श्रीलोकेश्वरभाषितपराजिका

श्रीलोकेश्वरभाषितपराजिका॥॥

ओं नमो लोकनाथाय॥

श्रीमत्योतरके रम्ये लोकनाथं प्रपृच्छति॥

मानवानां हितार्थाय तारादेवी महाकृपा॥

उत्पातलक्षणस्यापि शुभाशुभपरिक्षणाम्॥

देशय त्वं कृपासिन्धो विधिना सहसा प्रभो॥

लोकेश्वर उवाच॥

श्रुणु तारे प्रवक्ष्यामि उत्पातशान्तिकक्रमम्॥

पश्चिमे कालजाः लोकाः पापचाराः भवन्ति हि॥

उत्पातं जायते पापात् तं नश्यति विधिप्रिये॥

तस्माल्लोकहितार्थाय मया मिथ्या न भाषिता॥

ध्वजादिदेववस्त्रेषु चात्मवस्त्रेषु वा तथा॥

बिम्बं सञ्जायतेऽक्स्मात् कृत्स्नं तं बहलं श्रुणु॥

वर्षैकेनाथवा मासे षट्केन स्वामि नश्यति॥

तस्य शान्तिः पञ्चरक्षाविधानं च महाबलिम्॥

भूदानं स्वर्णदानं च भिक्षाचार्यं च भोजनम्॥

कुर्यादेतेन तच्छान्तिं भवतीति विनिश्चयः॥१॥

व्याघ्रादिजन्तवोऽकस्मात् देशे ग्रामेऽथवा गृहे॥

प्रवेशयुः यदा तस्मात् स्वामिमृत्युमहाभयम्॥

तच्छान्तिर्होमपाठेन महाबलिप्रदानतः। भूमिरण्यप्रदानेन भिक्षाचार्यप्रभोजनम्॥२॥

(६९)दिने उरगपतेन पातनेन्द्रधनुस्तथा॥

वज्रपातेन यद्यत्र कुटुम्बे संक्षयं भवेत्॥

शान्तिहोमार्चने स्वेष्टदेवार्चनं यथाविधि॥

ग्रहार्चनं च तत्पाठबलिदानं च कारयेत्॥

भूहिरण्यगृहं दानं आचार्येऽभ्योऽपि भोजनम्॥

शान्तिर्भवति एतेन लोकनाथेन भाषिता॥

कूपप्रणाल्यादिषु तोयगन्धर्भवति नानरसवर्णकीटाबन्धस्तथास्यान्मरणम्प्रभोऽस्याथवा सुहृद्बन्धुविनाशनं स्यात्॥

शान्तिस्तदैतज्जलयज्ञकर्मकांस्यदुग्धपात्रं सगुडं च ताम्रम्॥

कांस्यघृतेनेन्दुयुतं सवस्त्रं हिरण्यगर्भोदकपूर्णकुम्भदानं हिकूपादिषु पूजनं च भवति शान्तिरिति वदति नाथः॥४॥

यस्मिन् गृहे संनिवहत्यकस्मात् श्मशानगन्धं च विनाग्निधूमम्नानाविधं जन्तुशरीरखण्डं महाभयं चाग्निभयं च मृत्युः। मासेन वा पञ्चमवत्सरेण विवाददुःखकलहाः भवन्ति। एतस्य शान्तिर्दशवासरेण कुर्याद्धिरण्यप्रतिमाप्रदानम्। स्वक्षत्रपालार्चनभिक्षुभोज्यमेतेन शान्तिर्भवतीति नित्यम्॥५॥

मार्जारयुद्धेन गृहे पि युद्धं भवेत्सगोत्रैः सुहृदादिभिश्च। स्त्रीशोकसंतापविवाददुःखं मासाष्टकेनैव भवन्ति नित्यम्॥

स्नानं सुतीर्थे विमले प्रभाते कलशार्चनं होमविधिं च कुर्यात्। मार्जारमूर्तिरजतस्य दानं विप्राय भोज्यं च तदैव शान्तिः॥६॥

गृहे सर्प-प्रवेशं च पतनं चापि दर्शनंस्वामिनाशो भवेत्तेन पञ्चमासेन वा त्रयः। अथवापत्युसुहृद्बन्धुनाशनं च धनक्षयम्। तस्य शान्तिः प्रकर्तव्या सप्ताहं नापि लंघयेत्। तीर्थे स्नात्वा प्रभातादौ मण्डलानि यथाविधि॥

