वज्रसत्व-पाराजिका

वज्रसत्व-पाराजिकाओं नमः श्रीवज्रसत्वाय॥

ओं नमः सर्वज्ञाय॥

वज्रसत्वं नमस्कृत्य जगत्त्राणं महाकृपम्॥

प्रायश्चित्तविधिं वक्ष्ये शौचाचारंश्च च सुव्रतम्॥१॥

आचार्यः परमो देवः पूजनीयः प्रयत्नतः। स्वयं वज्रधरो राजा साक्षाद्रूपेण संस्थितः॥२॥

प्राणिवधः प्रायश्चितं विषयभाग(श्च) कथ्यते॥

तत्र वज्राचार्यव्रतीनां ब्राह्मणादिवर्णानञ्च॥

वधकस्य महापातकात्वात् तेषां विधय उच्यन्ते॥३॥

स पुनर्द्विविधा तद्यथा॥

स्वयंकृतति (स्वयंक्रम) मितिनाश्चेति॥

तत्र यःस्वशरीरेण पुरुषान्तरप्रयुक्त्या वा क्रियते य स्वयंकृतमुच्यते॥४॥

तत्रापि बहवः प्रत्येकोत्पन्ने व्याहर्तुमुद्यतो भवति॥

तत्र केनाहृतं प्रत्येकमेकवद्वा भवति॥

कामनायाः प्रत्येकमुत्पन्नत्वात्॥

अतः सोऽपि स्वयंकृत इत्युच्यते॥५॥॥

यथाह॥

बहुनामेककार्याणां सर्वेषां शस्त्रधारीणाम्॥

यद्येको घातकस्तत्र सर्वे ते घातकाः स्मृताः॥६॥

यत्र पुनस्ताडनाकाशनदिमात्रमेव करोति। नापरं किञ्चित् तेन ताडनादिनिमित्तेनतत्कारमुद्दिश्य आत्मानं घातयति॥७॥

तत्र निमित्तवधो द्रष्टव्यः॥

निमित्तञ्च बहुप्रकारमेव संबंधादिभिः प्रयत्नेन कथितम्॥

आक्रोशितः ताडितो वाऽधन्यैर्वापरिपीडितः। (19)यमुद्दिश्य त्यजेत्प्राणान् तमाहुः प्रतिघातकम्॥८॥

अन्योन्येन गृहीतस्तु प्रार्थयन् पापदर्शनम्। यमुद्दिश्य त्यजेत्प्राणान् तमाहुः प्रतिघातकम्॥९॥

स्वद्रव्यार्थे स्वभूम्यां वा चायं दुःखपीडितः। यमुद्दिश्य त्यजेत्प्राणान् तमाहुः प्रतिघातकम्॥१०॥

गोभूहिरण्योपहरणे स्त्रीणां क्षत्रगृहस्य च। यमुद्दिश्य त्यजेत्प्राणान् तमाहुः प्रतिघातकम्॥११॥

शुद्धार्थं पित्रमात्रार्थं मांसार्थ च अथापि वा॥

यमुद्दिश्य त्यजेत्प्राणान् तमाहुः प्रतिघातकम्॥१२॥

असंबंधेन यः कश्चित् व्रती प्राणान्परित्यजेत्। तस्मैव तद्भवेत्पापं मनुष्यैः परिकीर्तितम्॥१३॥

आततायिनमायान्तं अपि सुप्रतीतेरणे। जिघांसति जिघांसीयान् न तेन व्रतिहा भवेत्॥१४॥

गुरुबालकवृद्धं वा व्रतिमेव बहुश्रुतम्। आततायिनमायान्तं हन्यादेवाविचारयन्॥१५॥

( compare गुरुं वा बालवृद्धौ वा ब्राह्मणं वा बहुश्रुतम्)नाततायिवधो दोषो हन्तुर्भवति कश्चन। प्रकाशाद्वाऽप्रकाशाद्वा मास्त मन्युपृच्छामि॥१६॥

स्वाध्यायिनां कुले जातं हन्याद्वाततायिनम्। न तेन प्रतिहासस्थान् मत्पुस्तं मन्युपृच्छितः॥१७॥

अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः। क्षेत्रदारापहारी च षडेते आततायिनः॥१८॥

( नाततायिवधे दोषो हन्तुर्भवति कश्चन। प्रकाशं वाऽप्रकाशं वा मन्युस्तंमनुमृच्छति। )अज्ञानेन तु यः कचिद् व्रतितं विनिघातयेत्। विज्ञानेन तु प्रयत्नं स्याद् चार्यो कुर्वत्यनुग्रहम्॥१९॥

(20)अथेदानिं वज्राचार्यादिव्रतिवधप्रायश्चित्तनिमित्त व्रतं कथ्यते। वज्राचार्यवधात्पाप शोधनाय विशेषतः॥१॥

द्वादशवर्षपर्यन्तं प्रायश्चित्तविधिर्भवेत्। एकादशं तु वर्षाणि धनदानेन शुध्यते॥

रत्नमुक्तासुवर्णं च गोगृहदानभूमिकम्॥

पुष्करिण्याददिखातञ्च शालाद्युत्थापनं तथा॥२॥

नानालंकारवस्त्रं च कांस्य ताम्रादिवस्तु च॥

श्रद्धयै तानि दानानि दद्याच्च पापकृन्नरः॥३॥

आचार्याय प्रवीणाय शीलवते च भिक्षवे। वेदविदे च विप्राय कायवाक्चित्तभक्तितः॥४॥

प्रतिहत्याविमुक्त्यर्थं सर्वस्वं चोपपादयेत्॥

एवं धनवतो दानं निर्धनस्य जपादिकम्॥५॥

वर्षैकं तु प्रति यो हि कुर्यात् च पोषधंव्रतम्। तीर्थेषु स्नायेन्नित्यं, कुर्याच्चैत्यप्रदक्षिणाम्॥६॥

गुरुगृहे वसेन्नित्यं विहारे पापं प्रकाशयेत्। धर्मचिन्तापरो वीरो प्रतिहारं जितेन्द्रियः॥७॥

महापातकनाशार्थं ब्रह्मचर्यां समाचरेत्। दानजपादिपूजांश्च प्रवर्तनविधिमाचरेत्॥८॥

प्रायश्चित्तेन ( तत्पश्चात्) अप्रवर्तेनानुक्रमं तथा॥

स्याद्वेलाहारे एकाहे ताराहादिनद्वयम्। त्रिदिनेऽयाचिताहारो निराहारश्चतुर्दिनैः॥

इच्छेत् दिनैश्चतुर्भिश्च प्रवर्तेमेकमुच्यते। प्रायश्चित्तं प्रवर्तानि तावत्त्रिषु रात्रिषु॥१०॥

