर् नभस्वतीभिर् हिरण्यगर्भेण वा \। [एद्. धीति]

(AVPर्_२.५ः८३/२३-२४) अथ यस्यासमाप्ते कर्मणि तान्त्रिको ऽग्निर् उपशाम्येत् का तत्र प्रायश्चित्तिर् \।

(AVPर्_२.५ः८३-८४/२४-२) <यं त्वम् अग्ने [PS १८.६९.४, ;SS १८.३.६]> <पुनस् त्वादित्या रुद्रा वसवः [PS १७.३०.६, ;SS १२.२.६]>_इत्य् अन्यं प्रणीय प्रज्वाल्य <ममाग्ने वर्चः [PS ५.४.१, ;SS ५.३.१]>_इति सूक्तेनोपसमाधाय कर्मशेषम् समाप्नुयुर् \।

(AVPर्_२.५ः८४/२-५) अथ यस्यासमाप्ते कर्मणि बर्हिर् आदीप्येत तत्र तन् निर्वाप्य जुहुयाद् <यद् अग्निर् बर्हिर् अदहद् वेद्या वासो अप्ॐ भत त्वम् एव नो जातवेदो दुरितात् पाहि तस्मात् [AVPअरिश् ३७.५.२]> \।\।

(AVPर्_२.५ः८४/५-६) <निर्दग्धा नो अमित्रा यथेदं बर्हिस् तथा \। अमित्राणां श्रियं भूतिं ताम् एषां परिनिर्जहि [AVPअरिश् ३७.५.३]> \।

(AVPर्_२.५ः८४/७-८) <यत्कामास् ते जुहुमस् तन् नो अस्तु विशाम्पते \। ये देवा यज्ञम् आयान्ति ते नो रक्षन्तु सर्वतः [AVPअरिश् ३७.५.४]> \।

(AVPर्_२.५ः८४/८-९) <अवदग्धं दुःस्वप्न्यम् अवदग्धा अरातयः सर्वाश् च यातुधान्यः \। मा त्वा दभ्यन् यातुधानाः [AVPअरिश् ३७.५.५ (PS ७.७.९)]> \।

(AVPर्_२.५ः८४/९-११) <मा ब्रध्नः शर्मभिः ष्टुहि दर्भो राजा समुद्रियः \। परि नः पातु विश्वतः [AVPअरिश् ३७.५.६ (PS ७.७.१०)]> \।

(AVPर्_२.५ः८४/११-१२) अथान्यद् बर्हिर् उपकल्प्योदकेन संप्रोक्ष्य पुनः स्टृणाति \।

(AVPर्_२.५ः८४/१२-१४) <इदं बर्हिर् अमृतेनेह सिक्तं हिरण्मयं हरितं तत् स्तृतं नः [AVPअरि;S ३७.५.८]> \।

(AVPर्_२.५ः८४/१४-१५) <तद् वै पुराणम् अभिनवं स्तृणीष्व वासः प्रशस्तं प्रति मे गृहाण [AVPअरि;S ३७.५.८]>_इति \।

(AVPर्_२.५ः८४/१५-१६) अथ यस्य पित्र्ये प्रणीतो ऽग्निर् उपशाम्येत् का तत्र प्रायश्चित्तिर् \।

(AVPर्_२.५ः८४/१६-२०) भस्मालभ्याभिमन्त्रयेद् <द्विषन्तम् अग्ने द्विषतां च वित्तं \। प्रजां द्विषद्भ्यो नय दक्षिणेन \। पित्र्ये प्रणीत उपशाम्यमानः पाप्मानम् अग्ने तम् इतो नुदस्व [?]> \।

(AVPर्_२.५ः८४/२०-२६) <द्विषन्तम् अग्ने द्विषतां च वित्तं गच्छ त्वम् आदाय परावतो ऽन्यान् पित्र्ये प्रणीत उपशाम्यमान इह प्रजां दीर्घम् आयुश् च धेहि \। यस् त्वम् अग्ने प्रमत्तानां प्रणीत उपशाम्यसि [?]> <सुकल्पम् अग्ने त[त्] त्वया पुनस् त्वोद्दीपयामसि [PS १७.३०.५च्द्, ;SS १२.२.५च्द्]>_इत्य् उच्यमाने ऽग्निं प्रणीय प्रज्वाल्य_<इन्द्रस्य कुक्षिर् असि [PS २०.१०.९, ;SS ७.१११.१]>_इति द्वाभ्यां समिधाव् अभ्यादध्यात् \।\। ५ \।\।

(AVPर्_२.६ः८४-८५/२६-४) अथ यस्य यूपो विरोहेद् असमाप्ते कर्मणि तत्र जुहुयात् <यूपो विरोहञ् छतशाखो अध्वरः समावृतो मोहयिष्यन् यजमानस्य लोके \। वेदाभिगुप्तो ब्रह्मणा परिवृतो ऽथर्वभिः शान्तः सुकृताम् एतु लोकम् \।\। यूपो ह्य् अरुक्षद् द्विषतां वधाय न मे यज्ञो यजमानश् च रिष्यात् \। सप्तर्षीणां सुकृतां यत्र लोकस् तत्रेमं यज्ञं यजमानं च धेहि [Kऔश्ऽ १२५.२]> \।\।

(AVPर्_२.६ः८५/४-६) <यो वनस्पतीनाम् उपतापो बभूव यद् वा गृहान् घोरम् उताजगाम तन् निर्जगामो हविषा घृतेन शं नो अस्तु द्विपदे शं चतुष्पदे [Kऔश्ऽ १३५.९]> \।\।

(AVPर्_२.६ः८५/६-९) <यो वनस्पतीनाम् उपतापो न आगाद् यद् वा यज्ञं नो ऽद्भुतम् आजगाम \। सर्वं तद् अग्ने हुतम् अस्तु भागशः शिवान् वयम् उत्तरेमाभि वाजान् \। त्वष्ट्रे स्वाहा [Kऔश्ऽ १३५.९]>_इति हुत्वा \।

(AVPर्_२.६ः८५/९-१०) <त्वष्टा मे दैव्यं वचः [PS १९.२.१, ;SS ६.४.१]>_इति त्वाष्ट्रं वैश्वरूपम् आलभेत \।

(AVPर्_२.६ः८५/१०-११) अथ यस्यासमाप्ते कर्मणि यूपः प्रपतेत् तत्र जुहुयात् \।

(AVPर्_२.६ः८५/१२-१५) <य इन्द्रेण सृष्टो यदि वा मरुद्भिर् यूपः पपात द्विषतां वधाय \। तं निर्जगामो हविषा घृतेन शं नो अस्तु द्विपदे शं चतुष्पदे \।\। त्वष्ट्रे स्वाहा [?]>_इति हुत्वा <त्वष्टा मे दैव्यं वचः [सेए अबोवे]>_इति त्वाष्ट्रं सर्वरूपम् आलभेत \।

(AVPर्_२.६ः८५/१५-१९) अथ यस्यासमाप्ते कर्मणि यूपे ध्वाङ्क्षो निपतेत् तत्र जुहुयात् <आ पवस्व हिरण्यवद् अश्वावत् सोम वीरवत् \। वाजं गोमन्तम् आ भर स्वाहा [.RV ९.६३.१८]>_इति मध्यत ओप्य संस्रावभागैः संस्थापयेत् \।

(AVPर्_२.६ः८५-८६/१९-१) यदि दुष्टं हविः स्यात् कीटावपन्नं वा तत् तस्मिन् भस्मन्य् उपवपेद् अप्सु वेत्य् एके \।

(AVPर्_२.६ः८६/१-२) <भुवाय स्वाहा \। भुवनाय स्वाहा \। भुवनपतये स्वाहा \। भुवां पतये स्वाहा \। विष्णवे स्वाहेति \।

(AVPर्_२.६ः८६/२-३) एते ह वै देवानाम् ऋत्विजस् \।

(AVPर्_२.६ः८६/३-४) त एवास्य तद् धुतम् इष्टं कुर्वन्ति \।

(AVPर्_२.६ः८६/४-६) यत् प्रयाजेष्व् अहुतेषु प्राग् अङ्गारः स्कन्देद् अध्वर्यवे च यजमानाय च पशुभ्यश् चाघं स्याद् यदि दक्षिणा ब्रह्मणे च यजमानाय च \।

(AVPर्_२.६ः८६/६-७) यदि प्रत्यग् घोत्रे च पत्न्यै च \। [एद्. धोत्रे]

(AVPर्_२.६ः८६/७-८) यद्य् उदग् अग्नीधे च यजमानाय च पशुभ्यश् चाघं स्यात् \।

(AVPर्_२.६ः८६/८) तम् अनुप्रहरेत् \।

(AVPर्_२.६ः८६/९) <सहस्रसृङ्गः [PS १८.१६.२, ;SS १३.१.२]> \। इत्य् एतयर्चा \।\। ६ \।\।

(AVPर्_२.७ः८६-८७/९-१) अथ यस्याग्नयो मिथः संसृज्येरन् का तत्र प्रायश्चित्तिः \।

(AVPर्_२.७ः८७/१-२) सो ऽग्नये वीतये ऽष्टाकपालं पुरोडाशं (प्राङ्) निर्वपेत् \।

(AVPर्_२.७ः८७/२-३) नित्याः पुरस्ताद्धोमाः \।

(AVPर्_२.७ः८७/३-५) संस्थितहोमेष्व् <अग्न आयाहि वीतये गृणानो हव्यदातये नि होता सत्सि बर्हिषि [SV १.१]>_इति मध्यत ओप्य संस्रावभागैः संस्थापयेत् \।

(AVPर्_२.७ः८७/५-६) अथ यस्याग्नयो ग्राम्येणाग्निना संसृज्येरन् का तत्र प्रायश्चित्तिः \।

(AVPर्_२.७ः८७/६-७) सो ऽग्नये विविचये ऽष्टाकपालं पुरोडाशं निर्वपेत् \।

(AVPर्_२.७ः८७/७) नित्याः पुरस्ताद्धोमाः \।

(AVPर्_२.७ः८७/८-१०) संस्थितहोमेष्व् <अग्निम् ई;ले पुरोहितं विविचिं रत्नधातमं प्र ण आयूंषि तारिषत् [?]> \। इति मध्यत ओप्य संस्रावभागैः संस्थापयेत् \।

(AVPर्_२.७ः८७/१०-११) अथ यस्याग्नयः शावेनाग्निना संसृज्येरन् का तत्र प्रायश्चित्तिः \।

(AVPर्_२.७ः८७/११-१२) सो ऽग्नये शुचये ऽष्टाकपालं पुरोडाशं निर्वपेत् \।

(AVPर्_२.७ः८७/१२) नित्याः पुरस्तद्धोमाः \।

(AVPर्_२.७ः८७/१२-१६) संस्थितहोमेष्व् \। <अग्निः शुचिव्रततमः शुचिर् विप्रः शुचिः कविः \। शुची रोचत आहुतः [TS १.३.१४.८ब्ब्, .RV ८.४४.२१]> \।\। <उद् अग्ने शुचयस् तव शुक्रा भ्राजन्त ईरते \। तव ज्योतींष्य् अर्चयः [TS १.३.१४.८च्च्, .RV ८.४४.१७] स्वाहेति मध्यत ओप्य संस्रावभागैः संस्थापयेत् \।

(AVPर्_२.७ः८७/१६-१७) अथ यस्याग्नयो दावेनाग्निना संसृज्येरन् का तत्र प्रायश्चित्तिर् \।

(AVPर्_२.७ः८७-८८/१७-२) अन्नाद्यं वा एष यजमानस्य संवृज्यावृत उप तो ऽरण्याद् ग्रामम् अध्य् अभ्युपैति \।

(AVPर्_२.७ः८८/२-३) सो ऽग्नये ऽन्नादाया ऽन्नपतये ऽस्टाकपालं पुरोडाशं निर्वपेत् \।

(AVPर्_२.७ः८८/३) नित्याः पुरस्ताद्धोमाः \।

(AVPर्_२.७ः८८/४-५) संस्थितहोमेष्व् \। <अपश्चादघ्वान्नस्य भूयासम् [PS २०.४३.९, ;SS १९.५५.५]> \। इति मध्यत ओप्य संस्रावभागैः संस्थापयेत् \।

(AVPर्_२.७ः८८/४-६) अथ यस्याग्नयो दिव्येनाग्निना संसृज्येरन् का तत्र प्रायश्चित्तिः \।

(AVPर्_२.७ः८८/६-७) सो ऽग्नये ज्योतिष्मते ऽष्टाकपालं पुरोडाशं निर्वपेत् \।

(AVPर्_२.७ः८८/७-८) नित्याः पुरस्ताद्धोमाः \।

(AVPर्_२.७ः८८/८-१०) संस्थितहोमेषु \। <विद्योतते द्योतते \। विद्युतो ऽग्निर् जिह्वा \। विद्युता भ्राजन्ति द्योतत आ च द्योतत [? Cf. PS १६.१५१.५अ, १६.१५०.७अ, ८अ]> \। इति मध्यत ओप्य संस्रावभागैः संस्थापयेत् \।

(AVPर्_२.७ः८८/११) अथ यस्याग्नयो ऽभिप्लवेरन् का तत्र प्रायश्चित्तिः \।

(AVPर्_२.७ः८८/११-१२) सो ऽग्नये ऽप्सुमते ऽष्टाकपालं पुरोडाशं निर्वपेत् \।

(AVPर्_२.७ः८८/१२-१३) नित्याः पुरस्ताद्धोमाः \।

(AVPर्_२.७ः८८/१३-१४) संस्थितहोमेष्व् <अपाम् अग्निस् तनूभिः [PS ५.७.८, ;SS ४.१५.१०]> \। इति मध्यत ओप्य संस्रावभागैः संस्थापयेत् \।

(AVPर्_२.७ः८८/१४-१५) अथ यद्य् अनुगतम् अभ्युद्धरेत् का तत्र प्रायश्चित्तिः \।

(AVPर्_२.७ः८८-८९/१५-१) सो ऽग्नये ऽग्निमते ऽष्टाकपालं पुरोडाशं निर्वपेत् \।

(AVPर्_२.७ः८९/१-२) नित्याः पुरस्ताद्धोमाः \।

(AVPर्_२.७ः८९/२-७) संस्थितहोमेषु \। <शिवौ भवतम् अद्य नः [Kऔश्ऽ १०८.२] \। <अग्निनाग्निः संसृज्यते कविर् गृहपतिर् युवा हव्यवाड् जुह्वास्यः [Kऔश्ऽ १०८.२]> \। <त्वं ह्य् अग्ने अग्निना विप्रो विप्रेण सन् सता सखा सख्या समिध्यसे [Kऔश्ऽ १०८.२]> \।\। <स नो रास्व सुवीर्यम् [.RV ५.१३.५च्; ८.९८.१२च्; ;SS २०.१०८.३च्]> इति मध्यत ओप्याथ संस्रावभागैः संस्थापयेत् \।\। ७ \।\।

(AVPर्_२.८ः८९/७-८) अथ य आहिताग्निस् तन्त्रे प्रवासे मृतः स्यात् कथं तत्र कुर्यात् \।

(AVPर्_२.८ः८९/८-९) कथम् अस्याग्निहोत्रं जुहुयुर् \।

(AVPर्_२.८ः८९/९-१०) अन्यवत्साया गोः पयसेत्य् आहुर् अदुग्धाया वा शूद्रदुग्धाया वा \।

(AVPर्_२.८ः८९/१०-१२) असर्वं वा एतत् पयो यद् अन्यवत्साया गोः शूद्रदुग्धाया वासर्वं वा एतद् अग्निहोत्रं यन् मृतस्याग्निहोत्रं \।

(AVPर्_२.८ः८९-९०/१२-१) तावद् अग्निं परिचरेयुर् यावद् अस्थ्नाम् आहरणम् \।

(AVPर्_२.८ः९०/२) आहृत्याग्निभिः संस्पृश्य तं पितृमेधेन समाप्नुयुर् \।

(AVPर्_२.८ः९०/३-४) अथ यः समारोपितासमारोपिते मृतः स्यात् कथं तत्र कुर्यात् \।

(AVPर्_२.८ः९०/४-५) सो ऽग्नये तन्तुमते पथिकृते व्रतभृते पुरोडाशं निर्वपेद् एककपालं सप्तकपालं नवकपालं \।

(AVPर्_२.८ः९०/५-६) नित्याः पुरस्ताद्धोमाः \।

(AVPर्_२.८ः९०/६-८) संस्थितहोमेषु \। <त्वम् अग्ने सप्रथा असि [सेए अबोवे] <येन पथा वैवस्वतः [सेए अबोवे] <त्वम् अग्ने व्रतपा असि [सेए अबोवे]>_इति मध्यत ओप्य (अथ) संस्रावभागैः संस्थापयेत् \।

