मंजुश्रीपाराजिकाओं नमो रत्नत्रयायबुद्धं धर्मं च संघं च त्रिरत्नाग्रमनुत्तरम्। प्रणम्य सहसोवाच मंजुश्रीः करुणाकरः ॥१॥
संसाराब्धिमहाघोरे निमग्नाः सर्वजन्तवः। तारयिष्यन्ति मां नाथ देशयस्व कथं मुने॥२॥
आजीवादं कुलं यावत् पर्यन्त [ ] बोधिमण्डपं। तनयमादिशुचिर्जातिः कथं पाराजिका भवेत्॥३॥
भगवानाहह्नसांप्रतं श्रुणु, मंजुश्रि, सत्वार्थैकमहारतः। ब्रह्मक्षत्रिय वैश्यशूद्राश्चैव हि वर्णजाः॥४॥
संस्कारश्च त्रयाणां च शूद्रास्संस्कारहीनजाः। मानापुष्पावती साध्वी चतुर्थेऽहनि संश्रिता॥५॥
दम्पत्योश्चानुरागः स्यात् बीजस्याङ्कुरकारणम्। यदा ऋतु न दातारं न तावाहं फलं लभेत्॥६॥
व्रतनियमोपवासेन मासैकेन शुचिर्भवेत्। गर्भाधानं यदा साध्वी कर्तव्या च क्रियाविधिः॥७॥
चतुःषष्टयाष्टके मासि सीमन्तो प्रणयादिकम्। प्रथमं संस्कृते गर्भस्त्रयाणामपि योषिताम्॥८॥
तस्या गर्भं प्रसूय एते सर्वैश्च संस्कृतो भवेत्। नवा नाशत्य याज्जातैः जातकर्मादि कारयेत्॥९॥
मधुप्राशादिकं कार्यं यथोक्तं च क्रियाविधैः। तृप्त्यर्थं पितृदेवानां विधिपूजां तु कारयेत्॥
बोधिचित्तं पुरस्कृत्य समाधित्रयभावना॥१०॥
क्लेशार्चनं ततो गावं पूजयेद्विधिपूर्वकम्। (१)कोलफलाक्षतं धान्यं यवसर्षपशितंलिलम्। दधिक्षीराज्यतोयं च अर्ध्यद्रव्यं प्रकीर्तितम्॥११॥
नवाङ्गवचनं श्रुत्वा नवांगदधि प्रशंस्यते। नवांगवजविन्यास-सरक्षजातमानवम्॥१२॥
छेदयन्तु ततो नाभिं शून्यताभावपूर्वकम्। तथागतो यत्स्वभावस्तत्स्वभावमिदं जगत्॥१३॥
तथागतो निःस्वभावः निःस्वभावमिदं जगत्। मेधावी धारणी चैव स्मृतिवान् जातथैवचः॥१४॥
पठस्तंत् प्राशयेदाज्यं स्वस्तिवाचकपूर्वम्। तथैव स्नातदानं च मंगलोत्साहं वर्तयेत्। नाडीच्छेद कृते सूतकस्तत्तदा॥१५॥
सुतकान्ते प्रकुर्वति पूजासत्कर्म कारयेत्। अभिषेकं ततो दत्वा आशिर्वादादिकं पुनः॥१६॥॥
इति जातकर्म-नाडी-छेदन-विधिः॥
तथैव पूजयेत्सर्वसमाधित्रयभावनाम्। शालिधान्यपञ्चषट्प्रस्थं षष्ठीदीपं प्रज्वालयेत्॥१॥
तथैव कारयेत्पूजां जागरणेन विनिष्क्रमः। ग्रहमातृसमभ्यर्च्य यथोक्तं ग्रहसाधने॥२॥
दशमे द्वादशे चाब्दौ द्वाविंशतीति वा पुनः। नामकर्म प्रकर्तव्यं वर्णानां च विशेषतः॥३॥
मोहनत्वान्मुनिविप्रस्य लक्षणात् भद्रक्षत्रियः। योषां गृहपतिर्वैश्य कृषिकशूद्रपेषणात्॥४॥
अथवा॥
ब्राह्मणस्य भवेत् शर्म वर्मोक्तं क्षत्रियस्य च। वैश्यस्य गुलमित्युक्तं स्त्रीणां चानुक्रमात् बुधैः॥५॥
(२)दीर्घाक्षरं तु नारीणां मङ्गलार्थं समन्वितम्। मासत्रये चतुर्थे वा चालकादर्शयेद्रविम्॥६॥
अन्नप्राशनमष्टे वा मासे संवत्सरेऽथ वा। तारणीं च पुरस्कृत्य शास्त्रादिशिल्पिकर्मकम्॥७॥
यः स्पृशेत् प्रथमं तत्प्रथमं बाल …… कर्म जीवति॥