श्रीचैत्यस्थापनं कुर्यात् व्रतिहा पापशान्तये। पूजयेच्छुद्धया भक्त्या पञ्चोपचारैश्च पूजयेत्॥११॥

त्रिरत्नशरणं यस्य शीलं च व्रतमुत्तमम्। (21)तस्य शुद्धिर्भवत्येवं इहलोके परत्र च॥

कामतो व्रतिघातासौ वर्षैकं व्रतमाचरेत्॥

वर्षार्द्धं तुं व्रतं कुर्यात्प्रतिबद्धस्य अकामतः॥

अर्द्धे पूर्णे तु होमं स कृत्वा चार्याय दापयेत्॥

उन्मिता कङ्कणं वस्त्रं दक्षिणां चैव भोजनम्॥१४॥

ततो गुणवान् भिक्षुः यथावसरं तत्र अकुशलशान्त्यर्थं॥

कलशादिपूजनं समारभेत्॥

इष्टदेवतामन्त्रेण तदनन्तरं च स्नापयेद्॥

पवित्रं पञ्चगव्यं प्रदापयेत्॥

तत्र च यदि गुणवन्नापिगुणवाश्चैवमृतानि बान्धवाति……….॥१॥

तत्र भिक्षुवधस्य दशवर्षपर्यन्तं प्रायश्चित्तविधिर्भवति। द्विमासाधिकनववर्षाणि धनदानाद्विशुद्ध्यति॥१॥

दशमासस्तु भिक्षुघ्न एतत्पोषधादिमित्या दिकं। अतः परसर्वविधानं पूर्वोक्तवदिति॥२॥

तत्र च शिवलिंगभग्नवर्णं क्षपणकवधस्य अष्टवर्षपर्यन्तम्प्रायश्चितविधिर्भवति॥३॥

चर्तुमासाधिकसप्तवर्षादि धनदानादिना शुद्धयति। अष्टमासशिवलिंग- भग्नवर्णक्षपणकघातक चरेत्॥