त्रिमधु त्रिफला लोहाः शिरीषसमिधेन तु(७०)होमयेत्सप्तव्रीह्यादि सप्तशाकस्य बीजं चविघ्नोत्सादनमन्त्रेण सहस्रहव्यं होमयेत्॥

समत्स्यमांसरक्तश्च सदुग्धदधिमेव च॥

विधिना बलिमुच्छिष्टं दापयेत् सर्पशङ्किते॥

मृततत्कायमादाय तद्भूमौ बलिं दत्वाताडयेत्सर्षपेनैव मरणापस्नानमुत्सृजेत्॥

पंचरक्षादिपाठं च चन्द्रबिम्बादि दापयेत्॥

सुवर्णदक्षिणां दत्वा भिक्ष्वाचार्यप्रभोजनम्। एतेन तत्प्रशान्तीति वदन्ति करुणामयाः॥७॥

गृहे हि मृत्युसंप्राप्तेऽकस्मात्तस्याधिकं फलम्। तदपि शान्तिपूर्वेण कारयेद्विधिना बुधः॥८॥

गृहेऽकस्मात् गृहच्छुछुलिकामालाप्रदर्शनात्।
( छुछुन्दर स्त्री. री)शोकायाराधनान्नाशस्त्रीवियोगविनाशनम्॥

तस्य शान्तिः हिरण्येन गुडपात्रं प्रदापयेत्॥

विघ्नान्तकबलिं दत्वा गणेशाय प्रपूजयेत्॥८॥

श्वानेन मूत्रयेद्यस्य अंगे तस्य महाभयम्। धननाशं महारोगं कुटुम्बं च विनाशनम्॥

वर्षद्वयेन तच्छान्तिस्तण्डुलांकुरवोदनैः। श्वानरूपं प्रकृत्वा च द्वात्रिंशद्बलिसंवृतम्पंचोपचारं संपूज्य तत् घृते …. नेख निक्षिपेत्। दानं च रौप्यहेमं वा प्रतिमां गुडसंयुताम्। सुवर्णदक्षिणां सद्यः भोज्यमेतेन शांतयेत्॥१०॥

नितम्बे खलिनं श्वानं दृश्यते पूर्ववत्फलम्॥

शान्तिश्च पूर्ववत्कार्या लोकनाथेनथोदिताम्॥११॥

(७१)अन्नव्रीह्यादिसंपूर्णतोयक्षीराज्यमद्य वा। भाण्ड-भग्नेन तत्स्वामि-मरणं वर्षमासतः॥

तस्य शान्तिः हिरण्यं च गोदानं भिक्षुभोजनम्। हिरण्यगर्भसंपूर्ण कुम्भवस्त्रे च दापयेत्॥१२॥

विहारे व्यञ्जने भूमौ मन्दिरे वा पि कुत्रचित्। जन्तुमृत्युस्तदंगं वा दृश्यते तेन तत्फलम्॥

वर्षैकेनाथ वा मासचतुष्केण भविष्यति॥

स्वामिमृत्युमहादुःखं महारोगं महाभयम्॥

तस्य शान्तिः प्रातः स्नात्वा सुतीर्थेषु दातव्यं तिलकांचनम्॥

लोहपात्रं समाषं च सहिरण्यं प्रदापयेत्॥

शान्तिर्भवति एतेन लोकनाथन भाषिता॥१३॥

रथे देवालये चैत्ये प्रासादे मण्डपेऽथवा॥

छत्रध्वजपताकादिचूडामणिर्विशेषतः॥

कलशं सायकं वज्रं देवालंकारमेव च॥

ह्यकस्मात्पतनं भग्नं दहनं चैव वह्निना॥

नानावैपर्यमेव वा तस्य भयं भविष्यति॥

महामारी भयं चाग्निभयं राष्ट्रविभंगकम्॥

नानाविवादकलहं दुर्भिक्षं धननाशनम्॥

एतानि पञ्चमे मासे सप्तमे चापि वत्सरे॥

भवन्तीति यदा शान्तिः न कुर्यादिति निश्चयम्॥

तेषां शान्तिं प्रवक्ष्यामि महामायादिशान्तये॥

सहस्राहुतिहोमं च पाठमष्टोत्तरशतम्। आवर्तपञ्चरक्षाख्यं गोदानं भूमिमेव च॥

हिरण्यपञ्चान्नवस्त्रं च ब्राह्मणाः ये च भिक्षवः॥

शान्तिर्भवति एतेन लोकनाथेन भाषिताम्॥१४॥

यस्मिन्देवालयेऽकस्मान्नानाद्भुतं भवेद्यदा॥

(७२)तदा वर्षेण तत्स्वामि-मरणं यायादिति ध्रुवम्। शान्तिस्तस्यैव देवस्य पूजां कुर्यात् यथाविधिम्॥