(AVPर्_२.८ः९०/८-१०) अथ नष्टे अरणी स्याताम् अन्ययोर् अरण्योर् विहृत्य तं मथित्वैताभिर् एव हुत्वाथैनं समाप्नुयुः \।\। ८ \।\।

(AVPर्_२.९ः९०-९१/१०-१) अथ यस्योपाकृतः पशुः प्रपतेत् का तत्र प्रायश्चित्तिः \।

(AVPर्_२.९ः९१/१-३) स्पृतिभिर् जुहुयाद् वायवे नियुत्वते यवागूं निरुप्यान्यं तद्रूपं तद्वर्णम् आलभेत \।

(AVPर्_२.९ः९१/३-४) आज्येनाभिग्बार्य पर्यग्नि कृत्वोपाकुर्वीत \।

(AVPर्_२.९ः९१/४) एते वै देवस्पृतयो \।

(AVPर्_२.९ः९१-९२/४-४) <अग्नेष् टे वाचं स्पृणोमि स्वाहा \। वातात् ते प्राणं स्पृणोमि स्वाहा \। सूर्यात् ते चक्षु स्पृणोमि स्वाहा \। चन्द्रात् ते मन स्पृणोमि स्वाहा \। दिग्भ्यस् ते ज्योति स्पृणोमि स्वाहा \। अद्भ्यस् ते रसं स्पृणोमि स्वाहा \। अस्थिभ्यस् ते मज्जानं स्पृणोमि स्वाहा \। स्नेहेभ्यस् ते स्नावानं स्पृणोमि स्वाहा \। ओषधीभ्यस् ते लोमानि स्पृणोमि स्वाहा \। पृथिव्यास् ते शरीरं स्पृणोमि स्वाहा \। अन्तरिक्षात् त आकाशं स्पृणोमि स्वाहा \। मानुषात् त आकाशाद् दिव्यम् आकाशं स्पृणोमि स्वाहा \। इन्द्रात् ते बलं स्पृणोमि स्वाहा \। सोमात् ते राज्ञः कीर्त्तिं यशश् च स्पृणोमि स्वाहा> \।

(AVPर्_२.९ः९२/५) इति च हुत्वाथैनं पुनः प्रदिशति <वायवे त्वा [VSM ७.७ एत्च्.]>_इत्य् \।

(AVPर्_२.९ः९२/६) अथ यस्योपाकृतः पशुर् म्रियेत का तत्र प्रायश्चित्तिः \।

(AVPर्_२.९ः९२/७) स्पृतिभिर् एव हुत्वाथैनम् अनुदिशत्य् <ऋतवे त्वा [?]>_इत्य् \।

(AVPर्_२.९ः९२/८) अथ यस्योपाकृतः पशुः संशीर्येत का तत्र प्रायश्चित्तिः \।

(AVPर्_२.९ः९२/९-१०) स्पृतिभिर् एव हुत्वाथैनम् अनुदिशति \। <रक्षोभ्यस् त्वा [?]>_इति \।

(AVPर्_२.९ः९२/१०) नानुदेशनम् इत्य् आहुर् \।

(AVPर्_२.९ः९२/१०-११) यो वा एष प्रपतितो भवति तद् यद् एनम् अधिगछेयुर् अथ तेन यजेत \।

(AVPर्_२.९ः९२/११-१४) अथ याव् एतौ शीर्णमृतौ भवतस् तयोः प्रज्ञातान्य् अवदानान्य् अवदायेतरस्य वा पशोः संप्रैषं कृत्वा ब्राह्मणान् परिचरेयुर् अपो वाभ्युपहरेयुः स्पृतिभिर् \।

(AVPर्_२.९ः९२/१४-१६) यदि वान्यः स्या[च्] छामित्रम् एनं प्रापयेयुस्….ष्पृतिभिर् एव हुत्वा शामित्रम् एवैनं प्रापयेयुर् \।

(AVPर्_२.९ः९२/१६-१७) अत ऊर्ध्वं प्रसिद्धः पशुबन्धो \।

(AVPर्_२.९ः९२/१७-१८) अथ य उपतापिनं याजयेत् का तत्र प्रायश्चित्तिः \।

(AVPर्_२.९ः९२/१८) स्पृतिभिर् एव हुत्वागदो हैव भवति \।

(AVPर्_२.९ः९२/१८-१९) अथ चेद् बहव उपतापिनः स्युः का तत्र प्रायश्चित्तिः \।

(AVPर्_२.९ः९२/१९-२०) स्पृतिभिर् एव हुत्वागदो हैव भवत्य् \।

(AVPर्_२.९ः९२/२०-२१) अथ यो ऽधिश्रिते ऽग्निहोत्रे यजमानो म्रियेत कथं तत्र कुर्यात् \।

(AVPर्_२.९ः९२/२१-२२) तत्रैवैतत् पर्यादध्याद् यथा सर्वशः संदह्येतेति \।

(AVPर्_२.९ः९२/२२-२३) अथाहवनीय आज्याहुतिं जुहुयात् \।

(AVPर्_२.९ः९२-९३/२३-१) <यज्ञ एति विततः कल्पमानः [PS १८.७७.३, ;SS १८.४.१३]> \। इत्य् एतयर्चा \।

(AVPर्_२.९ः९३/१-२) अथ य औपवसथ्ये ऽहनि यजमानो म्रियेत कथं तत्र कुर्यात् \।

(AVPर्_२.९ः९३/२-३) तत्रैवैतत् प्रदध्याद् यथा सर्वशः संदह्येतेत्य् \।

(AVPर्_२.९ः९३/३) अथाहवनीय आज्याहुतिं जुहुयात् \।

(AVPर्_२.९ः९३/३-४) <यज्ञ एति विततः कल्पमानः [सेए अबोवे]> इत्य् एतयर्चा \।

(AVPर्_२.९ः९३/४-५) अथ यः समासन्नेषु हविःषु यजमानो म्रियेत कथं तत्र कुर्यात् \।

(AVPर्_२.९ः९३/६-७) तत्रैवैतत् पर्यादध्याद् यथा सर्वशः संदह्येरन्न् इति \।

(AVPर्_२.९ः९३/७) अथाहवनीय आज्याहुतिं जुहुयात् \।

(AVPर्_२.९ः९३/७-८) <अपेमं जीवा अरुधन् गृहेभ्यः [PS १८.६४.१०, ;SS १८.२.२७]> \। इत्य् एतयर्चा \।

(AVPर्_२.९ः९३/८-९) अथ यो दीक्षितो म्रियेत कथम् एनं दहेयुस् \।

(AVPर्_२.९ः९३/९) तैर् एवाग्निभिर् इत्य् आहुर् \।

(AVPर्_२.९ः९३/१०) हव्यवाहनाश् चैते मे भवन्ति तत् कव्यवाहना इति \।

(AVPर्_२.९ः९३/१०-११) अथ नु कथम् इति \।

(AVPर्_२.९ः९३/११-१२) शकृत्पिण्डैस् तिस्र उखाः पूरयित्वा ताः प्रादध्[य्]उस् \।

(AVPर्_२.९ः९३/१२) ता धूनुयुस् \।

(AVPर्_२.९ः९३/१२-१३) ता सुसंतापा ये ऽग्नयो जायेरंस् तैः समाप्नुयुः \।

(AVPर्_२.९ः९३/१३-१४) बहिर् वा एवं (भवन्)ति ते नो वैते \।

(AVPर्_२.९ः९३/१४-१५) तस्य तद् एव ब्राह्मणं यद् अदःपुरः सवने पितृमेध आशिषो व्याख्यातास् \।

(AVPर्_२.९ः९३/१५-१८) तं यदि पुरस्तात् तिष्ठन्तम् उपवदेत् तं ब्रूयाद् <वसूनां त्वा देवानां व्यात्ते ऽपि दधामि \। गायत्रीं पर्षाम् अधःशिरावपद्यस्व [?]>_इति \।

(AVPर्_२.९ः९३/१८-२०) तं यदि दक्षिणतस् तिष्ठन्तम् उपवदेत् तं ब्रूयाद् <रुद्राणां त्वा देवानां व्यात्ते ऽपि दधामि \। त्रैष्टुभीं पर्षाम् अधःशिरावपद्यस्व [?]>_इति \।

(AVPर्_२.९ः९३/२०-२३) तं यदि पश्चात् तिष्ठन्तम् उपवदेत् तं ब्रूयाद् <आदित्यानां त्वा देवानां व्यात्ते ऽपि दधामि \। जागतीं पर्षाम् अधःशिरावपद्यस्व [?]>_इति \।

(AVPर्_२.९ः९३/२३-२५) तं यद्य् उत्तरतस् तिष्ठन्तम् उपवदेत् तं ब्रूयाद् <विश्वेसां त्वा देवानां व्यात्ते ऽपि दधामि \। आनुष्टुभीं पर्षाम् अधःशिरावपद्यस्व [?]>_इति \।

(AVPर्_२.९ः९३-९४/२५-१) तं यद्य् अन्तर्देशेभ्यो वा तिष्ठन्तम् उपवदेत् तं ब्रूयात् ……… \।

(AVPर्_२.९ः९४/१-२) तस्मै नमस् कुर्यात् \।

(AVPर्_२.९ः९४/२-३) स चेत् प्रति नमस् कुर्यात् कुशलेनैवैनम् योजयेत् \।

(AVPर्_२.९ः९४/३) स चेन् न प्रति नमस् कुर्यात् तेनाभिचरेत् \।

(AVPर्_२.९ः९४/४) सव्यम् अग्रन्थिना प्रसव्यम् अग्निभिः परीयात् \।

(AVPर्_२.९ः९४/४-५) <वत्सरो ऽसि परिवत्सरो ऽसि संवत्सरो ऽसि [VSM २७.४५]>_इति \।

(AVPर्_२.९ः९४/५-७) तं यदि जिघांसेद् <ययोः सर्वम् [PS १९.५५.१]> इति सूक्तेन बाधकीः समिधो ऽभ्यादध्यात् \।

% नोते PS मन्त्र इन् प्रतीक? Hअस् थे मन्त्र बेएन् चोर्रेच्त्ल्य् इदेन्तिfइएद्? Tहे fओल्लोwइन्ग् (तृतीयाहंः च्f. १९.५५.२ए, ३ए, ४द्; उच्छिष्टःः १९.५५.१द्) सुग्गेस्त्स् इत् हस्

(AVPर्_२.९ः९४/७) तृतीयाहं नातिजीवति \।

(AVPर्_२.९ः९४/७-११) अथ यो होतार्द्धहुत उच्छिष्टः स्यात् सहैव तेनाचम्य_<अग्निर् मा पातु वसुभिः पुरस्तात् [PS ७.१६.१, ;SS १९.१७.१]>_इत्य् एतां जप्त्वा यथार्थं कुर्याद् यथार्थं कुर्यात् \।\। ९ \।\। इति यज्ञप्रायाश्चित्ते द्वितीयो ऽध्यायह् समाप्तः \।\। [एद्. पुरस्तद्]

(AVPर्_३.१ः९४/१२) अथातो सोमरूपाणि व्याख्यास्यामः \।

(AVPर्_३.१ः९४/१२) प्रजापतिर् मनसि \।

(AVPर्_३.१ः९४/१३) सारस्वतो वाचि विसृष्टायां \।

(AVPर्_३.१ः९४/१३) विधानं दीक्षायां \।

(AVPर्_३.१ः९४/१३-१५) ब्रह्मव्रते सविता संधीयमाने ऽन्धो ऽछेतो दिव्यः सुपर्णः परिख्यातो \।

(AVPर्_३.१ः९४/१५) अदितिः प्रायणीये \।

(AVPर्_३.१ः९४/१५-१६) पशुष्ठा न्युप्तो \।

(AVPर्_३.१ः९४/१६) यज्ञो हूयमानो \।

(AVPर्_३.१ः९४/१६) भद्रो विचीयमानः \।

(AVPर्_३.१ः९४/१७) छंदांसि मीयमानो \।

(AVPर्_३.१ः९४/१७) भगः पण्यमानो \।

(AVPर्_३.१ः९४/१७-१८) असुरः क्रीतो \।

(AVPर्_३.१ः९४/१८) वरुणो ऽपसंनद्धः \।

(AVPर्_३.१ः९४/१८) पूषा सोमक्रयणे \।

(AVPर्_३.१ः९४/१८-१९) शिपिविष्टो ऽराव् आसाद्यमानो \।

(AVPर्_३.१ः९४/१९) बृहस्पतिर् उत्थितो \।

(AVPर्_३.१ः९४/१९-२०) वायुर् अभिह्रियमाणो \।

(AVPर्_३.१ः९४/२०) अधिपतिः प्रोह्यमाणो \।

(AVPर्_३.१ः९४/२०-२१) अग्नीषोमीयः पशव् \।

(AVPर्_३.१ः९४/२१) अतिथि (रुद्रो \। वरुणः) सदातिथ्ये \।

(AVPर्_३.१ः९४/२१-२२) वरुणः संराड् \।

(AVPर्_३.१ः९४/२२) आसन्द्याम् आसाद्यमान \।

(AVPर्_३.१ः९४-९५/२२-१) ऐन्द्राग्नो ऽग्नौ मथ्यमान \।

(AVPर्_३.१ः९५/१) ऐन्द्राग्नो ऽग्नौ प्रणीयमाने \।

(AVPर्_३.१ः९५/१-२) साम तानूनप्त्रे \।

(AVPर्_३.१ः९५/२) तपो ऽवान्तरदीक्षायां \।

(AVPर्_३.१ः९५/२) पृथिव्य् उपसद्य् \।

(AVPर्_३.१ः९५/२-३) अन्तरिक्षम् उपसदि \।

(AVPर्_३.१ः९५/३) द्यौर् उपसदि \।

(AVPर्_३.१ः९५/३-४) यज्ञस्य प्रमाभिमोम्ना प्रतिमा वेद्यां क्रियमाणायां \।

(AVPर्_३.१ः९५/४-५) पशव उत्तरवेद्यां \।

(AVPर्_३.१ः९५/५) द्यौर् हविर्धाने \।

(AVPर्_३.१ः९५/५) अन्तरिक्षम् आग्नीध्रीये \।

(AVPर्_३.१ः९५/६) पृथिवी सदसि \।\। १ \।\।

(AVPर्_३.२ः९५/६) प्राण उपरवेषु \।

(AVPर्_३.२ः९५/६) भ्रातृव्या धिष्ण्येषु \।

(AVPर्_३.२ः९५/६-७) पशवो बर्हिषि \। वेद्यां स्तीर्यमाणायाम् \।

(AVPर्_३.२ः९५/७) अप्सु विसर्जने \।

(AVPर्_३.२ः९५/७-८) प्रजापतिर् ह्रियमाणो \।

(AVPर्_३.२ः९५/८) अग्निर् आग्नीध्रीये \।

(AVPर्_३.२ः९५/८-९) वैष्णव आसन्नकर्मणि \।

(AVPर्_३.२ः९५/९) हस्तो विसृष्टो \।

(AVPर्_३.२ः९५/९) वैष्णवो यूप \।

(AVPर्_३.२ः९५/९-१०) ओषधयो रशनायां \।

(AVPर्_३.२ः९५/१०) मेध आप्रीषु \।

(AVPर्_३.२ः९५/१०) हविः पर्यग्निकृतः \।

(AVPर्_३.२ः९५/१०-११) पितृदेवत्यः पशौ संज्ञप्यमाने \।

(AVPर्_३.२ः९५/११-१२) यज्ञस्य मिथुनं पन्नेजनेषु \।

(AVPर्_३.२ः९५/१२) रक्षसां भागधेयं वपायाम् उद्गृह्यमाणायां \।

(AVPर्_३.२ः९५/१३) यज्ञस्य संततिर् वसतीवरीष्व् अभिह्रियमाणास्व् \।

(AVPर्_३.२ः९५/१३-१५) इन्द्राग्न्योर् धेनुर् दक्षिणस्याम् उत्तरवेदिश्रोण्याम् अवसादयति \।