पोषधव्रतमित्यादिकम्॥

अतः परं सर्वविधानं पूर्वोक्तवदिति॥२॥

एवं कविर्विदन्यदर्शन वधस्यापि न्यूनाधिक प्रायश्चित विषयभाग कर्तव्यमिति॥

२तत्र च॥

ब्रह्मवधस्य अष्टवर्षपर्यन्तं प्रायश्चितविधिर्भवति॥

(22)चतुर्मासाधिकसप्तवर्षाणि धनदानादि शुद्धयति॥

अष्टमासब्रह्मघातकव्रतहा चरेत्॥

पोषधादिव्रतमित्यादिकम्॥

अतः परं सर्वविधानं पूर्वोक्तवदिति॥

तत्र च क्षत्रियवधस्य षड्वर्षपर्यन्त प्रायश्चित्तविधिर्भवति॥

सार्द्धपञ्चवर्षाणि धनदानाद्विशुद्ध्यति॥

षण्मासासांस्तु क्षत्रियवधहा चरेत्॥

पोषधादिव्रतमित्यादिकम्॥

अतः सर्वविधानं पूर्वोक्तवदिति॥१॥

तत्र च वैश्यवधस्य चतुर्वर्षपर्यन्तं प्रायश्चित्तविधिर्भवति॥

अष्टमासाधिकत्रिवर्षाणि धनदानानि शुद्ध्यति॥

चतुर्मासांस्तु वैश्यहा चरेत्॥

पोषधादिव्रतमित्यादिकम्॥

अतःपरं सर्वविधानं पूर्वोक्तवदिति॥१॥

तत्र च शूद्रवधस्य द्विवर्षपर्यन्तं प्रायश्चित्तविधिर्भवति॥

दशमासाधिकवर्षैकं धनदानादिना शुद्ध्यति॥

द्वौ मासौ तु शूद्रहा चरेत्॥

पोषधादिव्रतमित्यादिकम्॥

अतः परं सर्वविधं पूर्वोक्तवदिति॥१॥

तत्र च हीनकुलवधस्य वर्षैकं प्रायश्चित्तविधिर्भवति॥

एकादशमासान् धनदानादिनाशुद्ध्यति॥

द्वात्रिंशद्दिनानि तु हीनकुलघातहा चरेत्॥

षोषधादिव्रतमित्यादिकम्॥

अतःपरं सर्वविधानं पूर्वोक्तवदिति॥

(23)तत्र च॥

निचकुलवधस्य प्रायश्चित्तान्ञ्जातिशक्तिगुणावेक्षया विषयविभागकर्तव्यमिति॥

तत्र॥

इदानिं स्त्रीवधस्य प्रायश्चित्तमुच्यते॥

एवं ब्राह्मणीवधप्रायश्चित्त ब्राह्मणां प्रायश्चित्तवदिति॥

एवं क्षत्रिणीहत्या क्षत्रियवधप्रायश्चित्तवत्कर्तव्यमिति॥

एवं वैश्यस्त्रीहत्या वैश्यवधप्रायश्चित्तवत्कर्तव्यमिति॥

एवं शूद्रिणीहत्या शूद्रवधप्रायश्चित्तवत्कर्तव्यमिति॥

एवं हीनकुलस्त्रीवधस्य हीनकुलप्रायश्चित्तविधिवत्कर्तव्यमिति॥

आहिताग्निद्विजामस्य हन्यापत्नीं च वन्दिताम्॥

ब्रह्महत्याव्रतं कुर्यादत्रयमेव च स्त्रिया॥१॥

बालहत्यां कृतघ्नश्च विशुद्धामपि धर्मतः॥

शरणागतमग्निश्च स्त्रीहन्ता न समाम्वशेत्॥२॥

सो दशमासं च स्त्रियं हत्वा सुहृदयं पापकारिणम्॥

विश्वासिरोषतो मर्त्यंचर ब्रह्मवधव्रतः॥३॥

गम्भिणीं च स्त्रियं हत्वा ब्रह्मचर्यव्रतं चरेत्॥

बहुतद्विगुणां वासः स्त्रीहत्याय नरये इति॥४॥

स्वक्रियां चालोभेन मामवायात्मधोगतिम्॥

यस्य विधिं ……………………॥५॥

अत्यन्तसरुजदेहे राजचौरभयादिषु॥

गुरुदेवाग्निकार्यं च मित्यहामिमदोषकृता॥६॥

गृहस्थो ब्रह्मचारी च प्रायश्चित्तं द्विधा भवेत्॥

( ? )सकामाकामभेदेन तावेव हि विधौ स्मृतौ॥७॥

अज्ञानात्तु अकामस्य द्विगुणा शुद्धिमादिशेत्॥

भौविकाद्विगुणा ज्ञेयं प्रायश्चित्तं तु सर्जनम्॥८॥

(24)अशीति यस्य वर्षाणि बालमासस्तु षोडशः॥

प्रायश्चित्तार्घमहन्ति त्रयो वा व्याधिपीडिताः॥९॥

तत्रापि च परिक्वेशं ज्ञात्वा द्वार्धं प्रलोकयन्॥

सुदुःकरस्वयं कर्तुं अक्षया द्विगुणान्यतः॥१०॥

देशकालं च यः शक्तिजतिभक्तिक्रियाक्रमः॥

सुविचार्य प्रदातव्यं नोपवासानुजा इतः॥११॥

प्रायश्चित्तसमर्थस्य पितृभ्रातादिवाश्ववैः॥

तद्विभज्य प्रदातव्यं द्विगुणा त्वितरैः ( ? ) जनैः॥१२॥

अधुनाअगम्यागम्यगमनभक्ष्याभक्ष्यस्पर्शनिभिक्षमुच्यते॥

दुर्बलेऽनुग्रहकार्यं तथा वै बालवृद्धयोः। अन्यथा तु भवेद्दोषे न स्यात्तेषां अनुग्रहः॥२॥

स्नेहाद्वा यदि मोहाद्वा भयादज्ञानतोऽपि वा। कुर्वन्त्यनुग्रहं ये तु कल्याणं तेषु गच्छति॥३॥

देशकालवयःशक्तिपापञ्च व्यक्तं यत्नतः। प्रायश्चित्त तत्प्रकल्पस्य धर्मव्यवस्थितः॥४॥

आकृष्टे चेत्कुलालस्य केशो भाज्यनदुह्यदा। त्रिपवर्तमपूतस्यास्तसतया शीलव्रतं चरेत्॥१॥

गत्वान्त्यजाः स्त्रियो भुक्त्वा पीत्वा च प्रतिगृह्यता। पतति यः व्रते शीले त्रिप्रवर्तेनेन शुद्ध्यति॥२॥

एतां गत्वा स्त्रियः श्रेष्ठाः कुर्युः शीलं तथा व्रतम्। ब्राह्मणक्षत्रियवैश्यस्त्रियः शूद्रेण संगताः॥

अप्रसूताः विशुद्ध्यन्ति प्रायश्चित्तेन तास्तदा॥३॥

मातामातृस्वसाश्वश्रूमातुलानीपितृष्वसा। पितृव्यसखिशिष्यस्त्री भगिन्याश्च सखी तथा॥४॥

दुहिताचार्यभार्या च सगोत्रा शरणागता। (25)राज्ञापवर्जिताः धात्रा साध्वीस्त्रीणां तु मा तथा॥

आसामन्यत्रगां गत्वा गुरुतल्पः स उच्यते॥

शिष्यः स्यात्कर्तनं तत्र नान्यारण्डो विधीयते॥

अथवा ब्रह्मचर्यां च कुर्याद्यो गुरुतल्पगः॥८॥

व्रतेनेतिप्रवर्तनं पुरोभवति स ध्रुवम्। प्रतिलोमवधपारदारिकस्य नरस्य च॥९॥

देवस्वदेवताद्रव्यद्रव्यनैवेपञ्चनिवेदकम्। चन्द्रद्रव्यञ्च निर्माल्यं षड्विधं स्मृतम्॥१०॥

ग्रामादिस्वस्य न द्रव्यं देवद्रव्यपटादिकम्॥

नैवेद्यं कल्पितं तस्मै देवशिष्टनिवेदकम्॥११॥

चन्द्रद्रव्यं तु तं हूतं निर्माल्यं प्रेरितं बहिः॥

पिण्डिकास्थमनिर्माल्यमपिदेवविवर्जितैः॥

कुव्यां जायते दानं नातजे तस्य भाजनम्॥१२॥

लेपनं सिद्धिहानिश्च गन्धायादानतोवृकः। चाण्डालत्वाद्यथा दाहे विक्रमे यो नरो भवेत्॥

स्पर्शने जायते स्त्रीभिः निर्माल्यं न हि संशयः॥१३॥

गुरुष्वपीमनिर्माल्यं व्याख्यासु प्रतिमासु च। पत्रं पुष्पं फलं तोयं अन्नपाननमौषधम्॥

अनैवेद्यस्तु भुञ्जीत यथाहाराय कल्पितम्॥

अहोरात्रोषितः स्नातः संपूर्णो च व्रतपरः। पञ्चगव्यं सकृत्पीत्वा पूतो भवति निर्मलः॥१६॥

रात्रौ पूजां च दानं च बुभुक्षां परिवर्जयेत्। विनाचन्द्रोपरागेण विनासिद्धिसमोहकम्॥१७॥

ग्रहणोद्वाहसंक्रान्तियात्रार्तिप्रसरेषु च। स्नानं नैमित्तिकं ज्ञेयं रात्रावपि तदिष्यते॥१८॥

अपयन्तु भवे तोयं रात्रौ मध्यमयामयोः। (26)स्नानं तत्र न कुर्वीत न वाचमनक्रियाम्॥१९॥

चन्द्रसूर्यग्रहे नाह्यात् दद्यात्स्नात्वा विमुक्तयः। अमुक्तास्तङ्ते तस्मिन् स्नात्वा दृष्टपरेऽहनि॥२०॥

स्नात्वा चेवापनावापि स्पृष्ट्वा च सप्रगृह्य च। प्रशस्य स्वस्तिरित्युक्त्वा मुक्त एव न संशयः॥२१॥

गृहे दाहे मृते चैव परिवारे च मानुषे। न प्राणिनां वधस्तत्र केवलं गृहदीपनम्॥२२॥

देवयात्राविवाहेषु यज्ञप्रकरणेषु च। उत्सवेषु च सर्वेषु पृष्टापृष्टिर्न दुष्यति॥२३॥