चूडाकर्मकर्णभेदं यथासंख्यं च कारयेत्॥८॥
ब्राह्मणक्षत्रियवैश्यशूद्राणां च तथैव च। गर्भात्सप्तमवर्षे वा यावद्वादशवत्सरे॥९॥
व्रतोपनयनं कर्म कारयेत् बुद्धशासने। पुरस्कृतार्थसंघं च गुरूपाध्यायमेव च॥१०॥
कर्मसूत्रोपचारेण कर्तव्याश्च महामते। आदौ त्रिशरणं देयं ततः शिष्यादिपञ्चकम्। उपासकव्रतं चैव विना केशावतारणम्॥११॥
गृहस्थानाम संत्याज्य नामोच्चारणपूर्वकम्। निकायस्यानुरूपेण कर्तव्या च त्रियानिके॥१२॥
प्राणापातं परंस्वं च काममिथ्यानृवचः। सुरापानादिकं पञ्च विरमोपासकं व्रतम्॥१३॥
अवतार्य ततः केशान् शिरसि स्थापयेत् शिखाम्। काषायं च प्रदातव्यं दशशिक्षापदं पुनः॥१४॥
नृत्यं गीतं च वाद्यं च मालागन्धविलेपनः। वर्तनं च महाशय्यां उच्चासनं तथैव च॥१५॥
अकालाशनं स्वर्णं च रुप्यग्राह्यावेद्दशः। चीवराणि ततस्त्रीणि भिक्षाभाजनकुण्डिकाम्॥१६॥
संघाटीं च निर्वसनं क्षिरीकां च प्रदापयेत्। षट्पारमिताः समासाद्य आर्यसत्यादिसंवरम्॥१७॥
तदग्रे कोटिशिक्षां च बोधिचित्तं प्रदापयेत्। (३)एते संग्रहणाभिक्षुः श्रामणेर ॥१८॥
चेलकं च तर्द्धेण यानत्रयविभावनात्। सर्वेषां अग्रतो भिक्षुः यज्ञकार्यादिवर्जितम्॥१९॥
निर्वाणाश्रयभूते निरापेक्षस्वभावतः। वज्रघण्टादिकं होमं सर्वकर्मानुसाधनम्॥२०॥
द्वाभ्यामेव प्रदातव्यं वज्राचार्यपदं पुनः। सूत्रादिमन्त्रपाठं च मण्डलं दर्शयेत्तथा॥२१॥
भाजनं द्वादशे वर्षे यमनियममेव च। त्रयाणामपि वर्णानां पंचैकादशषोडशे॥२२॥
उपनयनं च कर्तव्यं यथोक्तं देशतंत्रके। शिखाच्छेदं च भिक्षूणां श्रावकाणां तथैव च॥२३॥
संन्यासयोगमन्त्रीणां त्रिजटाधारणो पुनः। संघाटीं चीवरं शाटीं धर्मधातुं च भोजनम्॥२४॥
कुण्डिकां एवचिह्नं च पंचज्ञानविशुद्धभाक्। वज्रोपायं तथा घराठां(?) प्रज्ञापारमितात्मकम्॥२५॥
संवृत्तिपरमार्थे न तथताज्ञाननिर्मितः। वर्णानामग्रतो बुद्धो द्वादशर्कसमप्रभः॥२६॥
त्रैलोक्यव्यापिनीः वंदे वंदे सदा भवेत्। ॥
इति प्रव्रज्याग्रहणविधिस्तृतीयोऽध्यायः॥
शाक्यवंशप्रजाः वन्दे जन्मना च प्रजायते॥
प्रव्रज्याग्रहणा(त्) भिक्षुः पुनरावृत्य वज्रधुक्॥१॥
लोकाचारं प्रवक्ष्यामि सत्वानां हितकाम्यया। येन सञ्चरति नित्यं भुक्तिमुक्तिफलप्रदम्॥२॥
(४)प्रातरुत्थाय शुद्धात्मा स्थितो पूर्वामुखं पुनः। स्वाधिदेवात्मयोगेन जपस्तोत्रं समाचरेत्॥३॥
ततो दशांगविन्यासं कृत्वा बहिस्ततो व्रजेत्॥
कोशमेकं तदर्द्धं वा पुराद्बहिर्जलाश्रये॥४॥
गृह्णीयात् वर्णभेदेन मृत्तिकां दन्तधावनम्॥
शुक्लरक्तं तथा पीतं कृष्णं च शुचिभूमिषु॥५॥
ब्रह्मक्षत्रियवैश्यानां शूद्राणां च तथैव च॥
नदीदेवालये चैत्ये श्मशाने दुष्टभूमिषु॥६॥