(AVPर्_३.२ः९५/१५) मित्रावरुणयोर् धेनुर् \।

(AVPर्_३.२ः९५/१५-१६) उत्तरस्याम् उत्तरवेदिश्रोण्याम् अवसादयति \।

(AVPर्_३.२ः९५/१६-१७) विश्वेषां देवानाम् आग्नीध्रीये \।

(AVPर्_३.२ः९५/१७) छंदांस्य् उपवसथे \।

(AVPर्_३.२ः९५/१७) हविरुपावहृतः \।

(AVPर्_३.२ः९५/१८) सारस्वतः प्रातरनुवाके \।

(AVPर्_३.२ः९५/१८) अथर्वाभ्युप्तः \।

(AVPर्_३.२ः९५/१८-१९) प्रजापतिर् विभज्यमाने \।

(AVPर्_३.२ः९५/१९) देवता विभक्ते \।

(AVPर्_३.२ः९५/१९-२९) इन्द्रो वृत्रहेन्द्रो ऽभिमातिहेन्द्रो इन्द्रो वृत्रतुर् उन्नीयमान \।

(AVPर्_३.२ः९५/२०-२१) आयुर् उपांश्वन्तर्यामयोर् \।

(AVPर्_३.२ः९५/२१) यमो ऽभिहितः \।\। २ \।\।

(AVPर्_३.३ः९५-९६/२१-१) निभूयपुराधावनीये सुपूतः पूतभृति सुशुक्रश्रीर् मन्थश्रीः सक्तुश्रीः क्षीरश्रीः ककुभः पात्रेषु \।

(AVPर्_३.३ः९६/१-२) वायुर् बहिष्पवमाने \।

(AVPर्_३.३ः९६/२) होत्रा प्रवरे \।

(AVPर्_३.३ः९६/२) वसवः प्रयाजेषु \।

(AVPर्_३.३ः९६/२-३) यद्देवत्यः सोमस् तद्देवत्यः पशुर् \।

(AVPर्_३.३ः९६/३) वैश्वदेव उन्नीयमान \।

(AVPर्_३.३ः९६/४) ऐन्द्राग्न उन्नीतो \।

(AVPर्_३.३ः९६/४) रुद्रो हूयमानो \।

(AVPर्_३.३ः९६/४-५) वातो मारुतो गणो ऽभ्यावृत्तो \।

(AVPर्_३.३ः९६/५) नृचक्षाः प्रतिख्यातो \।

(AVPर्_३.३ः९६/५-६) भक्षो भक्ष्यमाणः \।

(AVPर्_३.३ः९६/६) सखा भक्षितः \।

(AVPर्_३.३ः९६/६) पितरो नाराशंसा \।

(AVPर्_३.३ः९६/६-७) [आ]ग्नेयं प्रातःसवनम् \।

(AVPर्_३.३ः९६/७) ऐन्द्रं माध्यंदिनं सवनं \।

(AVPर्_३.३ः९६/७-८) यज्ञो दक्षिणायाम् \।

(AVPर्_३.३ः९६/८) ऐन्द्राणि पृष्ठानि \।

(AVPर्_३.३ः९६/८-९) वैश्वदेवं तृतीयसवनं \।

(AVPर्_३.३ः९६/९) वैश्वानरो ऽग्निष्टोमम् \।

(AVPर्_३.३ः९६/१०) ऐन्द्रावरुणं मैत्रावरुणस्योक्थं भवति \।

(AVPर्_३.३ः९६/१०-११) ऐन्द्राबार्हस्पत्यं ब्राह्मणाच्छंसिन उक्थं भवति \।

(AVPर्_३.३ः९६/११-१२) ऐन्द्रावैष्णवम् अछावाकस्योक्थं भवति \।

(AVPर्_३.३ः९६/१२) ऐन्द्रः षोडशीरात्रः \।

(AVPर्_३.३ः९६/१२-१३) पर्यायाग्नेयो \।

(AVPर्_३.३ः९६/१३) राथंतरः सन्धिः \।

(AVPर्_३.३ः९६/१३) सौर्यम् आश्विनम् \।

(AVPर्_३.३ः९६/१३-१४) अहर् यज्ञ \।

(AVPर्_३.३ः९६/१४) आदित्या अनुयाजेषु \।

(AVPर्_३.३ः९६/१४) यद् अन्तरा क्रियते स समुद्रो \।

(AVPर्_३.३ः९६/१४-१५) वरुणो ऽवभृथे \।

(AVPर्_३.३ः९६/१५) समुद्र र्जीषे \।

(AVPर्_३.३ः९६/१५-१६) यद् अवारे तीर्थं तत् प्रायणीयं \।

(AVPर्_३.३ः९६/१६) यत् परे तद् उदयनीयं \।

(AVPर्_३.३ः९६/१६) वैष्णवो वशायां \।

(AVPर्_३.३ः९६/१७) स्वर् दिवि \।

(AVPर्_३.३ः९६/१७) कासु ब्रह्म समिष्ट्याम् \।\। ३ \।\।

(AVPर्_३.४ः९६/१७-१९) यस्या यस्यान्ततः सोमो व्यापद्येत तस्यै तस्यै देवताया इष्टिं निर्वपेद् आज्यहोमान् वा \।

(AVPर्_३.४ः९६/१९) अथ जुहुयात् \।

(AVPर्_३.४ः९६/१९-२०) त्वां यज्ञो विष्णुर् इति च \।

(AVPर्_३.४ः९६/२०-२१) त्वां यज्ञो विष्णुर् यज्ञविष्णू अनूनं हित्वा आत्मानं देवेषु विदयामीति \।

(AVPर्_३.४ः९६/२१-२३) वनस्पते ऽन्ततः स्यानुष्टुभं छन्दसो यं तम् अभ्युक्त एतेन संदधामीति संधाय <यन् मे स्कन्नम् [सेए अबोवे]> इति स्कन्ने \।

(AVPर्_३.४ः९६-९७/२४-१) <यद् अस्मृति [PS २०.८.९, ;SS ७.१०६.१]>_इति च कर्मविपर्यासेति च तद् <यद् ऋक्त ॐ भूर् जनद् [च्f. GB १.३.३ए]> इति गार्हपत्ये जुहुयात् \।

(AVPर्_३.४ः९७/१-२) यदि यजुष्ट ॐ भुवो जनद् इति दक्षिणाग्नौ जुहुयात् \।

(AVPर्_३.४ः९७/३) यदि सामत ॐ स्वर् जनद् इत्य् आहवनीये जुहुयात् \।

(AVPर्_३.४ः९७/४-५) यद्य् अथर्वत ॐ भूर् भुवः स्वर् जनद् ओम् इत्य् आहवनीय एव जुहुयात् \।

(AVPर्_३.४ः९७/५) अथ दैवतान्य् \।

(AVPर्_३.४ः९७/५) आग्नेयं हौत्रं \।

(AVPर्_३.४ः९७/६) वायव्यम् आध्वर्यवं \।

(AVPर्_३.४ः९७/६) सौर्यम् औद्गात्रं \।

(AVPर्_३.४ः९७/६-७) चान्द्रमसं ब्रह्मत्वं \।

(AVPर्_३.४ः९७/७) तस्य ह वा अग्निर् होतासीत् \।

(AVPर्_३.४ः९७/७) वायुर् अध्वर्युः \।

(AVPर्_३.४ः९७/८) सूर्य उद्गाता \।

(AVPर्_३.४ः९७/८) चन्द्रमा ब्रह्मा \।

(AVPर्_३.४ः९७/८-९) पृथिवी वा ऋचाम् आयतनम् \।

(AVPर्_३.४ः९७/९) अग्निर् ज्योतिर् अन्तरिक्षं (वै) यजुषाम् आयतनं \।

(AVPर्_३.४ः९७/१०) वायुर् ज्योतिर् द्यौर् (वै) साम्नाम् आयतनम् \।

(AVPर्_३.४ः९७/१०-१२) आदित्य ज्योतिर् आपो ऽथर्वणाम् आयतनं चन्द्रमा ज्योतिर् इति च \।\। ४ \।\।

(AVPर्_३.५ः९७/१२-१५) अथ यद् अवोचामापत्तौ सोमं चेति यजमानं चेद् राजानं स्तेन ह वा प्रथमश् चाहरेयुश् चित्तव्यापत्युर् वा भवेत् \। इत्य् आहाश्मरथ्यः \।

(AVPर्_३.५ः९७/१५) नेत्य् आहतुः काण्वगोपायनौ \।

(AVPर्_३.५ः९७/१५-१७) यदैव कर्माभ्यध्वर्युर् विहितस् तदैव सर्वक्रतून् प्रत्य् आपदो विहिताः \। इत्य् आहुर् आचार्याः \।

(AVPर्_३.५ः९७/१७-१८) अथ कथम् अत्र यजमानकर्माणि स्युर् \।

(AVPर्_३.५ः९७/१८-१९) उपचारभक्षप्रतिश् चेत्य् अध्वर्युर् अस्य यजमानकर्माणि कुर्यात् \।

(AVPर्_३.५ः९७/१९-२१) अत्र यजमानासने मार्जालीये वा चमसौ निधाय तत्रास्य भक्षकाले भक्षाण्य् उपस्थापयेयुर् आ समिष्टयजुषो होमात् \।

(AVPर्_३.५ः९७-९८/२१-२) प्राक् समिष्टयजुर् होमाच् चेद् यजमान आगच्छेत् समस्तान् एव भक्षजपान् जप्त्वा भक्षयेच् छेषं \।

(AVPर्_३.५ः९८/२-३) समाप्यावभृथम् अभ्युपेयुः \।\। ५ \।\।

(AVPर्_३.६ः९८/३-४) अथ ह यं जीवन् न श्रुतिपथं गछेत् कियन्तम् अस्य कालम् अग्निहोत्रं जुहुयुर् \।

(AVPर्_३.६ः९८/४-७) यद्य् एव हितम् आयुस् तस्याशेषं प्रसंख्या[य] तावन्तं कालं तद् अस्याग्निहोत्रं हुत्वाथास्य प्रायणीयेन प्रचरेयुर् \।

(AVPर्_३.६ः९८/७-८) व्याख्यातः पात्रविनियोगो ऽपि यथैव शरीरादर्शने \।

(AVPर्_३.६ः९८/८-९) स चेज् जीवन्न् आगछेत् कथं वा प्रोष्यागताय यथाकार्यं कर्माणि कुर्यात् \। [एद्. कर्ंआणि]

(AVPर्_३.६ः९८/९-११) स चेत् स्वयमुत्थ[ः] स्याद् पुनर् अस्याग्नीन् आधायाद्भुतानि वाचको जपम् \।

(AVPर्_३.६ः९८/११) इति हुत्वा मार्जयित्वा ततो ऽयम् आगतः कर्माणि कुर्यात् \।

(AVPर्_३.६ः९८/१२-१३) स चेत् पुनर् अनुत्थ[ः] स्यात् तथा संस्थितम् एवास्य तद् अग्निहोत्रं भवति \।

(AVPर्_३.६ः९८/१३-१४) जरामर्यं वा एतत् सत्त्रं यद् अग्निहोत्रम् \।

(AVPर्_३.६ः९८/१४) इति ह श्रुतिर् भवति \।\। ६ \।\।

(AVPर्_३.७ः९८/१४-१६) अथ य आहिताग्निर् विप्रवसन्न् अग्निभिः प्रमीयेत कथं तत्र पात्रविनियोगं प्रतीयात् \। इत्य् आहाश्मरथ्यः \।

(AVPर्_३.७ः९८/१७-१८) यद्य् अन्यानि पात्राणि यज्ञायुधानीत्य् उपसाद्य विहृत्याग्निम् आहृत्य प्रज्वाल्य विहरेयुर् निर्मथ्यम् वा प्रज्वाल्य विहरेत् \।

(AVPर्_३.७ः९८/१९-२०) इत्य् एतावताङ्गप्रभृतिभिः संस्थाप्यैवं पात्रविनियोगम् इत्य् अनुछादयेत् \।

(AVPर्_३.७ः९८/२०-२१) यद् यद् उत्सन्नाः स्युर् वारणीसहितानि पात्राणीत्य् अप्सु समावपेत् \।

(AVPर्_३.७ः९८/२१) एषा ते ऽग्ने \।

(AVPर्_३.७ः९९/१) यो अग्निस् \।

(AVPर्_३.७ः९९/१-३) तया मे ह्य् आरोह तया मे ह्य् आविशेत्य् अश्ममयानि वा लोहमयानि वा ब्राह्मणेभ्यः प्रदद्यात् \।

(AVPर्_३.७ः९९/३) दशरात्रं नियतव्रता[ः] स्युः \।

(AVPर्_३.७ः९९/३-४) संवत्सरं चापि गोत्रिणः \।

(AVPर्_३.७ः९९/४) एकादश्यां केशश्मश्रुलोमनखानि वापयित्वा \।

(AVPर्_३.७ः९९/५-६) अद्भुतानि प्रायश्चित्तानि वाचाकां जपम् इति हुत्वा मार्जयित्वा ततो यथासुखचारिणो भवन्ति \।\। ७ \।\।

(AVPर्_३.८ः९९/६-९) अथ यद्य् एनम् अनाहिताग्निम् इव वृथाग्निना दहेयुर् एवम् अस्यैष मृत्पात्रविनियोगेति पत्न्य भवतीत्य् आहाश्मरथ्यः \।

(AVPर्_३.८ः९९/९) नेत्य् आहतुः काण्वगोपायनौ \।

(AVPर्_३.८ः९९/९-११) यदैव कार्माभ्य् अध्वर्युर् विहितस् तदैव सर्वक्रतून् प्रत्य् आपदो विहिताः \। इत्य् आहुर् आचार्याः \।

(AVPर्_३.८ः९९/११-१३) अथ कथम् अस्याम् आपत्तौ यथैव शरीरादर्शने वा समाम्नातानाम् आपदां कथं तत्र पात्रविनियोगं प्रतीयाद् इत्य् आहाश्मरथ्यः \।

(AVPर्_३.८ः९९/१४-१६) अरण्योर् अग्नीन् समारोप्य शरीराणाम् अर्धम् ….. एषा तूष्णीं निर्मथ्य प्रज्वाल्य विहृत्य मध्ये ऽग्नीनाम् एधांश् चित्वा दर्भान् संस्तीर्य तत्रास्य शरीराणि निदध्युः \।

(AVPर्_३.८ः९९/१६-१७) भारुण्डसामानि गापयेत् \।

(AVPर्_३.८ः९९/१७-१८) यद्य् अगाथः स्याद् अथाप्य् असाम कुर्यात् \।

(AVPर्_३.८ः९९/१८-२०) शरीरादर्शने पालाशत्सरूण्य् आहृत्याथैतानि पुरुषाकृतीनि कृत्वा घृत्[एन्]आभ्यज्य मांसत्वगस्थ्य् अस्य घृतं च भवतीति ह विज्ञायते \। [एद्. वि(र्)ज्ञा-]

(AVPर्_३.८ः९९/२०-२२) यद्य् आहवनीयो देवलोकं यदि दक्षिणाग्निः पितृलोकं यदि गार्हपत्यो मानुष्यलोकं \।

(AVPर्_३.८ः९९/२२-२३) यदि युगपत् सर्वेष्व् अस्य लोकेष्व् अवरुद्धं भवतीति ह विज्ञायते \।

(AVPर्_३.८ः९९/२३-२५) तस्माद् युगपद् एव सर्वांत् सादयित्वाथ यद्य् एनम् अन्[व्]आलभेत पुनर् दहेत् \।

(AVPर्_३.८ः९९/२५) स्तेनम् इव त्व् एव ब्रूयात् \।

(AVPर्_३.८ः९९/२५-२७) यत् किं चाविधिविहितं कर्म क्रियते तस्यैषैव सर्वस्य क्;ल्प्तिः सर्वस्य प्रायश्चित्तिश् चेति हि श्रुतिर् भवति \।

(AVPर्_३.८ः९९-१००/२७-१) अथाप्य् अत्राग्नेर् अयता सोमतनूर् भवति \।

(AVPर्_३.८ः१००/१-२) समन्वागमेवावां कर्मसु समन्व् आत्रागमयेत् \।

(AVPर्_३.८ः१००/२-४) यत् किंचिद् यज्ञे विरिष्टम् आपद्येत तस्यैषैव सर्वस्य क्;ल्प्तिः सार्वस्य प्रायश्चित्तिश् च \। इति हि श्रुतिर् भवति \।\। ८ \।\।

(AVPर्_३.९ः१००/४-५) अथातः सत्त्रिणां वक्ष्यामः \।

(AVPर्_३.९ः१००/५-७) प्रवृत्ते तन्त्रे ऽन्तस्तन्त्रे वा गृहपतिर् उपतापः यस्यायुर् गृही[त्]वानुगछेः कामं तस्य पुत्रं भ्रातरं वोपदीक्ष्य समाप्नुयुर् \।