हेमदानं च कौमारीपूजां बलिं च दापयेत्॥१५॥

नानापुष्पफलान्यादि जायतेऽकालसंभवेत्॥

तदाकालभयं याति क्षणेन वर्षतोऽपि वा॥

नवग्रहार्चनदानं स्थानबलिं तथा। कुर्यादेतेन तच्छन्तिर्भवतीति सुनिश्चयम्॥१६॥

कुष्माण्डबीजपूरादि-फलानिवृक्षसंस्फुटम्॥

अंकुरानि च तद्गर्भे दृश्यते नात्र शंक्यते॥

वंशनाशकुवंशश्च जायते नात्रसंशयः॥

स्वजनानि सुह्रद्बन्धुवियोगश्च भविष्यति॥

कलशादिकं संपूज्य महाबलिं च दापयेत्॥

फलादिहेमप्रतिमादानं दद्याच्च भिक्षवे॥

भोज्यं चापि यथा शक्त्या शान्तिरेतेन निश्चया॥१७॥

पक्वधान्यादिसंजात मंकुलं दृश्यते यदा॥

तदा पूर्वफलं भूयात् शान्तिस्तस्य च पूर्ववत्॥१८॥

देवालये गृहे चापि मीनप्राप्तेन तत्प्रभुः। मरणं वत्सरेणैव कुटुम्बं चापि नश्यति॥

शान्तिहोमं तया कुर्यात् हेम-धान्यं तिलादिकम्॥

दानं भोज्यं च संघेभ्यस्तेन शान्तिरिति निश्चयः॥१९॥

अकस्मात्स्वर्णरूप्यादिनानारत्नविशेषतः॥

प्रणश्यन्ति तदा तस्य कलत्रादि विनश्यति॥

तस्य शान्तिः सुवर्णादिनानारत्नं च दापयेत्॥

नागार्चनविधानेन देवमभ्यार्चनं तथा॥२०॥

प्रासादचालनेनापि भूमिसंचालनेन वा। अकस्माद्देवताचैत्यरथतोरणपर्वताः॥

(७३)प्रासादगृहगर्भाश्च चूडामणिविशेषतः॥

भग्नं च पतनं चापि भवेत्तस्य महाभयम्॥

स्वामिमृत्युर्वियोगश्च कलहो बान्धवैः सह। शान्तिहोमं च विधिना बलिदानं तथैव च॥

गोभूहिरण्यप्रदानं च पंचरक्षां प्रपाठयेत्॥

भिक्ष्वाचार्यप्रभोज्यं च शान्तिर्भवति निश्चयः॥२१॥

देवतागृहवृक्षाणां स्वदेहानां विशेषतः॥

छाया न दृश्यते येन तेन मृत्युर्भविष्यति॥

षण्मासेनाथ वर्षेण कलत्रं वा विनश्यति॥

तस्य शान्तिःताम्रपात्रे सुवर्णस्य प्रतिमामक्षतान्विते॥

संस्थाप्य मण्डलं कृत्वा प्रतिष्ठां कलशार्चनम्॥

वज्राचार्याय तद्दानं दद्यात् भोज्यं च भक्तितः॥

एतेन शान्तिर्नित्येन लोकनाथेन भाषिता॥२२॥

क्षेत्रव्यञ्जन-भूमौ वा कुसुमानि कुबीजतः॥

विपरीतेन जायन्ते फलं तस्य कलत्रहाधनक्षयं च कलहं षण्मासेन भविष्यति॥

स्थानबलिप्रदानं च कलशोदकसिञ्चनम्॥

भूदानं रजतं चापि भोज्यदानेन शाम्यति॥

गृहे मृतशवाप्तेन कस्मात् शद्बभयावहेत्॥

स्वामिमृत्युर्भयं तस्य वर्षैकं नात्र संशयः॥

शान्तिर्मासाहुतिंयज्ञं पिण्डदानं तथैव च॥

सहिरण्यं प्रगुडरूपं क्षत्रपालस्य पूजनम्॥

प्रेतबलिप्रदानं च भिक्ष्वाचार्यप्रभोजनम्॥

एतेन शान्तिर्नित्येन मृतकशवे तस्य हि॥

प्रासादतोरणादकस्मात् पतनं भग्नमेव च॥

(७४)दशशतसमन्प्रेणाद्युतिमुर्च्छिष्टतर्पणम्॥

भग्नस्थानं चतुष्कोण-मृत्तिकादाय तद्बलिम्दत्वारण्ये प्रक्षिपेद्दानं हिरण्येन गुडं घृतम्॥