अशुचिं संस्पृशेद्यत्तु स एवैकः प्रदूष्यति। तत्स्पृष्ट्वान्यान्यदुष्येभिः सर्व वर्णापयं विधिः॥२४॥

दिवाकिर्तिमुदव्याय मृतिकं सूतिकं तथा। सर्वां तस्या शुभां चैव स्पृष्ट्वा स्नानेन शुद्ध्यति॥२५॥

यात्रादाने विवाहेषु यज्ञप्रकरणेषु च। काकैश्च भिक्षुभिश्च संस्पृष्टमनन्नं विवर्जयत्॥

नित्यं शुचिः कारुहस्तः पणपहस्तप्रसारितः। ब्रह्मचारिगतं भक्तं नित्यं शुद्धमिति स्थितिः॥२६॥

पितुः पितुः स्वसुः पुत्रा पितुर्मातुः स्वसुः सुतुम्। पितुः मातुलपुत्राश्च विज्ञेयाः पितृबान्धवाः॥२७॥

मातृभ्रातुः स्वसृपुत्राः मातुलपितुः स्वसुः सुताः। मातुर्मातृपुत्राश्च विज्ञेया मातृबान्धवाः॥२८॥

यत्र चैवंविधसंबन्धः संभवति तत्रैव तेभ्यःपितृसम्बन्धिभ्यो मातृबन्धुभ्यश्च सप्तमात्यन्त च विवाहो द्रष्टव्यः॥३०॥

यत्र चैवं यदि भाविप्रकाशे न संभवति॥

यत्र मातृक-कुलेनेव मातृबन्धुशनेन पितृकुलमेव पितृबन्धुशन द्रष्टव्यम्। तेभ्यो सप्त एव सप्तमात्य माविहो द्रष्टव्य इति॥३१॥

(27)नोद्वहेत् कपिलां कन्यां नाधिगतरोगिणीम्। नालोमिकां नातिलोमां न वा जटामपिङ्गलाम्॥३२॥

अक्षं वृक्षं नदीनाम्ना नापि पर्वतनामिका। न पक्षहिपुष्पनाम्ना न च भीषणनासिका॥३३॥

न अव्यङ्गागां सोस्य नाम्ना ह ( ? ) सचारगामिनीम्। तनूदशनकेशाञ्च मृद्वङ्गामुद्वहेत् स्त्रियः॥३४॥

सुवर्णसमरूप्यं च कुलरूपवयः श्रुतेः। सहधर्मतस्ते स पुत्रं चाल्पददानः॥

३५॥

अष्टौ भिक्षामादाय समुचिः सप्त-पञ्च वा। अखलित्साधयित्वा तु ततोस्मयाद्विजोत्तमा॥३६॥

न भिक्षा परपाकस्य न वा भिक्षाप्रतिग्रहः। अवधूताच्च पूताच्च सोमपानं दिने दिने॥३७॥

अन्त्यजपतितो वापि निगूढो यत्र तिष्ठति। सम्यक् ज्ञात्वा तु कालेन ततः कुर्वीत शोधनम्॥३८॥

यदुक्तं तत्र पक्वान्नं तस्योक्तविलक्षणम्। सर्वानेकोपवासेन पञ्चगव्यं न बोधयेत्॥३९॥

सर्वेषामन्यजातीनां स्पर्शाचमनं विदुः। स स्पृष्ट्वा यदा भुंक्ते तस्य स्नानं विधीयते॥४०॥

आमवान् स धृतं तेलं स्नेहाश्च फलसम्भवाः। म्लेंच्छभाण्डास्थिताः ह्येते संक्रान्ताः शुचयः स्मृताः॥४१॥

चर्ममांसग्रहणं च शुद्धिप्रज्वालमेव च। पुणाश्रुकश्रुकाणं च शुद्धिरुत्थानचारिणः॥४२॥

विवाहोत्सवयज्ञेषु अन्तरामृतसूतके। पूर्वसंकल्पितं द्रव्यं दीयमानं न दूष्यते॥४३॥

भयोत्सवादिसम्बन्ध्य यद्यशक्तो यथासुखम्। दानकाले तु शीलस्य यस्मादुक्तमुपक्षनम्॥४४॥

(28)चवृ …. कर्तमान …. ततोत्पन्न विचिन्तयेत्। तदेवत्रविन्निष्पाद्यं तद्गतेनान्तरात्मना॥४५॥

एवं हि स कृते सर्वे अन्यथा नो भयं भवेत्। अशन् व्रजत्यकेशोऽपि वृद्धिश्चैव गमिष्यति॥४६॥॥

इति गम्य-अगम्य भक्ष्याभक्ष (भक्ष्य-अभक्ष्य) प्रायश्चित्तं समाप्तम्॥

यथाश्रुतं यथादृष्टं निर्बर्द्धगुरुभिर्यथा। स्वसिद्धान्तादिरोधेन तद्विलंघ्यविलंघनम्॥१३॥

मात्राहिरेण्यपित्रा वा ताडितपुत्रानुत्तमः। ताडनेन मृते तस्मिन् पातकैर्न च लिप्यते॥१४॥

सो दासो हितकार्यम्वा धनिनापीडिताप्रियः। ताडनाच्च मृते तस्मिन् पातकेन न लिप्यते॥१५॥

स्वपिता भिक्षुशावर्द्धं शीघ्रं गच्छति प्रेरितः। अद्याद्यच मृते तस्मिन्मानानन्तर्यं ययुज्यते॥१६॥

सुग्लानेनोहता दुष्टं स्वगलं विनिपीडितम्। उपस्थायकभिक्षुस्मिं मृते तस्मिन्नदोषभाक्॥१७॥

अन्यसज्ञान चात्यन्तु पारयं दोषमश्नुते। इत्युक्तं विनयव्यक्तं न दोषो दुष्टचेतसामिति॥१८॥

प्रायश्चित्तशौचाचारविधौ प्रायश्चित्तत्योदयप्रकरणमिति। प्रायश्चित्तशौचाचारविधौ प्रायश्चित्त-उदयप्रकरणमिति॥

इदानीं गोघ्नप्रायश्चित्तविषयव्यवस्थापने। गोवधया प्रायश्चित्तविधान-वैश्यवधप्रायश्चित्तविषयो व्यवस्थाप्यते। गोवधया प्रायश्चित्तं वैश्यवधया प्रायश्चित्तं न सममिति॥२॥