(AVPर्_३.९ः१००/७-८) (न समाप्नुयुर्) \।

(AVPर्_३.९ः१००/८) न वा ऋत्विजां चैकम् इव \।

(AVPर्_३.९ः१००/८-९) नेत्य् आहाश्मरथ्यः \।

(AVPर्_३.९ः१००/९) न हि गृहपतेर् उपदीक्षा विद्यते \।

(AVPर्_३.९ः१००/९-१०) गृहपतिं समीक्ष्य यदि मन्येत \।

(AVPर्_३.९ः१००/१०-११) जीवेद् अयम् अहोरात्राव् इत्य् एकाहान्य् (एकद्विवासवने) सर्वाणि सवनानि समावेशयेत् \।

(AVPर्_३.९ः१००/११-१२) यस्मिंस् तु समावेशयेत् तस्य सवनस्य वशम् उपयान्तीतराणि \।

(AVPर्_३.९ः१००/१२-१४) सवनानि नानातन्त्राणि चेद् अपि भवन्ति दुर्गापत्तौ च समासे वेष्टीनां समावेश[येद्] वक्ष्यकामः \।

(AVPर्_३.९ः१००/१४-१६) याः काश् चैकतन्त्रा इष्टय[ः] स्युर् अव्यवहिताः कामं ता एकतन्त्रे समावेश्य हविषाम् आनुपूर्व्येण प्रचरेत् \।

(AVPर्_३.९ः१००/१६-१७) प्राक् स्विष्टकृतो मुखं तु पञ्चाज्याहुतीर् जुहुयात् \।

(AVPर्_३.९ः१००/१७-१८) अग्नये सोमाय विष्णव इन्द्राग्निभ्यां प्रजापतय इति \।

(AVPर्_३.९ः१००/१८-२०) यदि सौविष्तकृत्या प्रचरन्ति खलु वै यदि बहूनि वा स्रुवेण यथावदानेनातिक्रामेत् \।\। ९ \।\।

(AVPर्_३.१०ः१००/२०) अथातः स[त्]त्रिणां वक्ष्यामः \।

(AVPर्_३.१०ः१००/२१-२२) प्रवृत्ते तन्त्रे संनद्धेध्माबर्हिषि पश्चाच् चन्द्रमसं पश्येत् \।

(AVPर्_३.१०ः१००/२२-२३) य एषामा(मा)वास्यायाम् आग्नेयः पुरोडाशस् तं पाथिकृतं करोति प्रकृत्येतरं विना \।

(AVPर्_३.१०ः१००/२३-२४) एतद् यज्ञश् छिद्यते य एताम् अन्तरेष्टिं तन्वीत \। इति हि श्रुतिर् भवति \।

(AVPर्_३.१०ः१००-१०१/२४-२) अथ यस्य पौर्णमास्यं (वा) व्यापद्येत कामं तत्र प्राकृतीः कुर्यात् \।

(AVPर्_३.१०ः१०१/२-३) तद् य[ः] क्रतुर् [द्यावाक्रतो वा वायो] विद्यते ऽथ निर्वपति \।

(AVPर्_३.१०ः१०१/३-४) आग्नेयम् अष्टाकपालम् ऐन्द्रम् एकादशकपालम् आसाद्य हवींषि प्रायश्चित्तीर् जुहुयात् \।

(AVPर्_३.१०ः१०१/४-६) यद् उदगान् महतो महिमा अस्य मानो अस्य जगतः पार्थिवस्य मा नः प्रापद् दुछुना काचिद् अन्या \। [एद्. उछुना, च्f. PS १९.१६.५द्]

(AVPर्_३.१०ः१०१/६-७) कस्मै देवाय हविषा परिददेम स्वाहेति \।

(AVPर्_३.१०ः१०१/७) अथातः पशुबन्धः \।

(AVPर्_३.१०ः१०१/७-९) परि यज्ञस्य भोज्यस्य भोज्यवत्का मो ये केचित् तत्रस्थाः पशवः सोमकारिणा तेषां भक्षभक्षणं \।

(AVPर्_३.१०ः१०१/९-१०) तद् यथा \।

(AVPर्_३.१०ः१०१/१०-१२) वराह-मार्जा[र]-माहिषां शकुनो ऽन्यो ऽवदानानि मांसानि जांगलानि च यद्य् अशिषः स्यान् मासि मासि षड्ढोतारं जुहुयात् \।

(AVPर्_३.१०ः१०१/१२-१९) सूर्यं ते चक्षुर् गच्छतु वातो आत्मानं प्राणो द्यां पृष्ठम् अन्तरिक्षम् आत्माङ्गैर् यज्ञं पृथिवीं शरीरैः वाचस्पते ऽछिद्रया वाचाछिद्रया जुह्वा देवावृधं दिवि होत्राम् ऐरयत् स्वाहेति षड्ढोतारं हुत्वा प्रजापतिः सर्वम् एवेदम् उत्सृजेत् \। इति हि श्रुतिर् भवति \।\।१०\।\। (इत्य् अथर्ववेदे वैतानसूत्रे प्रायश्चित्तप्रसंगे एकादशो ऽध्यायः इति यज्ञप्रायश्चित्ते तृतीयो ऽध्यायः समाप्तः) [एद्. त्रितीयो]

(AVPर्_४.१ः१०१/२०-२१) (सान्नाय्यं यद् उद्बो)धयेयुश् चेद् वत्सा वायव्या(या) यवाग्वा सा[न्नाय्]यं यजेत \।

(AVPर्_४.१ः१०१-१०२/२१-१) अप्य् एकस्या[ं] धीतायाम् अधीता दोहयेत् \।

(AVPर्_४.१ः१०२/१-२) अधीताभिः संस्थाप्य धीतानाम् वत्सान् अपाकृत्य श्वः सांनाय्येन यजेत \।

(AVPर्_४.१ः१०२-१०३/२-२) सायं दोहं चेद् अपहरेयुः प्रातर्दोहं द्वैधं कृत्वान्यतरत् सायंदोहस्थाने कृत्वोभाभ्यां यजेत \।

(AVPर्_४.१ः१०३/२-५) प्रातर्दोहं चेद् अपहरेयुः सायंदोहं द्वैधं कृत्वान्यतरत् प्रातर्दोहस्थाने कृत्वोभाभ्यां यजेत \।

(AVPर्_४.१ः१०३/५-७) उभौ चेद् दुष्येयाताम् ऐन्द्रं पञ्चशरावम् ओदनं निरुप्याग्नेयेन प्रचर्यैन्द्रेणानुप्रचरेद् उत्तराम् उपोष्य(तो) व्(आद्)ओभाभ्यां यजेत \।

(AVPर्_४.१ः१०३-१०४/७-१) सर्वाणि चेद् धवींष्य् अपहरेयुर् दुष्येयुर् वाज्येन च देवता यजेत \।

(AVPर्_४.१ः१०४/१-२) अथान्याम् अदोषाम् इष्टिं तन्वीता(म् \। अ)पो दुष्टम् अभ्यवहरेयुर् \।

(AVPर्_४.१ः१०४/२) ब्राह्मणैर् अभक्ष्[य्]अ[ं] दुष्टं हविर् \।

(AVPर्_४.१ः१०४/३-५) भूतं चेद् आज्यं स्कन्देद् भूपतये स्वाहेति त्रिभिर् प्रादेशैर् दिशो मिमाय तद् यजमानो देवाञ् जनम् अगन्न् इत्य् अनुषङ्गः \।

(AVPर्_४.१ः१०४/५-६) यज्ञस्य त्वा प्रमयेति चतसृभिः परिगृह्णीयात् \।

(AVPर्_४.१ः१०४/६-७) यज्ञस्य त्वा प्रमयोन्मयाभिमया प्रतिमया (परिददेम) स्वाहेति \।

(AVPर्_४.१ः१०४-१०५/७-१) अनुत्पूतं चेद् आज्यं स्कन्देद् वित्तं प्राणं दद्यात् \।

(AVPर्_४.१ः१०५/१-४) तथोत्पूतम् उत्पूयमानं चेद् घृतं दद्याद् अथोत्पूतम् उत्पूयमानं चेद् घृतं प्राणं दद्याद् देवतान्तरे चेद् घृतम् \।

(AVPर्_४.१ः१०५/४) आहुतिलोपव्यत्यासे \।

(AVPर्_४.१ः१०५/४-५) त्वं नो अग्ने \। स त्वं न \। इति सर्वप्रायश्चित्तं जुहुयात् \।

(AVPर्_४.१ः१०५/६-८) <त्वं नो अग्ने वरुणस्य विद्वान् देवस्य हेडो ऽवयासिसीष्ठाः \। यजिष्ठो वह्नितमः शोशुचानो विश्वा द्वेषांसि प्रमुमुग्ध्य् अस्मत् [.RV ४.१.४]> \।\।

(AVPर्_४.१ः१०५/८-१०) <स त्वं नो अग्ने ऽवमो भवोती नेदिष्ठो अस्या उषषो व्युष्टौ \। अव यक्ष्व नो वरुणं रराणो वीहि मृडीकं सुहवो न एधि स्वाहा [.RV ४.१.५]>_इति \।

(AVPर्_४.१ः१०५-१०६/१०-२) देवतावदाने याज्यानुवाक्याव्यत्यासे ऽनाम्नातप्रायश्चित्तानां वा यद्य् ऋक्तो ऽभ्य् आबाधः स्याद् भूर् जनद् इति गार्हपत्ये जुहुयात् \। [एद्. -व्यत्यास]

(AVPर्_४.१ः१०६/२) यदि यजुष्ट ॐ भुवो जनद् इति दक्षिणाग्नौ जुहुयात् \।

(AVPर्_४.१ः१०६/३) यदि सामत ॐ स्वर् जनद् इत्य् आहवनीये जुहुयात् \।

(AVPर्_४.१ः१०६/३-७) यद्य् अनाज्ञाता ब्रह्मत ओम् भूर् भुवः स्वर् जनद् ओम् इत्य् आहवनीय एव जुहुयाद् आज्यभागान्ते स्वे देवताम् आवाहयिष्यन् यस्यै(व) हविर् निरुप्तं स्यात् ततोन्तया यजेताज्यस्यैतानि निरुप्य \।

(AVPर्_४.१ः१०६/७-९) यदि भागिनीं नावाहयेद् यत्र स्मरेत् तत्रैनाम् उपोत्थायावाह्यावापस्थाने यजेत \।

(AVPर्_४.१ः१०६/९) बर्हिषि स्कन्ने नाद्रियेत \।

(AVPर्_४.१ः१०६-१०७/९-१) दक्षिणेन चेद् यजेतार्द्धर्चात् प्रतिष्ठां दद्यात् \।

(AVPर्_४.१ः१०७/१-२) पुरोडाशे दु[ः]श्रिते सर्पिष्य् अन्नं चतुःशरावम् ओदनं ब्राह्मणेभ्यो दद्यात् \।

(AVPर्_४.१ः१०७/३) ततस् तम् एव पुनर् निर्वपेत् \।

(AVPर्_४.१ः१०७/४-५) पुरोडाशे विक्षामे यतो ऽस्याक्षामः स्यात् ततो यजेत \। [एद्. पुरोदाषे]

(AVPर्_४.१ः१०७/५) द्वेष्याय तं दद्याद् दक्षिणां च \।

(AVPर्_४.१ः१०७-१०८/५-१) पुरोडाशे सर्वक्षामे निर्वपणप्रभृत्याम् उदाहृत्य \।

(AVPर्_४.१ः१०८/१-२) कपाले नष्ट एकहायनं दद्यात् \।

(AVPर्_४.१ः१०८-१०९/२-२) <धाता दधातु पितुः पितानष्टो घर्मो विश्वायुर् यतो जातस् ततो ऽप्य् अवां स्वाहा [च्f. Mआन्;SS ३.१.२४-२५]>_इति जुहुयात् \।

(AVPर्_४.१ः१०९/२-३) कपाले भिन्ने <गायत्र्या त्वा शताक्षरया संदधामि [MS १.४.१३ः६२.१९]>_इति संधाय <धाता दधातु [सेए अबोवे]>_इत्य् एव जुहुयात् \।

(AVPर्_४.१ः१०९/४-५) आग्नेय[म्] एककपालं निर्वपेद् आश्विनं द्विकपालं वैष्णवं त्रिकपालं सौम्यं चतुःकपालं \।

(AVPर्_४.१ः१०९/५-८) नष्टे भिन्ने च भार्गवो होता कीटावपन्नं सान्नाय्यं मध्यमेन पर्णेन <मही द्यौः [.RV १.२२.१३]>_इत्य् अन्तःपरिधिदेशे निनयेत् \।

(AVPर्_४.१ः१०९-११०/८-१) <मही द्यौः पृथिवी च न इमं यज्ञं मिमिक्षतां \। पिप्र्तां नो भरीमभिः स्वाहा [.RV १.२२.१३]>_इति \।

(AVPर्_४.१ः११०-१११/१-५) प्राक् प्रयाजेभ्यो ऽङ्गारं बर्हिस्य् अधिष्कन्देन् <नमस् ते अस्त्व् आयते नमो अस्तु परायते \। नमो यत्र निषीदसि [TB ३.७.२.७]>_इत्य् अभिमन्त्र्य_<आहं यज्ञं दधे निरृतेर् उपस्थात् तं देवेषु परिददामि विद्वान् \। सुप्रजास् त्वं शतं हि मामदन्त इह नो देवा महि शर्म यछत>_इत्य् आदाय <सहस्रशृङ्गः [PS १८.१६.२, ;SS ४.५.१]>_इत्य् अनुप्रहृत्य \।

(AVPर्_४.१ः१११/५) <मा नो महान्तं [PS १६.१०६.९, ;SS ११.२.२९]> \।

(AVPर्_४.१ः१११/५) <त्वं नो अग्ने [सेए अबोवे]> \।

(AVPर्_४.१ः१११/५-७) <सोमानं स्वरणं कृणुहि ब्रह्मणस्पते कक्षीवन्तं य औशिजः [.RV १.१८.१]> \।

(AVPर्_४.१ः१११/७) <स त्वं नो ऽग्ने [सेए अबोवे]> \।

(AVPर्_४.१ः१११/७-८) <वृषभं चर्षणीनां विश्वरूपम् अदाभ्यं बृहस्पतिं वरेण्यं [.RV ३.६२.६]> \।

(AVPर्_४.१ः१११/८-९) <उद् उत्तमं मुमुग्धि नो वि पाशं मध्यमं चृत अवाधमानि बाधत [च्f. .RV १.२५.२१]> \।

(AVPर्_४.१ः१११/९-१०) <उद् उत्तमं वरुण [PS १८.८२.६, ;SS ७.८३.३/१८.४.६९]>_इत्य् एताभिर् जुहुयात् \।\। १ \।\।

(AVPर्_४.२ः१११/१०-१२) सर्वाणि चेद् आहुतिवेलायां पत्न्य् अनालम्भुका स्यात् ताम् अपरुध्य यजेत \।

(AVPर्_४.२ः१११-११२/१२-१) समाप्यामो ऽहम् अस्मि सा त्वम् इति तस्या दक्षिणं हस्तम् अन्वालभ्योपाह्वयीत \।

(AVPर्_४.२ः११२/१-३) आहुतिश् चेद् बहिष्परिधि स्कन्देद् आग्नीध्रं ब्रूयुः संक्रहिष्यां त्वा जुहुधीति \।

(AVPर्_४.२ः११२/३-४) तस्मै पूर्णपात्रं दद्यात् \।

(AVPर्_४.२ः११२/४-६) पुरोडाशश् चेद् अधिश्रित उद्विजेद् उत्पतेद् वा तम् उद्वास्य बर्हिष्य् आसादयेत् किम् उत्पतसि किम् उत्प्रोष्ठाः शान्तः शान्तेर् इहागहि \।

(AVPर्_४.२ः११२-११३/६-१) अघोरो यज्ञियो भूत्वासीद सदनं स्वम् आसीद सदनं स्वम् \।\।

(AVPर्_४.२ः११३/१-३) मा हिंसीर् देव प्रेषित आज्येन तेजसाज्यस्व मा नः किंचन रीरिषो \। योगक्षेमस्य शान्त्या अस्मिन् आसीद बर्हिर् इति \।

(AVPर्_४.२ः११३/३-४) तप्तं चेत् कर्म (गुणो) त्व् अन्तरियात् सर्वप्रायश्चित्तं हुत्वा मोद्विजेत् \।

(AVPर्_४.२ः११३/४-६) (नाङ्गाहुतिम् अन्तर्हितां दद्यान् \। न त-प-वर्ग-निमित्ताभावात् प्रधानलोपे ऽन्तराये वा निर्वपेद् व्यापद्येत) \।

(AVPर्_४.२ः११३/६-७) शेष्(आद् अवद्येष्)अश् चेद् व्यापद्येताज्येन स्विष्टकृदिडे समाप्नुयात् \।