कौमारीपूजनं चापि गणचक्रं च कारयेत्॥

शान्तिर्भवति एतेन वेद करुणामयः॥२४॥

छिद्रं पश्यति यो यस्मिन्तारायां चन्द्रसूर्ययोः॥

महामारी ति दुर्भिक्षं भयं चास्मिन्भविष्यति॥

तस्य शान्तिर्महापञ्चरक्षापाठं महाबलिम्॥

महायज्ञं महादानं गोहिरण्यतिलादिकम्॥

चन्द्रबिम्बसूर्यबिम्बताम्रमुक्तादिकं वरम्। सद्यः भोज्यं च दातव्यं शान्तिरेतेन निश्चयः॥२५॥

अकस्मान्मुक्तिः सूर्यस्य दर्शनं प्राप्यते यदा॥

तदा दोलाश्वयानाद्वा पतनान्मृत्युराप्यते॥

संवत्सरेण तच्छान्तिः पूर्ववत्क्रियते सुधीः॥२६॥

पूजितं कलशादकस्मात् स्नानादन्यत्र पातितम्॥

शोषणं चामृतं तस्मिन् भग्नं वा स्वामी नश्यति॥

वर्षेण मासतश्चाग्निभयं नानाभयं तथा॥

कार्यनाशभयं तस्य शान्तिस्तु कलशार्चनम्॥

भूदानं स्वर्णदानं च कौमारीभोजनं तथा। संघेभ्यश्च यथा शक्त्या तेन शान्तीति निश्चयम्॥२७॥

होमकाले यदाकस्मात् अग्निनाशः प्रजायते। यजमानं कुलं हन्ति सप्तमासैश्च वर्षतः॥

तस्य शान्तिः पुनर्होमं कृत्वा ग्रहार्चनं तथा। चन्द्रबिम्बादिकं ज्ञानं शान्तिरेतेन निश्चयः॥

देवबलिप्रपूजायां महिषाजादितर्पणे। पुरीषोत्सृजने रक्तनाशहीनश्च जायते॥

(७५)तेन स्वामिनः भवेत्मृत्युर्पञ्चमासेऽथ वर्षतः। तस्य शान्तिं पुनर्देवं पूजयित्वा च तर्पणम्॥

कृत्वा गोभूहिरण्यं च दानं भोज्यं च कारयेत्। गजाश्वगोऽजवाहादिवाहनानि विकारणात्॥

मरणं याति तत्तस्य कलत्रं हि विनश्यति। तस्य शान्तिर्वाहनस्य प्रतिमारूपनिर्मिता॥

वज्राचार्याय तद्दानं कुर्याच्च गणचक्रकम्। गृहेऽहिमृत्युसंप्राप्तेऽकस्मास्मात्संयतनेन वा॥

सप्ताहे मृत्युमाप्नोति मासे वा गृहनायकः। तच्छान्तिर्जुहुयात् यज्ञं मण्डलाग्निं यथाविधि॥

पंचरक्षात्रयावर्तपत्यंगिरात्रिधा तथा। पंचविंशत्यलं ताम्रं पात्रं तिलैः प्रपूरितम्॥

सुवर्णगर्भं संप्राप्य सितवस्त्रेण छादितम्। लवणं च प्रदातव्यं वज्राचार्याय भोजनम्॥

शान्तिर्भवति एतेन निश्चयेन प्रतारिणी। क्षेत्रादौ बीजरोपेण अजातं चान्यत्प्रजायते॥

तत्स्वामिमरणं याति मासार्द्धेनार्द्धमासतः। तत्स्थाने जुहुयात् यज्ञे क्षेत्रपालाय पूजनम्॥

कांस्यं घृतमयं पात्रं रूपं चन्द्रेण संयुतम्। हिरण्यप्रदक्षिणादानं भोज्यं चार्यगणोत्तमे॥

एतेन शान्तिः सत्येन कथिता मुनिसत्तमैः। अकस्मात् भूमिकम्पेन गृहक्षेत्रादिकम्पने॥

तस्मान्नानाभयं रोगं भविष्यति धनक्षयम्। तच्छान्तिः कर्षतोहेमगृहमूर्तिर्तिलैर्युतम्॥