प्रायश्चित्तसंपूर्णां ते वृषभङ्गां वा दद्यात्। यो बलिवर्दं हन्यान्मे वृषभं दद्यात्॥

ब्रह्मचर्याव्रतं गोमं कुर्यान्मासनिरन्तरः। गोसुवर्णादिकं दत्वा गोहत्यानेन मुच्यते॥३॥

(29)पञ्चगव्येपि गोध्न माषमेसीविसंयते। गोनूगामी वसं गोष्ठे गोप्रदानेन शुद्ध्यति॥४॥

विकटाकाररूपेण नाशयन्ति यदा क्वचित्। उद्विग्ना भयत्रस्तासु मृताश्च दोषमाप्नुयुः॥५॥

ताडितः प्रेरणार्थं गो गोपालेन कृपात्सरे। ततस्तस्या मृत्यान्तस्य गोवधपातके॥६॥

गोध्नसारे व्रतं कुर्याद् हेम वस्त्रं च भोजनं। मुच्यन्ते सार्द्धमासेन नखकेशविसर्जितः॥७॥

दद्याच्च दक्षिणां गाञ्च पुरोभवति एनसः। तोषणानां बहूनां तु बन्धने रोधनेपि वा॥८॥

एकश्चेद्बहवश्चैव देवाङ्गायते क्वचित्। पादपादं च हत्यायाश्चरेयुस्ते पृथक् पृथक्॥९॥

अतिवाहाभियोहत्या स्थातियोक्त्रबन्धनात्। नदिकाक्षारसंतारो ददंश्चैव प्रपातनात्॥१०॥

पादमेकञ्चरेद्रोधे द्वौ पादौ बन्ध्यते तथा। व्याञ्जनपादहीनस्याच्चरसर्वविपातने॥११॥

यन्त्रणा गोचिकित्सार्थं गूढगर्भविमोचने। यत्ने कृते विपत्तिः स्याद् प्रायश्चित्तं न विद्यते॥१२॥

औषधं स्नेहमाकारं ददं गोब्राह्मणेषु च। दीयमाने विपत्तिः स्यात् न स पापेन लिप्यते॥१३॥

दाहच्छेदशिरोभेदं प्रयत्नेनुपपर्वतान्। नराणां गोहितार्थत्वे प्रायश्चित्तं न विद्यते॥१४॥

गवां निपातनेश्चैव गर्भनाशो भवेद्यदि। एकैकस्य भवेत् कृच्छ्रं यथापूर्वं तथापरम्॥१५॥

पादमुत्पन्नमात्रे तु द्वौ पादौ गात्रसंस्थिते। पादौ न व्रतमाचेष्टे हत्वा गात्रे न चेतनः॥१६॥

(30)सर्वकेशान् समुद्धृत्य छेदव्यैतदङ्गुलीद्वयम्। एवमेव च नारीणां मुण्डा मुण्डापनं स्मृतम्॥१७॥

देवदास्यान्निपातेषु कूपेष्वायतनेषु च। एषु गोषु विपन्नासु प्रायश्चित्तं न विद्यते॥१८॥

पाषाणेन गुदे वापि शस्त्रेणाहत्यवतावरान्। विरचन्ति ये पापास्तेषां कृच्छ्रविशोधनम्॥१९॥

सोऽयं सगोपनार्थन्तु मदुष्यै ओघबन्धनात्। यल्लग्नानि विवाहेषु प्रायश्चित्तं न विद्यते॥२०॥

मूर्च्छितः पवितो वापि यदि वाणुहतः। पशु रुंछितां यदान्वेति पञ्चसप्तदेशेऽपि वा॥२१॥

स्नानके यदि गृह्णीयात् गृहाम्भं विपिबेत् स्वयं। सर्वव्याधिविनष्टेऽस्मिन् प्रायश्चित्तं न विद्यते॥२२॥॥

प्रायश्चित्तशौचाचारविधौ गोवधप्रायश्चित्तद्वितीयप्रकरणसमाप्तिः॥

यदा सम्पन्नमरणं उपस…….. वभवेत्। नाशौचं तत्र कर्तव्यं सपिण्डे सर्वजातिषु॥४८॥

गृहदाहे मृते चैव गवि बाले च मानुषे। प्रायश्चित्तं कथं तत्र केन भूमिश्च शुद्ध्यति॥४९॥

तिष्ठ कृत्स्नाया यावत्सख्यं प्रजायते। प्ररुधं च यदा सतां तदा भूमिः विशुद्ध्यति॥५०॥

हस्ते शूली मृण्मये वानिशासु क्षितिशायिनी। रजस्वला चतूर्थेऽह्नि स्नात्वा शूद्धिमवाप्नुयात्॥५१॥

पितुर्गृहे तु या कन्या रजःपश्चात् सभ्यसंस्कृता। भ्रूणहत्या पितुस्तया सा कन्या वृषली स्मृता॥५२॥

यस्तां विवाहयेत् कन्यां लोभमोहितमानसः। असावर्द्धममर्यादो तं विद्यात् वृषलीपतिः॥५२॥

(31)माता चैव पिता चैव ज्येष्ठदाता तथैव च। सर्वे ते नरकं यान्ति दृष्ट्वा कन्याः रजस्वलाः॥५३॥

तस्मातत्विवाहयेत्कन्यां यावत् ऋतुमती भवेत्॥

विवाहं अष्टवर्षायाः कन्यायाः शस्यते बुधैः॥५४॥

यावल्लज्जामजानान्ती यावत् क्रीडति बन्धुभिः॥

तावद्विवाहयेत् कन्यां मुनिभिः सम्प्रकीर्तिताम्॥५५॥

पापमलविनाशार्थं भर्तरि यज्ञसम्भवेत्। कन्यकापि विधानेन विमुह्यात् स्वामिनं विना॥५७॥

या पत्नी स्वामिनं त्यक्त्वा पुत्रं चान्याययोगतः। तस्मात्तत्र मृताया हि शून्यशुद्धित्रिरात्रतः॥५८॥

उत्कृष्टाय अभिरूढाय सदृशाय वराय च॥

सम्प्राप्ताय पिता तस्मै दद्यात् कन्यां यथाविधि॥५९॥

कन्याया दत्तशुल्काया विपद्येद्यदि तत्पतिः। देवराय प्रदातव्या यदि कन्या मुमोदते॥६०॥