(AVPर्_४.२ः११३/८-९) समाप्ते चेद् दुष्टो न कृताम् अन्तरां वा विद्यात् पुनरिष्टिर् अभ्यावर्तेत \।

(AVPर्_४.२ः११३/९) यज्ञो यज्ञस्य प्रायश्चित्तिर् भवतीति \।\। २ [\।\।]

(AVPर्_४.३ः११३/१०-११) अग्न्याधेये समित्स्व् आहितासु नाग्निं गृहाद् उद्धरेयुर् नान्यत आहरेयुर् \।

(AVPर्_४.३ः११३/११) न प्रयायान् नानुगछेत् \।

(AVPर्_४.३ः११३/११-१३) यदि प्रयायाद् अनुगछेद् वा संवत्सरं संवत्सराभिप्रायो वा यदि त्वरेद् ब्रह्मौदनं पक्त्वा पुनः समिधम् अभ्यादध्यात् \।

(AVPर्_४.३ः११३/१३-१५) अग्निहोत्रं चेद् अनभ्युद्धृतं शरशरास्याद् अमुं समूहेति ब्रूयात् \।

(AVPर्_४.३ः११३/१५-१६) विष्यन्नम् <अग्ने त्वं नः [.RV ५.२४.१, Kऔश्ऽ ६८.३१]>_इति जुहुयात् \।

(AVPर्_४.३ः११३/१६-१९) मध्यमेन पर्णेन <मही द्यौर् [सेए अबोवे]> इति तन् (मध्यमे पलाशावाणपर्णेन <मही द्यौर्> इति तन् ममध्यमे पलाशावाणपर्णेन <मही द्यौर्> इत्य्) अन्तःपरिधिदेशे निनयेत् \।

(AVPर्_४.३ः११३-११४/१९-१) [द्]उह्यमाना चेद् अवभि[न्]द्याद् अन्यस्यां स्थाल्यां दोहयित्वाधिश्रयेत् \।

(AVPर्_४.३ः११४/१-४) अधिश्रियमाणं चे[त्] स्कन्देद् अधिश्रितम् उन्नीयमानम् उन्नीतं पुनर् एव सन्नम् अहुतं स्कन्देत् पुनर् आनीयान्यां दोहयित्वाधिश्रित्योन्नीय जुहुयात् \।

(AVPर्_४.३ः११४/४-६) प्राचीनं चेद् ध्रियमाणं स्कन्देत् प्रजापतेर् विश्वभृतः स्कन्नाहुतम् असि स्वाहेति \। [एद्. प्रजपतेर्]

(AVPर्_४.३ः११४-११५/६-३) दोहनप्रभृत्या होम स्कन्देत् <समुद्रं त्वा प्रहिणोमि [PS २०.२७.७, च्f. ;SS १०.५.२३]>_इत्य् अपो निनीय_<उद् उत्तमम्> इत्य् अभिमन्त्र्य_<उद् उत्तमं मुमुग्धि नः [सेए अबोवे]>_<उद् उत्तमम् वरुण [सेए अबोवे]>_इति वारुण्य्(एन्)आज्याहुतीर् जुहुयात् \।

% नोते समुद्रं त्वा = Pऐप्पलाद fओर्म् ओf थे मन्त्र; ;SS हस् समुद्रं वः.

(AVPर्_४.३ः११५-११६/३-१) (छावलीं देव) सायं [यस्य] स्कन्नो होमः स्यात् प्रातर् नाश्नीयात् \।

(AVPर्_४.३ः११६/२) प्रात[र् य]स्य स्कन्नो होमः [स्यात्] सायं नाश्नीयान् \।

(AVPर्_४.३ः११६/३-४) (मन्त्रस्कन्नं) चेद् अभिवर्षेन् <मित्रो जनान् यातयति [.RV ३.५९.१]>_इति समिधम् आधायान्या(ं) दुग्ध्वा पुनर् जुहुयात् \।

(AVPर्_४.३ः११६/४-७) <मित्रो जनान् यातयति ब्रुवाणो मित्रो दाधार पृथिवीम् उत द्यां \। मित्रः कृष्टीर् अनिमिषाभिचष्टे मित्राय हव्यं घृतवज् जुहोत स्वाहा [सेए अबोवे]>_इति मन्त्रसंस्कृतं \।

(AVPर्_४.३ः११६/७-९) कीटावपन्नं <हिरण्यगर्भः [PS ४.१.१, ;SS ४.२.७]>_इति वल्मीकवपायाम् अवनीयान्यां दुग्ध्वा पुनर् जुहुयात् \।\। ३ \।\।

(AVPर्_४.४ः११६-११७/९-३) अग्निहोत्रं चेद् अनभ्युद्धृतं सूर्यो ऽभ्युदियाद् <इहैव क्षेम्य एधि मा प्रहासीर् माम् अमुम् आमुष्यायणम् [Aअप्;SS ९.७.६]> इति शमयित्वा प्रणीय प्रवृत्तातिपत्तौ मैत्रं चरुं निर्वपेत् सौर्यम् एककपालं \।

(AVPर्_४.४ः११७/४) वरो दक्षिणा \।

(AVPर्_४.४ः११७/४-५) अग्नीन् उपसमाधाय यजमानः पत्नी वाभुञ्जानौ वाग्यताव् अरणीपाणी सर्वाह्णम् उपासीयाताम् \।

(AVPर्_४.४ः११७/६) द्वयोर् गवोः सायम् अग्निहोत्रं जुहुयात् \।

(AVPर्_४.४ः११७-११८/६-१) अग्नये वैश्वानराय द्वादशकपालं पुरोडाशं निर्वपेत् \।

(AVPर्_४.४ः११८/१-५) यदि ह्य् अयं दिवा प्रजासु हि मन्येत <सजूर् जातवेदो दिवा पृथिव्या हविषो वीहि स्वाहा [च्f. MS १.८.६ः१२३.१]>_इति सजूरुहो वा स्यात् <सजूर् अग्नये दिवा पृथिव्या हविषो वीहि स्वाहा [च्f. KS ६.८ः५७.२०/Kऔश्ऽ ७४.१५]>_इति द्वादशरात्रम् अग्निहोत्रं जुहुयात् \।

(AVPर्_४.४ः११८-११९/५-१) यदि न विरमयेद् <अग्नये सुशीर्यतमो जुषस्व स्वाहा [?]>_इत्य् अपरं द्वादशरात्रं निशायाः सायमाहुतेर् अतिपत्तिर् प्रातराशे प्रातराहुतेर् आसाद्याग्निहोत्रम् आ तमितोर् आसीत \।

(AVPर्_४.४ः११९/१-२) संस्थाप्यौं भूर् भुवः स्वर् जनद् [द्]ओषा वस्तोः स्वाहेति जुहुयात् \।

(AVPर्_४.४ः११९/२-३) अथ प्रातर् अहरह रात्रिंरात्रिम् इत्य् उपस्थाने स्यात् \।

(AVPर्_४.४ः११९/३-४) अग्नये ऽभ्युज्जुषस्व स्वाहा_इति स्रुवेण गार्हपत्ये जुहुयात् \।

(AVPर्_४.४ः११९/४-६) यस्यान्नं नाद्यात् तस्मै ब्राह्मणाय दद्यात् अधस्तात् समिधम् आहरेत् \।

(AVPर्_४.४ः११९/६) स्मृताग्निहोत्री तिरश्चो दर्भान् दक्षिणाग्रान् कुर्यात् \।

(AVPर्_४.४ः११९-१२०/७-२) यस्योभाव् अनुगतौ सूर्यो ऽभिनिम्लोचेद् अभ्युदियाद् वारणिं गता वा नश्येयुर् असमारूढा वा प्रकृत्यैव पुनर् आदधीत \।\। ४ \।\। इति यज्नप्रायश्चित्ते चतुर्थो ऽध्यायः समाप्तः \।\।

(AVPर्_५.१ः१२१/१-२) अग्निहोत्रं चेद् अनभ्युद्धृतं सूर्यो ऽभिनिम्लोचेद् ब्राह्मणो बहुविद् उद्धरेत् \।

(AVPर्_५.१ः१२१/२-३) यो ब्राह्मणो बहुवित् स्यात् समुद्धरेत् \।

(AVPर्_५.१ः१२१/३-४) सर्वेणैवैनं तद् ब्राह्मण उद्धरेद् येनान्तर्हित[ं] हिरण्यम् अग्रतो हरेत् \।

(AVPर्_५.१ः१२१/४-५) वारुणं यवमयं चरुं निर्वपेद् <इत एव प्रथमम्> इति \।

(AVPर्_५.१ः१२१-१२२/५-४) <इत एव प्रथमं जाज्ञे अग्निर् आभ्यो योनिभ्यो अधि जातवेदाः \। स गायत्र्या त्रिष्टुभा जगत्यानुष्टुभा देवो देवेभ्यो हव्यं वहतु प्रजानन् [Kऔश्ऽ १३३.६, TB १.४.४.८]>_इति पश्चाद् गार्हपत्यलक्षणस्यारणी निधाय मथित्वा \।

(AVPर्_५.१ः१२१/१-२) <इषे राय्यै रमस्व [TB १.४.४.८]>_इत्य् आदध्यात् \।

(AVPर्_५.१ः१२२/४-६) <इषे राय्यै रमस्व सहसे द्युम्न ऊर्जे ऽपत्याय \। संराड् असि स्वराड् असि सारस्वतौ त्वोत्सौ प्रावताम् [च्f. TB १.४.४.८]> इति \। [एद्. रय्यै]

(AVPर्_५.१ः१२२/६-७) यः कश् चाग्नीनाम् अनुगछेन् निर्मन्थ्यश् चेद् दक्षिणाग्निम् \।

(AVPर्_५.१ः१२३/१-२) अहुते चेत् सायं पूर्वो ऽनुगछेद् अग्निहोत्रम् अधिश्रित्योन्नीयाग्निना पूर्वेणोद्धृत्याग्निहोत्रेणानुद्रवेत् \।

(AVPर्_५.१ः१२३/३) अदत्तपूर्वधनं दद्यात् \।

(AVPर्_५.१ः१२३/३) श्वस् तपस्वतीं निर्वपेत् \।

(AVPर्_५.१ः१२३/४-६) <आयाहि तपसा जनिष्व् अग्ने पावको अर्चिषा \। उपेमां सुष्टुतिं मम \। आ नो याहि तपसा जनेष्व् आग्ने पावक दीद्यत् \। हव्या देवेषु नो दधत् [Aअप्;SS ९.३.३]>_इति हवींषि दद्यात् \।

(AVPर्_५.१ः१२३/६-७) सायम् अहुतम् अतीतरस्मिन्न् एतद् एव प्रायश्चित्तम् अन्यत्रापि ष्णुत्या चेत् \।

(AVPर्_५.१ः१२३/८-९) अहुते चेत् प्रातः पूर्वो ऽनुगच्छेद् अवदाहेषुम् अश्नीयात् \।

(AVPर्_५.१ः१२३/९-१०) तेष्व् अलभ्यमानेषु भस्मनारणिं संस्पृश्य मथित्वावदध्यात् \।

(AVPर्_५.१ः१२३/१०) अग्नये ज्योतिष्मत इष्टिं निर्वपेत् \।

(AVPर्_५.१ः१२३-१२४/१०-२) अहुते चेत् प्रातर् अपरो वानुगच्छेद् अनुगमयित्वा पूर्वं मथित्वापरम् उद्धृत्य जुहुयात् \।

(AVPर्_५.१ः१२४/२-३) त्वरमाणः पूर्वम् अग्निम् अन्ववसाय ततः पश्चात् प्राञ्चम् उद्धृत्य जुहुयात् \।\। १ \।\।

(AVPर्_५.२ः१२४-१२५/४-१) उपरुद्धे चेन् मथ्यमानो न जायेत यत्र दीप्यमानं परापश्येत् तत आहृत्याग्निहोत्रं जुहुयात् \।

(AVPर्_५.२ः१२५/१-२) यदि तं न विन्देद् ब्राह्मणस्य दक्षिणे पाणौ जुहुयात् \।

(AVPर्_५.२ः१२५/२-३) ततो ब्राह्मणं न परिचक्षीत \।

(AVPर्_५.२ः१२५/३-४) यदि तं न विन्देद् अजाया दक्षिणे कर्णे जुहुयात् \।

(AVPर्_५.२ः१२५/४) ततो ऽजां नाश्नीयात् \।

(AVPर्_५.२ः१२५/४-५) यदि तां न विन्देद् दर्भस्तम्बेषु जुहुयात् \।

(AVPर्_५.२ः१२५/५) ततो दर्भेषु नासीत \।

(AVPर्_५.२ः१२५/५-६) यदि तान् न विन्देद् अप्सु जुहुयात् \।

(AVPर्_५.२ः१२५/६) ततो ऽद्भिः पादौ न प्रक्षालयीत \।

(AVPर्_५.२ः१२५/६-७) यदि तान् न विन्देद् धिरण्ये जुहुयात् \।

(AVPर्_५.२ः१२५/७) ततो हिरण्यं न बिभृयात् \।

(AVPर्_५.२ः१२५/८) आपदि मथित्वा विहृत्याग्निहोत्रं जुहुयात् \।

(AVPर्_५.२ः१२५/८-१०) अग्निहोत्रे चेद् अनभ्युद्धृते हविषि वा निरुप्ते शकुनिः श्येनः श्वा वान्तरेण व्यवेयाद् <इदं विष्णुर् [;SS ७.२६.४]> इति \।

(AVPर्_५.२ः१२५/१०-११) <इदं विष्णुर् विचक्रमे त्रेधा निदधे पदं \। समूढम् अस्य पांसुरे [;SS ७.२६.४]> \।

% नोते ;SS मन्त्र इन् प्रतीक+सकलपाठ

(AVPर्_५.२ः१२५/११-१२) <प्र तद् विष्णुर् [PS २०.७.१०, ;SS ७.२६.२]> इति भस्मना पदम् उपवपेत् \।

(AVPर्_५.२ः१२५/१२-१६) अनो रथास्य पुरुषो [वा] व्यवेयाद् <यद् अग्ने पूर्वं निहितं पदं हि ते सूर्यस्य रश्मीन् अन्वाततान \। तत्र रयिष्ठाम् अनुसंभरैतां सं नः सृज सुमत्या वाजवत्या [Mआन्;SS ३.४.१०]>_इत्य् आदध्यात् \।\। २ \।\।

(AVPर्_५.३ः१२५-१२६/१६-२) अन्वाहिताग्निश् चेत् प्रयायात् <तुभ्यं ता अङ्गिरसस्तम विश्वाः सुक्षितयः पृथग् अग्ने कामाय येमिरे [.RV ८.४३.१८, Mआन्;SS १.६.३.१]> इति हुत्वा प्रयायात् \।

(AVPर्_५.३ः१२६/२-४) अन्वाहितश् चेद् अनुगछेद् <अन्व् अग्निर् [;SS ७.८२.४/१८.१.२७]> इत्य् अन्यं प्रणीयाग्न्यन्वाधानव्रतोपायनाभ्यां मनसोपस्थाय भूर् इति व्याहरेत् \।

% नोते अन्व् अग्निर् नोत् इन् PS

(AVPर्_५.३ः१२६/४-५) पाथिकृती स्यात् पथो ऽन्तिकाद् दर्भान् आहरेत् \।

(AVPर्_५.३ः१२६/५) अनड्वान् दक्षिणा \।

(AVPर्_५.३ः१२६-१२७/५-१) सर्वत्र पाथिकृत्याम् अनड्वान् \।

(AVPर्_५.३ः१२७/१-३) अग्नीनां चेत् कश् चिद् उपवक्ष्(अय्)एत् स शम्[या]या[ः] प्राग् वासं पाथिकृती स्यात् \।

(AVPर्_५.३ः१२७/३-५) शम्[या]याः परा(क्) परास्(य्)आच् चेद् <इदं त एकम् [PS १८.६९.५, ;SS १८.३.७]> इति तान्त् संभरेत् <पर ऊ त एकम् [इबिद्.]> इति द्वितीयं द्वितियेन \।

% पर ऊः दोएस् ;SS रेअल्ल्य् हवे पुर ऊ (ए-तेxत्)?