दानं स्थानादिदेवेभ्यः पूजनं संघभोजनम्। काकेन स्पृश्यते घातेऽक्स्मादंगविशेषतः॥

(७६)फलम् स्यात् संवक्ष्ये शीघ्रमृत्युश्च स्वामिनः। स्कन्धे धनक्षयं शोकं कण्ठे कलहोऽपि जायते॥

नितम्बे स्तम्भमाप्नोति पादौ वातादिपीडनम्। उदरे शोकसंतापः काकस्पर्शन तत्फलम्॥

तच्छान्तिर्जुहुयात् यज्ञं तीर्थस्नानं सचीवरम्। नागार्चनं बलिं चार्घ्यक्षत्रपालबलिं तथा॥

रूप्यं चन्द्रे हेमसूर्यकार्यमूर्तिं च दापयेत्। वज्राचार्याय सौवर्णदक्षिणादानतः शुचिः॥

पद्मशाखाः प्रदृश्यन्ते कर्णिकाहीनमेव च। सैव मृत्युमवाप्नोति शोकमाप्नोति निश्चयम्॥

तच्छान्तिः जलयज्ञं वा अग्नियज्ञं वाऽपि कारयेत्। तारामन्त्रेण संघाय सहस्रं जुहुयात्पुनः॥

कांस्यं घृतमयं पात्रं रूप्यं चन्द्रेण संयुतम्। श्वेतवस्त्रसमायुक्तं दातव्यं क्षीरभोजनम्॥

धूमः सञ्जायतेऽकस्मादग्निहीनगृहस्य वै। पुत्रीनाशः भवेत्तस्य लक्ष्मीशोषः भविष्यति॥

तस्य शान्तिर्महाहोमस्वाधिदेवप्रपूजनम्। धूपयेच्च महाधूपं बलिदानं च कारयेत्॥

गृहेऽकस्मान्मनुष्यादिहस्त्यश्वगो विदारतु। स्नानादिजन्तवो मृत्युप्राप्तैः मृत्युमासप्यते॥

तच्छान्तिः संगमे तीर्थे गत्वा स्नात्वा यथाविधि। कलशार्चनादिहोमं च कृत्वा दानं महाबलिम्॥

एतेन भातिरित्युक्तं शान्तिर्लोकश्वरेण वै। खड्गसंस्थापितेऽस्मात्पूजायां पतनं यदा। तदा तत्स्वामिमृत्युः स्याच्चतुर्मासे न संशयः॥

स्त्रीशोकं वा भवेद्यस्माच्छान्तिं तस्य वदामि हि। (७७)पंचरक्षामहापाठदुर्गार्चनं तथैव च॥

खड्गदानं समांसेन सहिरण्येन कारयेत्॥

स्वाधिदेवार्चनं चैव भिक्ष्वाचार्यप्रभोजनम्॥

देवालये गृहे वापि काकवासं गृहं कृतम्। आलापितश्च सन्ध्यायामकस्मात्तस्य तत्फलम्॥

परचक्रभयं पूर्वे चाग्नावग्निभयं तथा। स्वामिमृत्युर्भयं याति नैऋते पर घातकम्। प्रतीच्यां कुलनाशः स्याद्वायौ पुत्रविनाशनम्। उत्तरे धननाशः स्याद् ईशानेऽतिमहाभयम्॥

मध्ये राजभयं चैव कालमृत्युभयं भवेत्। तेषां शान्तिं प्रवक्ष्यामि तथागतोदितं यथा॥

त्रिपलमितं ताम्रपात्रं त्रिमधुपूरीतम्। सुवर्णगृहमूर्तिश्च संस्थाप्य कलशार्चनम्॥

होमं च बलिनैवेद्यदानवस्त्रादिकं गृहम्। काकलापगृहस्थाने खड्गसंहारं भावयेत्॥

पंचगव्येन संसिच्य तथा च कलशोदकैः। धूपयेत् सर्षपं तत्र काकगृहं च दाहयेत्॥

तद्भस्म च बलिं दत्वारण्यभूमौ विनिक्षिपेत्। एतेन तच्छान्तीति कथितं च मुनीश्वरैः॥

पुष्पवृक्षेऽन्यपुष्पसंजाये तेन तत्फलम्। पुत्रपुत्रीविनाशं च त्रिमासेन धनक्षयम्॥

तस्य शान्तिः महापञ्चरक्षापाठमहाबलिम्। चन्द्रबिम्बं कांस्यपात्रं दधिदुग्धं च दापयेत्॥

लोहसर्पहयं चैव प्रवेशेन गृहान्तरम्। पतनं च ततो भार्यापुत्रीणां च विनिश्यति॥

(७८)