एनामुत तदा द्रव्यं समर्पणीयमिति॥६१॥

ब्राह्मणक्षत्रियावैश्यशूद्राणां च परिग्रहः। स्ववर्णाश्रेयस्तां भार्यां सुवर्णवधपरिक्रियाम्॥६२॥

सगोत्रे मियते नारी विवाहेत्सप्तमे पदे। स्वामिगोत्रेण कर्तव्यास्तस्याः पिण्डादिकक्रियाः॥६३॥

व्रतोत्सवविवाहेषु तत्क्षणाः मृतसूतके। अश्रुतवेत्तथाहेन कर्तव्यं सर्वकर्मसु॥६४॥

सकामा यान्तु कन्याया सर्वर्णास्य पतिक्रमः। अलंकृत्य यथान्यायं स एव ना समुद्धरेत्॥

६५। एकपिण्डोयुयादोयादापृत्ग्धारे निकेतना। जन्मनां च विपत्तौ च भवत्तेषां तु सूतकं॥६६॥

यावत्तत्सुतकं गोत्रे चतुर्थे पुरुषेन तु। (32)दायाद्ये छेदमाप्नोति पञ्चमेनान्मजा….॥६७॥

चतुर्थे दशरात्रेस्यावश्रिसात्सिपञ्चमे। षष्ठे चतुरहात् शुद्धिरहोरात्रं तु सप्तमे॥६८॥

मैत्रेये अत्रेये, अथ रजामात्रे दौहित्रे भगिनीसुते। सालुके तत्समे चैव त्रिरात्रेण शुचिर्भवेत्॥६९॥

दशरात्रे चातिरात्रं च त्रिरात्रं च शुचिरिष्यते। पूर्वसूतकमुत्पन्नं पुनश्च कुलसूतकम्॥७०॥

अत्रिपेक्षा त्रिरात्रस्यात्पत्नी शाल्यक्षणो भवेत्। अतः संवत्सरादूर्ध्वं सद्यः स्नात्वा शुचिर्भवेत्॥७१॥

अज्ञातोदये बाला ये च गर्भादिनिःसृताः। न तेषां अग्निसंस्कारार्नाशौचं नोदकक्रियाः॥७२॥

यदि गर्भो विपद्येतस्तवते वापि योषिता। यावन्मासस्थितो गर्भो तावत् दिनानि सूतकम्॥७३॥

दशवर्षान्तरे शीर्णे व्रतसंस्कारकर्मणि। तावद्दिनेमशौचं ते दद्वंसक्षाप्तप्रकीर्तिता॥७४॥

यावन्नछिद्यते नारी तावन्नाप्नोति सूतकम्। छिन्नतेन ततः पश्चात् सुतकं तु विधीयते॥७५॥

-७६॥॥

इति प्रायश्चित्तशौचाचारविधौ शौचं चतुर्थप्रकरणमिति॥

इदानीं शौचाशौचप्रकरणमारभ्यतेह्नज्ञानवान् ……….. नित्यदेवाग्निपूजकः। वज्राचार्याय एकाहा शुद्ध्यते प्रेतसूतके॥१॥

गुणवान् शीलवान् भिक्षुः नित्यधर्मपरायणः। स्नानेन प्रेतसूतके सद्य एव विशुद्ध्यति॥२॥

प्रव्रजितस्य सर्वस्य दशशिष्यान्वितस्य वै। गृहधर्मप्रसक्तस्य सप्ताहं सुतुकं भवेत्॥३॥

(33)शुद्ध्येद्विप्रो दशाहेन द्वादशाहेन भूमिपः। वैश्यो पञ्चदशाहेन शूद्रो मासेन शुद्ध्यति॥४॥

दशाहं जावनशौच सपिण्डेषु विधीयते। अर्वाकं च यमेदस्थ्यं त्वहमेकादशौचवम्॥५॥

चतुर्थेऽह्नि संचयेन कार्जन्तगोत्रये मृते। ततः संचयनाद्वूर्ध्वमङ्गस्य नो विधीयते॥६॥

अथाध्ययनादुत्थानयोगेन सहिते शुद्ध्यति। अध्ययनमात्रयोगेन चतुराहेन शुद्ध्यति॥७॥

एकाहा शुद्ध्यते विप्रो योऽग्निवेदसमर्चितैः। हीने हीनेतरे चैव अहश्चचतुहस्तथा॥८॥

जन्मकर्मपरिद्रष्टा सद्योपासनवर्जितो। नामधारकविप्राणां दशाहं सुतकं भवेत्॥९॥

क्षत्रियाः वैश्ययारवि ( ? ) ब्राह्मणा अस्य चत्वारः पक्षा भवन्ति। अस्थिसंचयद्रष्टव्यं चतुर्थदिवसेऽपि वा॥४॥

शास्त्रपूताश्च ये शूद्रान्नित्यधर्मपरायणाः। शुद्ध्यन्ते तेऽर्धमासेन ह्यसशूद्रसमासतः॥५॥

कृषकोऽप्येवमशूद्रो द्वादशाहेन शुद्ध्यति। द्वादशाहोऽग्निपूजास्तुतिपेक्षविधिरेव च॥६॥

यथेदं शावमशौचं सपिण्डेषु विधीयते। जनन्यप्यवमेवस्यान्निपुणा शुद्धिमिच्छता॥१०॥

सर्वेषां श्रावमाषौ च मातापित्रोस्तु सूतकं। सुतकं मातुरेवस्याद् उपस्पृश्येत्पिता शुचिः॥११॥

पुत्रजाते पितुःस्नानं सचैलं तु विधीयते। माताशुद्ध्यै दशाहेन आचार्यस्य शनैः पितुः॥१२॥

बालदेशान्तरस्थे च पृथक्पिण्डे सुसंस्थिते। (34)सर्वासाजलमाप्लुत्य सद्य एव विशुद्ध्यति॥१३॥

स्वमुरयो भगिन्याश्च मातुलानां च मातुले। पितुः श्वसुरि लेपेत पक्षणि क्षपयेन्निशाम्॥१४॥

दिवाकीर्तिममलदञ्च पतितं मृत्तिकां तथा। शवान्तस्य स्पृष्टिं च स्पृष्ट्वा स्नानेन शुद्ध्यति॥१५॥

रजस्वलाया प्रेताया नमस्कारादिका क्रिया। उर्द्वत्रिनात्र संस्नाप्य सर्वधर्मेषु ज्ञापयेत्॥१६॥