(AVPर्_५.३ः१२७/५) तृतीयं <तृतीयेन ज्योतिषा [इबिद्.]>_इति \।

(AVPर्_५.३ः१२७/५-६) तस्माद् अवख्यायास् तत्र निर्वपेत् \।

(AVPर्_५.३ः१२७/६-७) अधि चेद् अनुप्रायाय मथित्वा तत्रैकान् वसेत् कालातिपाते च दर्शपूर्णमासयोः \।

(AVPर्_५.३ः१२८/१-२) विध्यर्धसमाप्ते चेद् अपराधं विद्यात् (समाप्ते चेत् स्)त्रीन् हविष्यात् \।

(AVPर्_५.३ः१२८/२-३) अग्नये वैश्वानराय द्वादशकपालं पुरोडाशं निर्वपेत् \।

(AVPर्_५.३ः१२८/३-४) यस्य हविर् निरुप्तं पुरस्ताच् चन्द्रमा अभ्युदियात् तांस् त्रेधा तण्डुलान् विभजेत् \।

(AVPर्_५.३ः१२८/४-५) ये मध्यमास् तन् अग्नये दात्रे ऽष्टाकपालं पुरोडाशं निर्वपेत् \।

(AVPर्_५.३ः१२८/५-६) ये स्थविष्ठास् तान् इन्द्राय प्रदात्रे दधनि चरुं \।

(AVPर्_५.३ः१२८/६-७) ये क्षोदिष्ठास् तान् विष्णवे शिपिविष्टाय \।

(AVPर्_५.३ः१२८/७-८) श्रिते प्राग् उक्ते तण्डुलाभावाद् अर्धं वा विद्यात् \।\। ३ \।\।

(AVPर्_५.४ः१२८/८-९) अग्नये वीतये ऽष्टाकपालम् पुरोडाशं निर्वपेद् यस्याग्नयो मिथः संसृज्येरन् \।

(AVPर्_५.४ः१२८/९-११) अग्नये विविचये ऽष्ताकपालं पुरोडाशं निर्वपेद् यस्याग्नयो ग्राम्येणाग्निना संसृज्येरन् \।

(AVPर्_५.४ः१२८/११-१३) अग्नये शुचये ऽष्टाकपालं पुरोडाशं निर्वपेद् यस्याग्नयः शावेनाग्निना संसृज्येरन् \।

(AVPर्_५.४ः१२८/१३-१४) अग्नये ऽन्नादाया ऽन्नपतये ऽष्टाकपालं पुरोडाशं निर्वपेद् यस्याग्नयो दावेनाग्निना संसृज्येरन् \।

(AVPर्_५.४ः१२८/१४-१६) अग्नये ज्योतिष्मते ऽष्टाकपालं पुरोडाशं निर्वपेद् यस्याग्नयो दिव्येनाग्निना संसृज्येरन् \।

(AVPर्_५.४ः१२८/१६-१७) अग्नये ऽग्निमते ऽष्टाकपालं पुरोडाशं निर्वपेद् यस्याग्नयो ऽभिप्लवेरन् \।

(AVPर्_५.४ः१२८-१२९/१७-२) अग्नये ऽग्निमते ऽस्टाकपालं पुरोडाशं निर्वपेद् य आहवनीयम् अनुगतम् अभ्युद्धरेत् \।

(AVPर्_५.४ः१२९/२-४) अग्नये क्षामवते ऽष्टाकपालं पुरोडाशं निर्वपेद् यस्याहिताग्नेर् अग्निगृहान् अग्निर् दहेद् अनग्निर् गृहान् वा \।

(AVPर्_५.४ः१२९/४-६) अग्नये व्रतपतये ऽष्टाकपालं पुरोडाशं नि[र्]वपेद् य आहिताग्निर् आर्तिजम् अश्रु कुर्यात् ततः प्रवसेत् \।

(AVPर्_५.४ः१२९-१३०/६-२) अग्नये व्रतभृते ऽष्टाकपालं पुरोडाशं निर्वपेद् पर्वणि यो व्रतवेलायाम् अव्रत्यं चरेद् अग्नये तन्तुमते ऽष्टाकपालं पुरोडाषं निर्वपेद् यस्य संततम् अग्निहोत्रं जुहुयुः \।\। ४ \।\।

(AVPर्_५.५ः१३०/२-३) अथ संनिपतितेषु प्रायश्चित्तेषु वैविचीं प्रथमां कुर्यात् \।

(AVPर्_५.५ः१३०/३-४) ततो ऽग्नये शुचये \।

(AVPर्_५.५ः१३०/४-५) व्रातपतीम् अन्ततः क्षामवतीं परिवर्त्तयेद् यस्याग्निष्व् अन्यं याजयेद् यो वा यजेत् \।

(AVPर्_५.५ः१३०/५-७) मारुतं त्रयोदशकपालं पुरोडाशं निर्वपेद् यस्य यमौ पुत्रौ जायेयातां गावो वा \।

(AVPर्_५.५ः१३०/७-८) यमसूर् दक्षिणा धेनुर् भार्या वा \।

(AVPर्_५.५ः१३०/८-९) पृषदाज्यं चेत् स्कन्नं <स्कन्ना द्यौर् [Aअप्;SS ९.१७.१]> इत्य् अभिमन्त्र्य \।

(AVPर्_५.५ः१३०-१३१/९-५) <स्कन्ना द्यौः स्कन्ना पृथिवी स्कन्नं विश्वम् इदं जगत् स्कन्नादो विश्वे देवाः प्रा स्कन्ना[त्] प्रायतां हविर् [Aअप्;SS ९.१७.१]> इत्य् अभिमन्त्र्य_<इह गावः प्रजायध्वम् [PS १९.२१.१०, ;SS २०.१२७.१२]> इत्य् अन्यस्य पृषदाज्यस्य जुहुयात् पशुगवा चेत् स्रुवैर् हुत्वास्रावं यात्य् अवदानम् अकर्मेत्य् अन्यस्यां दृढतरायां श्रपयेयुर् \।

(AVPर्_५.५ः१३१/५-६) [यद्य्] अवदानं न विन्देत् तदाज्यस्यावद्येत् \।

(AVPर्_५.५ः१३१/६-८) उपाकृतश् चेत् पशुः प्रपतेद् वायव्यां यवागूं निरुप्यान्यं तद्रूपं तद्वर्णम् इति समानं \।\। ५ \।\।

(AVPर्_५.६ः१३१/८-११) अथ यस्याहर्गणे [ऽ]विसमाप्ते यूपो विरोहेत् प्रवृह्य यूपविरूढान्य् अवलोप्य <तपो ह्य् अग्ने अन्तराम् अमित्रां तप शंसम् अररुषः परस्य तपो वसो चिकितानो अचित्तान् वि ते तिष्ठन्ताम् अजरा अयासः [.RV ३.१८.२, Aअप्;SS १४.२९.३]> \।

(AVPर्_५.६ः१३१/११-१४) <यो नः सनुत्यो अभिदासद् अग्ने यो अन्तरो मित्रमहो वनुष्यात् \। तम् अजरेभिर् वृषभिस् तव स्वैस् तपा तपिष्ठ तपसा तपस्वान् [.RV ६.५.४]> \।

(AVPर्_५.६ः१३१/१४-१६) <यस्मात् कृणोति केतुम् आ नक्तं चिद् दूर आ सते \। पावको यद् वनस्पतीन् यस्मान् मिनोत्य् अजरो (नभिहित) [.RV ५.७.४, Aअप्;SS १४.२९.३]> इति द्वे \।

(AVPर्_५.६ः१३१/१६-१८) पञ्चभिर् अपरं पर्युक्ष्य <सुपर्णा वाचम् [PS १९.३१.१६, ;SS ६.४९.३]> इति विरूढानि हुत्वा पुनःसमायात् तस्मिंस् त्वाष्ट्रम् अजं पिङ्गलं पशुं बहुरूपम् आलभेत \।

(AVPर्_५.६ः१३१/१८-१९) अग्निना तपो ऽन्वभवत् \।

(AVPर्_५.६ः१३१/१९) वाचा ब्रह्म \।

(AVPर्_५.६ः१३१/१९) मणिना रूपाणि \।

(AVPर्_५.६ः१३१/१९) इन्द्रेण देवान् \।

(AVPर्_५.६ः१३१/२०) वातेन प्राणान् \।

(AVPर्_५.६ः१३१/२०) सूर्येण द्यां \।

(AVPर्_५.६ः१३१/२०) चन्द्रमसा नक्षत्राणि \।

(AVPर्_५.६ः१३१/२१) यमेन पितॄन् \।

(AVPर्_५.६ः१३१/२१) राज्ञा मनुष्यान् \।

(AVPर्_५.६ः१३१/२१) उपलेन नादेयान् \।

(AVPर्_५.६ः१३१/२१-२२) अजगरेण सर्पान् \।

(AVPर्_५.६ः१३१/२२) व्याघ्रेणारण्यान् पशून् \।

(AVPर्_५.६ः१३१/२२) श्येनेन पतत्रिणः \।

(AVPर्_५.६ः१३१/२३) वृष्णाश्वान् \।

(AVPर्_५.६ः१३१/२३) ऋषभेण गाः \।

(AVPर्_५.६ः१३१/२३) बस्तेनाजाः \।

(AVPर्_५.६ः१३१/२३) वृष्णिनावीः \।

(AVPर्_५.६ः१३१-१३२/२३-१) व्रीहिणान्नानि \।

(AVPर्_५.६ः१३२/१) यवेनौषधीः \।

(AVPर्_५.६ः१३२/१) न्यग्रोधेन वनस्पतीन् \।

(AVPर्_५.६ः१३२/१-२) उदुम्बरेनोर्जं \।

(AVPर्_५.६ः१३२/२) गायत्र्या छन्दांसि \।

(AVPर्_५.६ः१३२/२) त्रिवृता स्तोमान् \।

(AVPर्_५.६ः१३२/२-४) ब्राह्मणेन वाचम् इति ब्रह्मा पूर्णाहुतिं जुहुयात् \।\। ६ \।\। इति यज्ञप्रायश्चित्ते पञ्चमो ऽध्यायः समाप्तः \।

(AVPर्_६.१ः१३२/५) अथातः सौमिकानि व्याख्यास्यामः \।

(AVPर्_६.१ः१३२/५-७) हविर्धाने चेत् प्रपतेयातां पुरा बहिष्पवमानाद् अध्वर्युर् दक्षिणम् उद्गृह्णीयात् \।

(AVPर्_६.१ः१३२/७) प्रतिप्रस्थातोपस्तभ्नुयात् \।

(AVPर्_६.१ः१३२/७-८) प्रतिप्रस्थातोत्तरम् उद्गृह्णीयात् \।

(AVPर्_६.१ः१३२/८-११) अध्वर्युर् उपस्तभ्नुयाद् यथाप्रकृति स्तम्भानोपमानौ (!) <सम् अश्विनोर् अवसा नूतनेन मयोभुवा सुप्रणीती गमेम \। आ नो रयिं वहतम् ओत वीरान् आ विश्वान्य् अमृता सौभगानि [.RV ५.४२.१८ एत्च्.]> \।

(AVPर्_६.१ः१३२/११-१२) <शिरो यज्ञस्य प्रतिधीयताम् अमृतं देवतामयं> \।

(AVPर्_६.१ः१३२/१२) वैष्णव्याः \।

(AVPर्_६.१ः१३२/१२-१६) (क्रियतां शिर आश्विन्याः प्रतिह्रीयतां अमृतां) <द्युभिर् अक्तुभिः परिपातम् अस्मान् अरिष्टेभिर् अश्विना सौभगेभिः \। तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौर् [.RV १.११२.२५]> इत्य् आग्नीध्रीये जुहुयात् \।

(AVPर्_६.१ः१३२/१६-१८) औदुम्बरीं चेद् अपहरेयुर् यम् एव कां चित् प्रछिद्यावदध्याद् अध्वर्युर् उद्गाता यजमानः \।

(AVPर्_६.१ः१३२/१८-१९) <ऊर्ग् अस्य् ऊर्जं मयि धेहि \। श्रियां तिष्ठ प्रतिष्ठिता \। दिवं स्तब्ध्वान्तरिक्षं च पृथिव्यां च दृढा भव [Aअप्;SS १४.३३.२]>_इति \।

(AVPर्_६.१ः१३३/१) <धर्त्रि धरित्रि जनित्रि यमित्रि [Aअप्;SS १४.३३.२]>_इति ब्रह्मा \।

(AVPर्_६.१ः१३३/१-२) अन्तःसदसो बहिष्पवमानेन स्तूयुर् \।

(AVPर्_६.१ः१३३/२-५) दीक्षितस्य गार्हपत्यो ऽन्ते गार्हपत्यो ऽनुगच्छेद् <अग्निं नरो दीधितिभिर् अरण्योर् हस्तच्युती जनयन्त प्रशस्तं \। दूरेदृशं गृहपतिम् अथर्युम् [.RV ७.१.१, Aअप्;SS १४.१६.१]> इति मथित्वावदध्यात् \।

(AVPर्_६.१ः१३३/५-६) आश्व् अनुप्रणीतश् चेद् अनुगछेद् एतयैव मथित्वावदध्यात् \।

(AVPर्_६.१ः१३३/६-७) अग्नयश् चेन् मिथः संसृज्येरन्न् <अग्निनाग्निः संसृज्यते [.RV १.१२.६; च्f. Kऔश्ऽ १०८.१-२]>_इत्य् एते जपेत् \।

(AVPर्_६.१ः१३३/७-९) शालामुखीयश् चेद् अनुगच्छेद् गार्हपत्यात् प्रणीय <भद्रं कर्णेभिर् [सेए बेलोw]> इति चतस्रो जपेत् \।

(AVPर्_६.१ः१३३/९-११) <भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर् यजत्राः \। स्थिरैर् अङ्गैस् तुष्टुवांसस् तनूभिर् व्यशेम देवहितं यद् आयुः [.RV १.८९.८, Aअप्;SS १४.१६.१]> \।

(AVPर्_६.१ः१३३/११-१३) <स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः \। स्वस्ति नस् तार्क्ष्यो ऽरिष्टनेमिः स्वस्ति नो बृहस्पतिर् दधातु [.RV १.८९.६, Aअप्;SS १४.१६.१]> \।

(AVPर्_६.१ः१३३/१३-१६) <पृषदश्वा मरुतः पृश्निमातरः शुभंयावानो विदथेषु जग्मयः \। अग्निजिह्वा मनवः सूरचक्षसो विश्वे नो देवा अवसा गमन्न् इह [.RV १.८९.७, Aअप्;SS १४.१६.१]> \।

(AVPर्_६.१ः१३३/१६-१८) <शतम् इन् नु शरदो अन्ति देवा यत्र नश् चक्रा जरसं तनूनां \। पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर् गन्तोः [.RV १.८९.९, Aअप्;SS १४.१६.१]> \। इति \।

(AVPर्_६.१ः१३३/१८-१९) <प्रेद्धो अग्ने [सेए बेलोw]> इति चतसृभिर् जुहुयात् \।

(AVPर्_६.१ः१३३/१९-२०) <प्रेद्धो अग्ने दीदिहि पुरो नो जस्रया सूर्म्या यविष्ठ \। त्वां शश्वन्त उप यन्ति वाजाः [.RV ७.१.३]> \।

(AVPर्_६.१ः१३३/२०-२३) <सप्त ते अग्ने समिधः सप्त जिह्वाः सप्त र्षयः सप्त धाम प्रियाणि \। सप्त होत्राः सप्तधा त्वा यजन्ति सप्त योनीर् आपृणस्व घृतेन स्वाहा [TS १.५.३.२ एत्च्.]> \।

(AVPर्_६.१ः१३३/२३-२५) <यन् मे मनसश् छिद्रं यद् वाचो यच् च मे हृदः \। अयं देवो बृहस्पतिः सं तत् सिञ्चतु राधसा [Aअप्;SS १४.१६.१]> \।

(AVPर्_६.१ः१३३/२५) <ममाग्ने वर्चः [PS ५.४.१, ;SS ५.३.१]>_इति \।

(AVPर्_६.१ः१३३-१३४/२५-१) एकाग्निध्रीयश् चेद् अनुगच्छेद् गार्हपत्यात् प्रणीय <ममाग्ने वर्चः [सेए अबोवे]> इति षड्भिर् जुहुयात् \।

(AVPर्_६.१ः१३४/१-२) औत्तरवेदिकश् चेद् अनुगच्छेच् छालामुखीयात् प्रणीय_<इमो अग्ने [सेए बेलोw]>_इति त्रयोदशभिर् जुहुयात् \।

(AVPर्_६.१ः१३४/२-४) <इमो अग्ने वीततमानि हव्याजस्रो वक्षि देवतातिम् अछा प्रति न ईं सुरभीणि व्यन्तु [.RV ७.१८.१]> \।

(AVPर्_६.१ः१३४/४-५) <सप्त ते अग्ने समिधः [सेए अबोवे]> \। <यन् मे मनसश् छिद्रं [सेए अबोवे]> \। <ममाग्ने वर्च [सेए अबोवे]> इति जुहुयात् \।