न ग्राह्या मृत्तिका तत्र विशेषात् मार्गकर्मसु॥
गोष्ठेषु भस्मपुंजेषु प्रतिष्ठाश्रममण्डपे॥७॥
न कर्तव्यं प्रयत्नेन पूरिषामार्गकर्मसु। यज्ञगोक्षीरवृक्षं च खदिरामुवटार्ककः॥८॥
अपामार्गकदम्बं च गृह्णीयाद्दन्तधावनम्॥
न कर्तव्या तृणलोष्टां अष्टकांगुलिभिस्तदा॥९॥
अभावे दन्तकाष्ठानां यत्र गण्डूषकैः शुचिः। नो संसारयेद्भूमिं चीवरं शिरसा वहेत्॥१०॥
अभिमुखोयौनिमलमूत्रं विवर्जयेत्। अथवा॥
सूर्योदयस्य पूर्वस्य मध्याह्ने च उदङ्मुखम्॥११॥
संध्याद्वयनिशाकाले दक्षिणाभिमुखं विदुः। पिधाय मलमूत्रं च ततः शौचं समाचरेत्॥१२॥
प्रथमं जलशौचं द्वितीयं मृत्तिकाशुचि। पुनः प्रक्षालयेन्नित्यं यावत्द्गंधं न वर्तते॥१३॥
यथापानं तथा हस्तं प्रक्षालयेत्पुनः पुनः। त्रिपंचसप्तगडूषमुत्सृ - - - - - - - ? ॥१४॥
(५)शौचमेवं गृहस्थानां चैलकानां विशेषतः। श्रामणेरकभिक्षूणां द्विगुणं त्रिगुणं भवेत्॥१५॥
हस्तौ प्रक्षालयेत् नित्यं मुखतुण्डं च स्पर्शनम्। आचम्य चात्मतीर्थेन शुचिर्भवति नित्यशः॥१६॥
नखाग्रेण यदाचम्यममेध्यपानतुल्यता। शिरोवेष्टमुक्तकेशी मुक्तशाटी सहो …..प ॥१७॥
हस्तपादौ विनाचम्य यदाचम्य शुचिर्भवेत्॥॥
इति शुचिनिर्देशः॥॥
अथ स्नानविधिः॥
ध्यानं स्नानं च भिक्षूणां मंत्रं च श्रामणेरकः। चेलकानां जलस्नानं ब्राह्मणानां विशेषतः॥१॥
नवछिद्रं मलं लिप्तं दुर्गन्धमलिनाशुचि। ध्यानेन शुद्ध्यते देहं तस्मात्स्नानं तु सर्वदा॥२॥
प्रथमं च मलस्नानं मन्त्रस्नानं द्वितीयकम्। ध्यानस्नानं तृतीयं च जलदानं तदन्तरम्॥३॥
अस्मात् तर्पणा यावत् न पीडेच्चान्तवासकम्। पीडयेत् यद् तु अज्ञानात् तस्य स्नानं च निष्फलम्॥४॥
ये मुढा स्नानदाने च दर्शनं क्षालयेत्सदा। पूर्वसंकल्पितस्थानादन्यस्थानं तु स्थापितम्॥५॥
तर्पणं स्नानदानं च यज्ञध्यानजपं तथा। मुक्तकं छयराद्रेवा [ ] यः करोति प्रमोहतः॥६॥
तत्सर्वं निष्फलं यान्ति सर्वकर्माणि यत्कृतम्। त्रिवाराणि आचम्य चक्षुरायतनं स्पृशेत्॥७॥
देवताः न्यासयेत्सर्वं प्राणायामादिकं पुनः। देवता तर्पणं पूर्वं पश्चाच्च पितृतर्पणम्॥८॥
(६)प्रेताञ्जलिस्तत् कार्यं ततो वस्त्रादिपीडयेत्। त्रिशरणागमनं चैव पापानामपि देशनाम्॥९॥
पुरापानुमोदना चापि संवरग्रहणादिकम्। बोधिचित्तोत्पादनं च पठेत् वारत्रयं सदा॥१०॥
चैत्यार्चनं ततः कार्यं शुद्धात्मा मानसं व्रती। इन्द्रियाणि च संयम्य शुचिशीलपरायम्॥११॥
आदिकर्मावतारेण यथोक्तं विधिकर्मकम्। नित्यार्चनं च यत्कर्म तत्सर्वं कारयेत्सदा॥१२॥
राहुदर्शनक्षुरे च दुःस्वप्ने मैथुने मृते। तीर्थे नैमित्तिके पर्वे नित्यस्नानं समाचरेत्॥१३॥
अनेन विधिना नित्यं य करोति महामतिः। इह जन्मनि बुद्धत्वं प्राप्यते बोधिमण्डपम्॥१४॥