अन्यगोत्राप्यसंवर्द्धः प्रेताग्निं तु ददाति यः। उदकाग्निपिण्डदानञ्च दशाहं सद्यः स्नापयः॥१७॥

यथैतानि वाक्यानि सर्वेषां एव वर्णानां साधारणानितथैव य विशेषप्रतिपादकानि अपि द्रष्टव्यानिति विशेषा प्रमाणाभावादिति॥१८॥

अन्तर्द्दशाहस्याताञ्च पुन मरणजुकामी। तावदेका शुचिर्भक्त्या यावन्निरयादनिर्दिशम्॥१९॥

मातर्यग्रप्रमातायामशुद्ध्याश्रियतोऽपि वा। पितुः शेषैः शुद्ध्येत मातुः कुर्याञ्च यक्षिणी॥२०॥

मरणे मरणे नैव सुतुके मृतके न तु॥

उभयोरपि यत्पूर्वं तेनाशौचेन शुद्ध्यति॥२१॥

मृतेन च शुचिर्जातं शवः सूत्यन्न शुद्ध्यति॥

गुरुणा लघुशुद्धेन न लघुनामच गुरुम्॥२२॥

सुतके मृतके वा स्यान्मृतके सुतकं तथा। शवेन शुद्ध्यतेऽशुचिर्न शूद्ध्या शुद्ध्यते शवः॥२३॥

विगतं तु विदेशस्थं शृणुया द्योज्यनिर्दिशम्। तच्छ्रेयं दशरात्रं स्यात्तावदेव शुचिर्भवेत्॥२४॥

निर्देशज्ञातिमरणं श्रुत्वा पुत्रस्य जन्म च। सयासाजलमासुभ्यः शुद्धो भवति मावति॥२५॥

(35)महागुरुनिपाते तु आर्द्रवस्त्रे प्रधाय च। अतीते केऽपि कर्तव्यं प्रेतकार्यं यथाविधि॥२६॥

पित-पश्चाच्च अतीतायां मातृवज्रं तु मानवः। संवत्सरे व्यतीतेऽपि त्रिरात्रमशुचिर्भवेत्॥२७॥

क्षेत्रिणीच्छुद्रदायादा यस्य विप्रस्य बान्धवाः। तेषामशौचे विप्रस्य दशाहात् शुद्धिरिष्यते॥२८॥

राजस्य वैश्यवध्यत्वे हीनयोनिषु बन्धुषु। स्वमवशौचं कुर्यान्ता विशुद्धयर्थं न संशयः॥२९॥

सर्ववृत्तमवर्णानां शौचं कुर्याच्च मातृवः। तद्वर्णविधिदृष्टेन स्वस्वशौचं स्वयोनिषु॥३०॥

यद्येकज्जाता बहवः पृथककर्णानकर्णिकः। तेषां तु पैतृकं शौचं पितुर्युपरत्र पृथक्॥३१॥

वर्णानामानुपूर्व्येण स्त्रीणां एको यदा पतिः। दशार्हषटदेहेकाहात्प्रसवेत्सुतकं भवेत्॥३२॥

मृते सुते तु दासानां पत्नीनां चानुरोमतः। स्वामिमुख्या भवेच्छौचं मृते स्वामिनि पौनकम्॥३३॥

अन्यपूर्वविरुद्धाश्च अहाच्छुद्ध्यन्ति बान्धवाः। तास्वतास्वन्यपर्वासु पञ्चाहा शुद्धिरिष्यते॥३४॥

आदिष्टो मोदकं कुर्याद् आगतस्य समर्पणात्। सप्ते भूमोदकं कुर्यात्त्रिरात्रमशुचिर्भवेत्॥३५॥

न राज्ञा मद्यदोषास्त्रीव्रतीनां न च क्षत्रिणाम्। ऐन्द्रस्थानमुपासिनब्राह्मणा यदि ते स्मृतः॥३६॥

व्यथा संकरजातानां प्रव्रज्यासु च तिष्ठताम्। आत्मनेस्त्यागितां चैव निवर्ततोदकक्रिया॥३६॥

पाषण्डाणाश्रितायाञ्च भूभृघ्नाः कामगास्तथा। सुरप्य आत्मत्यागिभ्यो नासौ चोदकभोजना॥३८॥

(36)विद्युगो नृपविप्रा हि शृंगी दुष्येन्गिघातिता॥

व्यथेन्यन्नात्मजक्लीबो व्रतीनेवोदकोर्हकाः॥३९॥

यदि कश्चित्प्रसादेन श्रियतेऽग्निकादिना। अशौचं तस्य कर्तव्यं कर्तव्यं चोदकक्रियाः॥४०॥

चाण्डालदुदकात्सर्प्या ……………. ब्राह्मणादपि॥

?दृष्टिभ्यश्च पशुभ्यश्च मरणस्यापकर्मणाम्॥४१॥

सर्वविप्रहतानाश्च शृगीदृष्टिसरिनृपैः। स्वमात्मात्यागिनां चैव शा मेपान्नकारयेत्॥४२॥

उदकं पिण्डदानं च गुरुभ्यो यत्प्रदीयते। नोपतिष्ठन्ति तत्सर्वं अन्तरीक्षं विलीयते॥४३॥

अवृत्ते दशरात्रे तु पञ्चत्वं यदि गच्छति। मातु विप्राविकश्चैव पिता स्नानेन शुद्ध्यति॥४४॥

दासादासं च सर्वादि यस्य वर्णस्य या भवेत्। तद्वर्णस्य च वै शौचं दास्यामाश्रश्च सूतकम्॥४५॥

दुर्भिक्षराष्ट्रसंपाते आपत्काले विशेषतः। उपसर्गमृतं चैव सद्यः शौचं विधीयते॥४६॥

जीवो जातो यदि प्रेयात् मृतो वा जायते यदि। सुतकं तत्र कर्तव्यं इति धर्मव्यवस्थितिः॥४७॥

दशाहाभ्यन्तरे नष्टे बाले तदीयबान्धवैः। सोवा शौचं न कर्तव्यं शुचिः शौचेन शुद्ध्यति॥४८॥

अथ श्राद्धविधिमारभ्यह्नपितुः पुत्रेण कर्तव्याः पिण्डदानोदकक्रियाः। पुत्राभवे तु पत्नी स्याद् पत्न्याभावे च सोदरः॥१॥