(AVPर्_६.१ः१३४/५-७) पशुश्रपणश् चेद् अनुगच्छेद् औत्तरवेदिकात् प्रणीय <त्वं नो अग्ने [सेए अबोवे]> <स त्वं न [सेए अबोवे]> इति सर्वप्रायश्चित्तं हुत्वा \।

(AVPर्_६.१ः१३४/७-८) यद्य् उख्यो ऽनुगच्छेत् पुनः पुनः प्रज्वाल्य \।\। १ \।\।

(AVPर्_६.२ः१३४/८-१०) <कायमानो वना त्वं यन् मातॄर् अजगन्न् अपः \। न तत् ते अग्ने प्रमृषे निवर्तनं यद् दूरे सण्न् इहाभवः [.RV ३.९.२]> \।

(AVPर्_६.२ः१३४-१३५/१०-२) <यास् ते अग्न आर्द्रा योनयो याः कुलायिनीः \। ये ते अग्न इन्दवो या उ नाभयः \। यास् ते अग्ने तन्व ऊर्जो नाम ताभिष् ट्वम् उभयीभिः संविदानः शतं चिन्वानस् तन्वा निषीदत [च्f. KS ३९.३ः१२१.४]> \।

(AVPर्_६.२ः१३५/२-४) <साकं हि शुचिना शुचिः प्रशस्ता क्रतुनाजनि \। विद्वा"न् अस्य व्रता ध्रुवा वया इवानु रोहते [.RV २.५.४]>_इत्य् आधाय समिधं कृष्णां दद्यात् \।

(AVPर्_६.२ः१३५/४-५) वासोयुगं धेनुं वा \।

(AVPर्_६.२ः१३५/५-८) यद्य् उखा वा भिद्येत तैर् एव कपालैः संचित्यान्यां कृत्वा <स्यूता देवेभिर् अमृतेनागाः [PS १९.४४.१, Aअप्;SS १६.२६.६]> <उखां स्वसारम् अधि वेदिम् अस्थात् सत्यं पूर्वैर् ऋषिभिश् चाकुपानो अग्निः प्रविद्वान् इह तत् करोतु [Aअप्;SS १६.२६.६]> \।

(AVPर्_६.२ः१३५/८) <स्तवादेजरुधरनमद्रिर् [?]> इत्य् अनुमन्त्रयेत् \।

(AVPर्_६.२ः१३५/९-११) वसतीवरीश् चेत् स्कन्देयुः <पृथिवी विभूवरी सिनीवाल्य् उरुंधेत्य् आवृत्ते \। नमस् ते भुवो विश्व[ं] तद् [च्f. KS ३५.३ः५१.१६/Aअप्;SS १४.१७.३. Sएए अप्परतुस् नोते ९६४, अन्द् च्f. रेअदिन्ग् ओf D wइथ् KS/Aअप्;SS. Oन् थिस् बसिस्, अ fइर्स्त् स्तेप् तोwअर्द्स् इम्प्रोविन्ग् थे एदितिओन् हस् बेएन् तकेन्]> गृहीत्वा <मान्दा वाशा [सेए बेलोw]> इति चतसृभिर् आग्नीध्रीये जुहुयात् \।

(AVPर्_६.२ः१३५/११-१३) <मान्दा वाशाः शुन्ध्यूर् अजिराः \। उन्दतीः सुफेनाः ज्योतिष्मतीस् तमस्वतीर् \। मित्रभृतः क्षत्रभृतः स्वराष्ट्रा इह मावत [TS २.४.७.२] \।

(AVPर्_६.२ः१३५/१३-१४) <वृष्णो अश्वस्य संदानम् असि वृष्ट्यै त्वोप नह्यामि [TS २.४.७.२]> \।

(AVPर्_६.२ः१३५-१३६/१४-१) <देवा वसवा अग्ने इन्द्र सूर्य \। देवा उद्नो दत्तोदधिं भिन्त्त दिवस् पर्जन्याद् अन्तरिक्षात् समुद्रात् ततो नो वृष्ट्यावत [च्f. TS २.४.८.१]> \।

(AVPर्_६.२ः१३६/१-४) <देवा युजो मित्रावरुणार्यमा युक्तं देवाः सपीतयो अपां नपात् तनूनपान् नराशंस उद्नो दत्तो ऽदधिं भिन्त्त दिवस् पर्जन्याद् अन्तरिक्षात् समुद्रात् ततो नो वृष्ट्यावत [च्f. TS २.४.८.१]>_इति \।

(AVPर्_६.२ः१३६/४-५) प्रवृत्ताश् चेत् स्युः <सं मा सिञ्चन्तु [PS ६.१८-१९, ;SS ७.३३.१]>_इति संसिञ्चेत् \। [एम्., एद्. समा-]

(AVPर्_६.२ः१३६/५-६) निवृत्ताश् चेत् स्युर् <अपाम् ऊर्मी [;SS २०.२८.४?]>_इति गृहीत्वा षड्भिर् आहवनीये जुहुयात् \।

% नोते मन्त्र नोत् इन् PS

(AVPर्_६.२ः१३६/६-८) <इन्द्रियावान् मदिन्तमस् तं वो माव क्रमिषम् \। अछिन्नं तन्तुं पृथिव्या अनु गेषम् [TS १.२.३.३]> इति हुत्वा \।\। २ \।\।

(AVPर्_६.३ः१३६/८-१०) अभिवृष्टे सोमे <द्यौश् च त्वा पृथिवी च शृणीताम् अन्तरिक्षं च [च्f. KS ३५.११ः५८.९]> \। <इन्दुर् इन्दुम् अवागाद् इन्दोर् इन्द्रो ऽपात् [TB ३.७.१०.६, Aअप्;SS १४.२९.२, च्f. KS ३५.११ः५८.१४]> \।

(AVPर्_६.३ः१३६/१०-१३) <यज्ञश् च त्वा वायुश् च शृणीताम् [च्f. KS ३५.११ः५८.१२]> <अहश् च त्वा रात्रीश् च शृणीतां [KS ३५.११ः५८.९]> <दर्शश् च त्वा पौर्णमासश् च शृणीतां [च्f. KS ३५.११ः५८.१३]> <यज्ञश् च त्वा दक्षिणा च शृणीतां [च्f. KS ३५.११ः५८.१२]> <दक्षश् च त्वा मानसश् च शृणीताम् [च्f. PS २०.३७.५अ]> <अर्कश् च त्वाश्वमेधश् च शृणीताम् [KS ३५.११ः५८.१४]> \।

(AVPर्_६.३ः१३६/१३-१६) <…. श् च त्वा …. इन्दुर् इन्दुम् उपागात् सायामे सो म भूत् सर्व तस्य त इन्दव् \। इन्द्रपीतस्योपहूतस्योपहूतो भक्षयामि [;Sआङ्ख्;SS १३.१२.१०, TB ३.७.१०.६, Aअप्;SS १४.२९.२]>_इत्य् अभिमृष्टस्य भक्षयेत् \।

(AVPर्_६.३ः१३६/१६-१८) ससोमं चेच् चमसं सदसि स्तोत्रेणाभ्युपाकुर्यात्_<हिरण्यगर्भस् [सेए अबोवे, नोते इन् चोम्बिनतिओन् wइथ् नेxत् मन्त्र अल्सो TAA १.१३.३]> <तद् इत् पदम् [TB ३.७.१०.६]> इति द्वाभ्यां जुहुयात् \।

(AVPर्_६.३ः१३६/१९-२०) <तद् इत् पदं न विचिकेत विद्वान् यन् मृतः पुनर् अप्य् एति जीवान् [TB ३.७.१०.६]> \।

(AVPर्_६.३ः१३६/२०-२१) प्रवृत्ता च स्थली स्यात् <त्रिवृद् यद् भुवनस्य रथवृज् जीवो गर्भो न मृतस्य जीवात् स्वाहा [TB ३.७.१०.६]>_इति \।

(AVPर्_६.३ः१३६-१३७/२१-१) अन्यश् चेद् आग्रायणाद् गृह्णीयाद् आग्रायणश् चेद् उपदस्येद् आग्रयणाद् गृह्णीयाद् ग्रहेभ्यो वाहृत्य शुक्रध्रुवौ वर्जम् \।

(AVPर्_६.३ः१३७/१) <आत्मा यज्ञस्य [.RV ९.६.८]>_इति चतसृभिर् जुहुयात् \। [एद्. आ त्वा यज्ञस्य]

(AVPर्_६.३ः१३७/१-३) <आत्मा यज्ञस्य रंह्या[त्] सुष्वाणः पवते सुतः \। प्रत्नानि पाति काव्यः [.RV ९.६.८, KS ३५.६ः५४.१४]> \। [एद्. आ त्वा यज्ञस्य]

(AVPर्_६.३ः१३७/३-४) <गोषा इन्दो नृषा अस्य् अश्वसा वाजसा उत \। प्रत्नानि पाति काव्यः [.RV ९.२.१०, KS ३५.६ः५४.१६]> \।

(AVPर्_६.३ः१३७/४) <देवानां देवः [PS १५.९.५-६? MS ४.१४.१२ः२३६.३, TB २.४.८.३? Kऔश्ऽ ७४.१२?]> इति द्वे \।

% इf थे इदेन्तिfइचतिओन् wइथ् PS १५.९.५-६ इस् चोर्रेच्त् (अन्द् थे इति द्वे तेन्द्स् तो चोर्रोबोरते थिस्, बेचौसे थोसे त्wओ मन्त्रस् स्तन्द् अत् थे एन्द् ओf PS १५.९), थेन् देव नेएद्स् तो बे एमेन्देद् तो देवा, अन्द् wए हवे हेरे अ PS मन्त्र wइथोउत् सकलपाठ.

(AVPर्_६.३ः१३७/४-८) ध्रुवश् चेद् उपदस्येत् प्रवृत्ता चेत् स्थाली स्याद् <वसवस् त्वादीस् तर्पयन्तु रुद्रास् त्वा तर्पयन्तु \। आदित्यास् त्वा तर्पयन्तु [?]>_इत्य् उत्सृज्य <ध्रुवा द्यौर् [PS १९.६.९, ;SS ६.८८.१]> इत्य् अभिमन्त्र्य <ध्रुवं ध्रुवेण [PS १९.६.४, ;SS ७.९४.१]>_इति गृहीत्वा_<आयुर्दा असि ध्रुवः>_इति चतसृभिर् आग्नीध्रीये जुहुयात् \।

(AVPर्_६.३ः१३७/८-११) <आयुर्दा असि ध्रुव आयुर् मे दाः स्वाहा \। वर्चोदा असि ध्रुवो वर्चो मे दाः स्वाहा \। तेजोदा असि ध्रुवस् तेजो मे दाः स्वाहा \। सहोदा असि ध्रुवः सहो मे दाः स्वाहा> \।

(AVPर्_६.३ः१३७/११-१३) ग्राव्णि शीर्णे द्योतानस्य मारुतस्य ब्रह्मसामेन स्तुवीरन्न् इत्य् एके भक्षणीयम् उपरवेष्व् अपिनयेत् \।\। ३ \।\।

(AVPर्_६.४ः१३७/१३-१४) अपिदग्धे सोमे कृतांत्वाद् उपक्रमेरण्यं वचनात् \।

(AVPर्_६.४ः१३७/१४-१५) जप्त्वा पुरा द्वादश्या पुनर् दीक्षावांताद्विति \।

(AVPर्_६.४ः१३७/१५-१६) तत्र ता दद्याद् याः कस्यै त्वा दास्य भवति \।

(AVPर्_६.४ः१३७/१६-१७) तथैवैनाम् ऋत्विजो याजयेयुर् \।

(AVPर्_६.४ः१३७/१७-१८) यद्य् अक्रीतसोमम् अपहरेयुर् अन्यः क्रीतव्यः \।

(AVPर्_६.४ः१३७/१८-१९) यदि क्रीतो नष्टः स्यात् सा नित्याभिषिच्यः \।

(AVPर्_६.४ः१३७/१९) राजाहार इति किंचिद् देयं \।

(AVPर्_६.४ः१३७-१३८/१९-१) तेनास्य स परिक्रीतो भवति \।

(AVPर्_६.४ः१३८/१-२) यदि सोमं न विन्देयुः पूतीकान् अभिषुणुयुर् \।

(AVPर्_६.४ः१३८/२-३) यदि न पूतीकान् अर्जुनान्य् अथ या एव काश् चौषधीर् आहृत्याभिषुणुयुः \।

(AVPर्_६.४ः१३८/३-४) पञ्चदक्सिणं क्रतुं संस्थापयेयुर् एकदक्षिणं वा \।

(AVPर्_६.४ः१३८/४-५) येन यज्ञेन कामयेत तेन यजेत \।

(AVPर्_६.४ः१३८/५) [अ]त्र यत् कामयेत तत्र तद् दद्यात् \।

(AVPर्_६.४ः१३८/५-७) प्रातःसवनाच् चेत् कलशो विदीर्येत वैष्णवीषु शिपिविष्टवतीषु तृचा स्तूयुर् \।

(AVPर्_६.४ः१३८/७-१०) (माध्यंदिनश् चेत् पवमाने समाध्यंदिनात् पवमाना) यदि माध्यंदिनार्भवस्य पवमानस्य पुरस्ताद् वषट्कारनिधनं साम कुर्यात् \।

(AVPर्_६.४ः१३८/१०) यदि तृतीयसवन एतद् एव \।\। ४ \।\।

(AVPर्_६.५ः१३८/१०-१२) <भूमिर् भूमिम् अगान् माता मातरम् अप्य् अगात् \। ऋध्यास्म पुत्रैः पशुभिर् यो नो द्वेष्टि स भिद्यताम् [Kऔश्ऽ १३६.२]> इति \।

(AVPर्_६.५ः१३८/१२-१४) यन् मार्त्तिकं भिद्येत तदापो गमयेत् तथैव दारुमयं <य ऋते चिद् अभिश्रिषः [PS १८.११.७, ;SS १४.२.४७]>_इत्य् एतयालभ्याभिमन्त्रयते \।

(AVPर्_६.५ः१३९/१-२) सर्वत्र शीर्णे भिन्ने नष्टे ऽन्यं कृत्वा <पुनर् मैत्व् इन्द्रियम् [PS ३.१३.६, ;SS ७.६७.१]> इत्य् आददीत \।

(AVPर्_६.५ः१३९/२-४) बहिष्पवमानं चेत् सर्पतां प्रस्तोता विछिद्येत ब्रह्मणे वरं दत्त्वा ततस् तम् एव पुनर् व्र्णीयात् \।

(AVPर्_६.५ः१३९/४-५) यद् उद्गाता विछिद्येत सर्ववेदसदक्षिणेन यज्ञेन यजेत \।

(AVPर्_६.५ः१३९/५-६) एवं सर्वेषां विछिन्नानां सर्पताम् एकैकस्मिन् कुर्यात् \।

(AVPर्_६.५ः१३९/६-७) <द्यौश् च म इन्द्रश् च मे [TS ४.७.६.२]> \। <तन्तुं तन्वन् [.RV १०.५३.६, TS ३.४.२.२]> \। <मा प्र गाम पथो वयम् [PS १७.२५.२ / ;SS १३.१.५९, .RV १०.५७.१]> इति \।

(AVPर्_६.५ः१३९/७-९) शस्त्राच् चेच् छस्त्रम् अनुशंसन् व्यापद्येत <मा प्रगाम पथो वयम् [सेए अबोवे]> इति पञ्चभिर् जुहुयात् \।

(AVPर्_६.५ः१३९/९-११) राथंतरं चेत् स्तूयमानं व्यापद्येत <सम्यग् दिग्भ्यः [वोन् Nएगेलेइन् नो दोउब्त् चोर्रेच्त्ल्य् रेfएर्स् तो PS १५.१.१ः सम्यन् दिग्भ्यः]> इति द्वाभ्यां जुहुयात् \।

(AVPर्_६.५ः१३९/११-१२) यवादीनाम् अवपन्नानां व्यावृत्तानाम् उत्तरासां यथालिङ्गं द्वाभ्यां जुहुयात् \।

(AVPर्_६.५ः१३९/१२-१४) नाराशंसा(द्) उन्नेताद् उपदस्येरन्न् <अयं नो अग्निर् अध्यक्षः [PS २०.६१.५-६, सकल अत् Kऔश्ऽ ८९.१३]> इति द्वाभ्यां \।

(AVPर्_६.५ः१३९/१४) पान्नेजन्याश् चेद् उपदस्येत् <सं मा सिञ्चन्तु [सेए अबोवे]>_इति संसिञ्चेत् \।\। ५ \।\।