वर्षे वर्षे हि कर्तव्यं मातापित्रोस्तु ताः क्रियाः। अदेवं भोजयेत् श्राद्धे पिण्डमेकं तु निर्वहेत्॥२॥

(37)भार्यापिण्डं पतिर्दद्यात् भर्तुर्भाया तथैव च। स्वस्रादिषु तथैव स्यात् तदभावे तु सव्रतिः॥३॥

अपुत्राः ये मृताः केचित् स्त्रियो वा पुरुषा अपि। तेषामपि च देयं स्यात् एव कोद्दिष्टपार्वणम्॥४॥

नित्यं नैमित्तिकं कार्यं वृद्धिश्राद्धे अथापरम्। पार्वणं चेति विज्ञेया श्राद्धपञ्चविधाः बुधैः॥५॥

पल्युर्वाह्नेविकं श्राद्धे अनराह्ने च पैतृकम्। एको दिष्टं च मध्याह्ने प्रातःवृद्धिनिमित्तकम्॥६॥

क्रियाविधिज्ञामाचार्यसुभुक्तमपभोजयेत्। न तु मूर्खनिराहारमथवा भोजयेत् सुखम्॥७॥

श्राद्धविघ्ने समुत्पन्ने मृतस्य विधितेजिने। अमावास्या तु कर्तव्या शुद्धो वापि विशेषतः॥८॥

स्नानं चैव महादानं स्वाध्यायञ्चान्यतर्पणम्। अब्दमेकं न कुर्वीत महागुरुनिपातने॥९॥

कलमाश्च तिला नागा दाशीक्षितिरथागृहम्। कन्या च कपिलाया व महादानानि यै दश॥१०॥

अधिमासो न कर्तव्यः श्राद्धसांवत्सरादिकम्। वर्षवृद्ध्याभिषेकादि कर्तव्यं त्वधिकेन तु॥११॥

प्रशस्तान्यपि मासेषु कर्तव्यानि महात्मभिः। अप्रशस्तं न कुर्वीत चात्मानं शेषमिच्छता॥१२॥

ताम्बूलञ्च पयःपानं पुष्पमङ्गानुलेपनम्। उपवासेन दुष्यन्ति दन्तधावनमञ्जुनो॥१३॥

न मातुश्च पृथक् श्राद्धं आचार्यप्रविकीर्तितम्। पितृपिण्डोदके पात्रे साध्वी तत्राग्रहारिणी॥१४॥

ये चास्ते विकुले जाता अपुत्राय च बान्धवाः। विरूपा आत्मगर्भा च ज्ञाताज्ञातकुले मम॥१५॥

(38)भूमौ दत्तेन तृप्यन्तु तत्प्रयान्तु परागतिम्। संस्कारहीनमार्गसंशोधनाय काकादि काकसंस्कारादिस्नानादि स्नानविकाले पिण्डं ददामित्यभ्यस्वधाङ्गम्॥

मृतमुद्दिश्च पयःदत्तं आचार्याय स्वबन्धुभिः। तस्मै दत्तं इति ज्ञेयं पायेयं स्वर्यान्तस्य तत्॥१७॥

सप्ताहा प्राक् प्रदातव्यं …….. बन्धुभिः। तेन दानेन यावस्य सुखावत्यां गृहीयते॥१८॥

गोमूत्रं गोमयं क्षीरं दधिसर्पिकशोदकम्। निर्दिष्टं पञ्चगव्यं तु पवित्रं कायशोधनम्॥१९॥

नीलायाश्चैव गोमूत्रं कृष्णाया गोमयं भवेत्। ताम्रवर्णापयश्चैव शुक्लायाः सुरभेः दधि॥

कपिलायाः धृतं ग्राह्यं महापातकनाशनम्। अभावे सर्ववर्णानां कपिलायाः विशेषतः॥२०॥

कपिलाया अतो वस्तु यथालब्धं समाचरेत्। गोमूत्रे सकलं दद्यात् अगुष्टार्द्धं तु गोमयम्। क्षिरं सप्तपलं दद्यात् दधि पञ्चपलानि च॥

मृतमेकपलं दद्यात् आचमनं तीर्थोदकम्। ताम्रपत्रे स्थिते कृत्वा चैतत्सर्वविधानतः॥

अन्यत्रापिह्नएवं गोघृतगोमयगोमूत्रपलमेकं प्रकीर्तितम्। क्षीरसप्तपलं दद्यात् दधि पञ्चपलानि चमैत्रे पञ्चपलानि च मैत्रे रविस्थितं कुर्यात् कल्याणविधिना यथा॥

भव्यां गुरूपदेशेन दद्यात्तीर्थाम्बुना सह। सर्वपापविनाशाय पूजार्थं पविताय च॥

महाकारुणिकानाथ, देहि मे गव्यपञ्चकम्। कायवाक्वित्तशुद्ध्यर्थं दुर्गतेः शोधनाय च॥

(39)महाकारुणिकानाथ, देहि मे गव्यपञ्चकम्। अशेषजिनसंभूतं सर्वधातुविशोधनम्। महाकारुणिकानाथ, देहि मे मव्यपञ्चकम्॥२२॥

गोमूत्रस्यैकपलकं अगुष्टार्द्धेन गोमयम्। क्षिरं सप्तपलं दद्यात् दघ्न स्त्रिपलमुच्यते॥

आपयस्यैकपलं दद्यात् पलमेकं कुशोदकम्। सर्पिशोपमश्चैव पृथङ् मिश्रेणाभिमिश्रयेत्॥

गणज्येष्ठस्य हस्तेन दद्यात् च गव्यपञ्चकम्। एतेन शुद्ध्यते कायं मनोऽथ भोज्य दातवे॥२४॥

तत्पूजयेद्यथाशक्ति चीवरादि विशेषतः। पूज्यं पञ्चोपचारेण कायवाक्भक्तिवेतन इति॥२५॥

अनेन वै॥

ओं ह्रुं ह्रां ह्रीं अः॥

मन्त्रेन अष्टोत्तरशतवारं जपेत्॥

अहोरात्रोपितत्स्नानं प्राङ्मुखे तत्समं पिबेत्। पञ्चगव्यं सकृत्पीत्वा सन्मन्त्राभिष्टितं शुभम्॥२६॥

सर्वपापविनिर्मुक्तः शुद्धो भवति मानवः॥

इति प्रायश्चित्तविधौ शौचाचारविधे श्राद्धप्रकरणमिति समाप्तम्॥

(40)