(AVPर्_६.६ः१३९/१५-१८) अथ चेद् धुताहुतौ सोमौ पीतापीतौ वा संसृज्येयातां <यज्ञस्य हि स्थ ऋत्विजा [.RV ८.३८.१]> <गवीन्द्राग्नी कल्पता युवं हुताहुतस्य चास्या यस्येन्द्राग्नीवीतं पिबत घृतम् इमां घृतम् [?]> इति द्वाभ्यां जुहुयात् \।

(AVPर्_६.६ः१३९/१८-२०) प्रातःसवनाच् चेत् कलशो विदीर्येत वैष्णवतीषु शिपिविष्टवतीषु गौरीवितेन स्तूयुः \।

(AVPर्_६.६ः१३९-१४०/२०-१) समानजनपदौ चेत् सोमौ संसवौ स्यातां पूर्वो ऽग्निं परिगृह्णीयात् पूर्वो देवताः परिगृह्णीयात् \।

(AVPर्_६.६ः१४०/१-२) नातिरात्र्या प्रातरनुवाकम् उपाकुर्यात् \।

(AVPर्_६.६ः१४०/२-४) <अभिष्टाव्याथ संवेशायोपवेशाय गायत्र्यै छन्दसे ऽभिभूत्यै स्वाहा [Aअप्;SS १४.२६.२]>_इति पुरस्तात् प्रातरनुवाकस्य जुहुयात् \।

(AVPर्_६.६ः१४०/४-५) <त्रिष्टुभः>_इति माध्यंदिने विद्विषाणयोः संसवाव् इति विज्ञायते \।

(AVPर्_६.६ः१४०/५-७) सवनीयानन्तरम् अग्नये यविष्ठायाष्टाकपालम् इत्य् आहवनीये महद् अभ्यादध्यात् \।

(AVPर्_६.६ः१४०/७-८) संभाराणां चतुर्भिश् चतुर्भिः प्रतिदिशं जुहुयात् \।

(AVPर्_६.६ः१४०/८-९) उत्तमम् आग्नीध्रीये सोमभाग[ं] ब्राह्मणेषु शंसे[त्] \।

(AVPर्_६.६ः१४०/९-१०) वज्राणां श्येनविषमस्य च फट्कारप्रभृत्य् अनुजानीयात् \।

(AVPर्_६.६ः१४०/१०-१२) सर्वेषु चाभिचारिकेषु संदीक्षितानां च व्यावर्त्तेताग्नेरन् ब्राह्मणः प्रोच्य <जीवा नाम स्था ता इमं जीवेत्(व्)अ [MS ४.८.७ः११५.५]> \।

(AVPर्_६.६ः१४०/१२) <उपजीवा नाम स्था ता इमं जीवेत [?]> \।

(AVPर्_६.६ः१४०/१३) <जीविका नाम स्था ता इमं जीवेत संजीवेत [MS ४.८.७ः११५.५]> \।

(AVPर्_६.६ः१४०/१३-१४) <जीवला नाम स्था ता इमं जिवेत संजीवेत [?]> \।

(AVPर्_६.६ः१४०/१४-१५) <संजीविका नाम स्था ता इमं जीवे(स्)त्(व्)अ [Aअप्;SS १४.२०.८]> \। इत्य् अपः परिब्रूयात् \।

(AVPर्_६.६ः१४०/१५-१६) तासाम् उदगर्वाक् कुर्यात् \।

(AVPर्_६.६ः१४०-१४१/१६-१) <उपांश्वन्तर्यामौ च चेत् ते प्राणापानौ पाताम् \। उपांशुसवनस् ते व्यानं पातु \। श्रोत्रं चाश्विनौ पातां \। दक्षक्रतू ते मित्रावरुणौ पातां \। स्तन इत्य् ऋतुपात्रे \। आत्मानं त आग्रयणः पातु \। अङ्गानि च त उक्थ्यः पातु \। आयुष् टे ध्रुवः पातु \। वीर्यं ते लक्ष्मीः पात्व् [Aअप्;SS १४.२१.४]> इति जुहुयात् \।

(AVPर्_६.६ः१४१/१-३) <पुष्टिना पुष्टिं प्राणेन प्राणं तेजसा तेजश् चक्षुषा चक्षुः श्रोत्रेण श्रोत्रम् आयुषायुः पुनर् देहि [?]>_इति सकृद् एतानि जुहुयाद् ब्रह्माणि सूक्तानि \।\। ६ \।\।

(AVPर्_६.७ः१४१/३-४) ब्रह्मा ब्राह्मणाच्छंसी वैन्द्रवायवाद् ग्रहं गृह्णीयात् \।

(AVPर्_६.७ः१४१/४-७) स चेन् म्रियेताग्निभ्य एव त्रीन् अङ्गारान् उद्धृत्य दक्षिणं पाणिं श्रोणिं प्रति दग्ध्वास्थीन्य् उपनिदध्युस् \।

(AVPर्_६.७ः१४१/७-८) तस्य पुत्रं भ्रातरं वोपदीक्षां समाप्नुयुः \।

(AVPर्_६.७ः१४१/८-१२) स चेन् म्रियेताग्निभ्य एव त्रीन् अङ्गारान् उद्धृत्य दक्षिणं पाणिं श्रोणिं प्रतितप्यैव दग्ध्वा होतुः प्रमुखा ऋत्विजः प्राचीनावीतं कृत्वा दक्षिणान् ऊरून् आघ्नानाः सर्पराज्ञीनम् (ऊर्त्त्या) कीर्त्तयन्तः स्तोत्रे स्तोत्रे ऽस्थिपुटम् उपनिदध्युः \।

(AVPर्_६.७ः१४१/१३) संवत्सरे ऽस्थिपुटं निदध्युः \।

(AVPर्_६.७ः१४१/१३-१४) संवत्सरे ऽस्थीनि याजयेत् \।

(AVPर्_६.७ः१४१/१४-१५) समाप्ते संवत्सरे दीक्षितानां चेद् उपदीक्षेत सोमं विभज्य विश्वजितातिरात्रेण \।

(AVPर्_६.७ः१४१-१४२/१५-२) यद्य् आश्विनी[षु] शस्यमानास्व् आदित्यं पुरस्तान् न पश्येयुर् अश्वं श्वेतं रुक्मप्रतिहितं पुरस्ताद् अवस्थाप्य सौर्यं श्वेतं (ग्)अजम् उपालंभ्यम् आलभेत तस्य तान्य् एव तन्त्राणि यानि सवनीयस्युः पुरस्तात् संधि चमसासवानाम् अनुप्रदानं स्यात् \।

(AVPर्_६.७ः१४२/२-४) अश्वमेधे चेद् अश्वो नागच्छेद् आग्नेयो ऽष्टाकपाल इति मृगाखरे षड्ढविष्काम् इष्टिं निर्वपेद् दशहविषम् इत्य् एके \।

(AVPर्_६.७ः१४२/४-६) वडवां चेद् अश्वो ऽभीयाद् अग्नये ऽंहोमुचे ऽष्टाकपालं सौर्यं पयो वायव्याव् आज्यभागौ \।\। ७ \।\।

(AVPर्_६.८ः१४२/६) सोमरूपेषूक्त आचार्यकल्पो \।

(AVPर्_६.८ः१४२/६-७) ब्राह्मणं तु भवति \।

(AVPर्_६.८ः१४२/७-९) त्रयस्त्रिंशद् वै यज्ञस्य तन्वः \। इत्य् एकान्नत्रिंशो पाकनग्निम् अश्वणाम् इत्य् अर्थलोपान् निवृत्तिस् \।

(AVPर्_६.८ः१४२/९-१७) त्रीणि वा चतुर्गृहीतान्य् अनुवाकस्येत्य् आचार्या एते नित्यकल्पायार्त्विज्येतरूपयसां तन्वाम् आर्त्तिम् आर्छतां चोत्तरां वा संधिं संधाय जुहुयाद् इति तैत्तिरीयब्राह्मणम् इष्ट्वा तद्दैवत्यामेधिकीयतामर्त्तिर् विद्याज् जामिं पुरुषविधिं मायया वा यज्ञसंबन्धिनीं वाङ्मनश्चिन्तायां प्राग् विहरणाद् आर्ताय प्रजापतिर् मनसि सारस्वतो वाचि विसृष्टायां विधानं दीक्षायां ब्रह्मव्रते स्वाहेत्य् एतेन न्यायेन वाजसनेयीब्राह्मणमोघेन मन्त्राः क्;ल्प्ताः \।

(AVPर्_६.८ः१४२/१७-१८) प्रजापतये स्वाहा धात्रे स्वाहा पूष्णे स्वाहेत्य् \।

(AVPर्_६.८ः१४२/१८-२०) अपराह्णिकश् चेत् प्रवर्ग्यो ऽभ्यस्तम् इयात्_<शुक्रो ऽसि [PS १.५७.५/१८.५६.४/१९.४४.२१, ;SS २.११.५/१७.१.२०]> <दिवो ऽछत [?]> इति जुहुयाद् व्याहृतिभिश् च \।

(AVPर्_६.८ः१४२/२०-२२) श्वःसुत्यां चेद् अहुतायां तदहर्ताव् अपागछेद् <इन्द्राय हरिवते [Aअप्;SS १३.१७.२, Mआन्;SS २.५.४.४]> इति ब्रूयाद् इहान्वीचमतिभिर् इति तिस्र्भिः \।

(AVPर्_६.८ः१४२/२२-२३) प्रातरनुवाकं चेद् दुरितम् उपाकुर्यात् <प्र वां दंसांस्य् अश्विनाव् अवोचम् [सेए बेलोw]> इति पञ्चभिर् जुहुयात् \।\। ८ \।\।

(AVPर्_६.९ः१४२-१४३/२३-१) <प्र वां दंसांस्य् अश्विनाव् अवोचम् अस्य पतिः स्यां सुगवः सुवीरः \। उत पश्यन्न् अश्नुवन् दीर्घम् आयुर् अस्तम् इवेज् जरिमाणं जगम्याम् [.RV १.११६.२५]> \।\। १ \।\।

(AVPर्_६.९ः१४३/१-३) <मध्वः सोमस्याश्विना मदाय प्रत्नो होता विवासते वां \। बर्हिष्मती रात्रिर् विश्रिता गीर् इषा यातं नासत्यो ऽप वाजैः [.RV १.११७.१]> \।\। २ \।\।

(AVPर्_६.९ः१४३/३-५) <यो वाम् अश्विना मनसो जवीयान् रथः स्वश्वो विश आजिगाति \। येन गछथः सुकृतो दुरोणं तेन नरा वर्तिर् अस्मभ्यं यातं [.RV १.११७.२]> \।\। ३ \।\।

(AVPर्_६.९ः१४३/५-७) <ऋषिं नराव् अंहसः पाञ्चजन्यम् ऋबीषाद् अत्रिं मुंचथो गणेन \। मिनन्ता दस्योर् अशिवस्य माया अनुपूर्वं वृषणा चोदयन्ता [.RV १.११७.३]> \।\। ४ \।\।

(AVPर्_६.९ः१४३/७-१०) <अश्वं न गूढम् अश्विना दुरेवैर् ऋषिं नरा वृषणा रेभम् अप्सु \। सं तं रिणीथो विप्रुतं दंसोभिर् न वां जूर्यन्ति पूर्व्या कृतानि [.RV १.११७.४]> \।\। ५ \।\। इति \।

(AVPर्_६.९ः१४३/१०-११) प्रातःसवनं चेन् माध्यंदिनं सवनम् अभ्यस्तमियाद् <अग्निर् मा पातु वसुभिः पुरस्तात् [PS ७.१६.१, ;SS १९.१७.१]>_इति जुहुयात् \।

(AVPर्_६.९ः१४३/१२) अग्नये स्वाहा वसुभ्यः स्वाहा गायत्र्यै स्वाहा \।

(AVPर्_६.९ः१४३/१२-१४) माध्यंदिनं चेत् तृतीयसवनम् अभ्यस्तमियात् <सोमो मा रुद्रैर् दक्षिणाया दिशः पातु [PS ७.१६.३, ;SS १९.१७.३]>_इति जुहुयात् \।

(AVPर्_६.९ः१४३/१४-१५) सोमाय स्वाहा रुद्रेभ्यः स्वाहा त्रिष्टुभे स्वाहा \।

(AVPर्_६.९ः१४३/१५-१७) तृतीयसवनं चेद् अभ्यस्तमियाद् <वरुणो मादित्यैः सूर्यो मा द्यावापृथिवीभ्यां प्रतीच्या दिशः पातु [PS ७.१६.४-५, ;SS १९.१७.४-५]>_इति जुहुयात् \।

(AVPर्_६.९ः१४३/१७-१८) वरुणाय स्वाहादित्येभ्यः स्वाहा जगत्यै स्वाहा \।

(AVPर्_६.९ः१४३/१८-२०) <आ भरतं शिक्षतं वज्रबाहू अस्मान् इन्द्राग्नी अवतं शचीभिः \। इमे नु ते रश्मयः सूर्यस्य येभिः सपित्वं पितरो न आसन् [.RV १.१०९.७]> \। इन्द्राग्निभ्यां स्वाहा \। इन्द्राविष्णुभ्यां स्वाहा \।

(AVPर्_६.९ः१४३/२१-२२) रात्रिपर्यायाश् चेद् अभिविछिद्येरन्न् इन्द्राय स्वाहा \। इन्द्राण्यै स्वाहा \। छन्दोभ्यः स्वाहा \।

(AVPर्_६.९ः१४३/२२-२४) ऋत्विजां चेद् दुरितम् उपाकुर्याद् अग्नये रथन्तराय स्वाहा \। उषसे स्वाहा \। पङ्क्तये स्वाहा \। अश्विभ्यां स्वाहा \। <मा नः पिपरिद् अश्विना [च्f. AVPअरिश् ३७.४.२]>_इति \।

(AVPर्_६.९ः१४३/२४-२७) सर्वत्रानाज्ञातेष्व् अग्नये स्वाहा \। यज्ञाय स्वाहा \। ब्रह्मणे स्वाहा \। विष्णवे स्वाहा \। प्रजापतये स्वाहा \। अनुमतये स्वाहा \। अग्नये स्विष्टकृते स्वाहेति \।

(AVPर्_६.९ः१४३/२७-२८) <त्रातारम् इन्द्रं [सेए अबोवे]> \। <ययोर् ओजसा [सेए अबोवे]>_इति च \।

(AVPर्_६.९ः१४३/२८) एता विष्णुवरुणदेवत्याः \।

(AVPर्_६.९ः१४३/२८) उक्तानि प्रायश्चित्तानि \।

(AVPर्_६.९ः१४३/२८-३०) अथैकाग्नौ यत्र पुरोडाशा उक्ता स्थालीपाकांस् तत्र कुर्यात् \।

(AVPर्_६.९ः१४३/३०) पुरोडाशेषु जपैर् एव कुर्यात् \।

(AVPर्_६.९ः१४३-१४४/३०-२) सर्वत्र छेदनभेदनावदारणदहनेषूखासु सोमकलशमहावीरयज्ञभाण्डेषु सर्वत्र शीर्णे भिन्ने नष्टे ऽन्यं कृत्वा <पुनर् मैत्व् इन्द्रियम् [सेए अबोवे]> इत्य् आददीत \।

(AVPर्_६.९ः१४४/२-४) सर्वत्र <मा नो विदन् [सेए अबोवे]>_इत्य् अभयैर् अपराजितैर् जुहुयात् \। अभयैर् अपराजितैर् जुहुयात् \।\। ९ \।\। षष्ठो ऽध्यायः \।

(१४४/४-६) अथ यत्रैतत् पार्थिवम् आन्तरिक्षं दिव्यं देवैर् असुरैर् या प्रयुक्तं तद् अद्भुतं शमयत्य् अथर्वा प्रभुर् अद्भुतानां \।

(१४४/६-७) सो दूर्वाज्यं गृहीत्वाहवनीये जुहोति \।

(१४४/७-९) पृथिव्यै श्रोत्रायान्तरिक्षाय प्राणाय वयोभ्यो दिवे चक्षुषे नक्षत्रेभ्यः सूर्यायाधिपतये स्वाहा \। इति सूत्रप्रायश्चित्तिस् \।

(१४४/९-१०) तत्र श्लोकः \।

(१४४/११-१२) प्रायश्चित्तानां परिमाणं न यज्ञ उपलभ्यते \। तस्माद् दृष्टः समासो ऽत्र तं निबोधत याज्ञिकाः \।

(१४४/१३-१४) इत्य् अथर्ववेदे वैतानसूत्रे प्रायश्चित्तप्रकरणम् समाप्तम् \।

]