पूर्वाह्ने भोजनं भिक्षुः सप्त सुघटिकाः यदि। अपराह्ने भोजनं सप्त सर्वेषां रविसंस्थिते॥१५॥
सूर्ये नास्तंगते भुञ्जीत व्रतनैमित्तिकं विना। प्रेतभोजनतत्तुल्यं भोजनं निष्फलं भवेत्॥१६॥
यज्ञांगतरुवृक्षेषु न भुञ्जीयात्कदाचन। प्रमादात् भोजनं यस्य पोषधं च समाचरेत्॥१७॥
त्रिकोणं वर्तुलं चैव चतुरस्रं च सिञ्चनम्। निकायवर्णभेदेन कारयेत् भक्षयाजनम्॥१८॥
असंयुक्तान्नपानं च सावद्यं रात्रिभोजनम्। भोजनान्ते घृतं नित्यं गोमांसभक्षणं तथा॥१९॥
बलिवल्युपहारं च आचमनार्घं तत्पुनः। पञ्चपूतनं गृह्णीयात् अध्यात्मप्रीणनं ततः॥२०॥
एवं तु भोजये[त्] भिक्षुस्तथैव श्रामणेरकः। मन्त्रेणावरणं कृत्वा भोजयेत् शुद्धमानसः॥२१॥
(७)वज्राचार्य्यं च नित्यान्ने ग्राहकैवीलपञ्चकम्। पत्रमामृतानलं तोषं द्वितीयं गोमातृतर्पणम्॥२२॥
अतिथिभ्यस्तृतीयं तु चतुर्थबलितर्पणम्। शेषं तु भोजयेत् वज्री वायुपंचप्रपीणने॥२३॥
अनामिका प्राणवायुः मध्यमापानमेव च। समानस्तर्जनी ज्ञेया कनिष्ठो दानवायवः॥२४॥
व्यानवायुश्च ज्येष्ठं तु पञ्चताथागतात्मकम्। समुदायाङ्गुली पञ्च दशवायुप्रतोषणम्॥२५॥
शिरोध्नी यदा भुञ्जीयात् पदाक्रान्तं तथैव च। उत्कुटासनं हास्यं च वर्जयेत् भोजने व्रती॥२६॥
यमास्यमाद्रवासं च नर्दितं विकृताननम्। पीतशेषं पुनः पानं मुखोत्सृष्टं विवर्जयेत्॥२७॥
सावधानो भव ह्नह्नउपधाशोषितो भूत्वा ध्यानजापेन शुद्ध्यति॥२८॥
गण्डूषोत्सृष्टपीडेन तृप्यते पितृदेवता। तस्मादुच्छिष्टं दातव्य शेषान्नं भूतप्रीणनम्॥२९॥
यावत् उत्सृष्टशेषं तु पश्चात्प्रक्षालनं मुखम्। ततो कुर्यां शुचिस्पर्शशून्यतां परिशोधयेत्॥३०॥
सूत्रान्तं तु पठेत् पश्चात् श्रवणं धर्मसङ्गहम्। संध्यायां समये पश्चात् मन्त्रभावनया पुनः॥३१॥
संन्ध्यायां च समारुह्य गुरुध्यानं समाग्रतम्। गुरुदेवं प्रणम्यादौ जपस्तोत्रं समाहितम्॥३२॥
उत्तरे चोत्तमांगं च पश्चिमायां स्वयं बुधः। सिंहशय्यां समारुह्य धारणीध्यानतत्परः॥३३॥॥
इति श्रीमुनीन्द्रभगवन् म्राघनभाषित-नित्याचारविधिः॥
(८)अथ मंजुश्रीर्भगवंतं एतदवोचत्। श्रुतं मया मुने . . . श्रीमुखान्निसृतामृतम्॥१॥
प्रमादाल्लङ्घयेत्केचित् व्रतनियमनित्यकम्। पाराजिकां कथं तेषां देशयस्व तथागत॥२॥
भगवानाहह्नप्रमादाल्लङ्घयेन्कर्म व्रतनियममेव च। मासेन मुच्यते पापाद्दानं धर्मोपवासतः॥३॥
नित्यकर्मार्चनाभ्रष्टोजपध्याने तथैव च। स्नानदानोपवासेन त्रिरात्रेण शुचिर्भवेत्॥४॥
कामक्रोधाद्यदा भ्रष्टो रौरवे परिपच्यते। स्नानदानोपवासेन वर्षेणैकेन शुद्ध्यते॥५॥
वचसा यत्कृतं पापं पातकं परिकीर्तितम्। कायेन यत्कृतं कर्म महापाराजिका भवेत्॥६॥
यत्कृतं चित्तजं पापमुपपातकमुच्यते। चत्वारो वाचिकं पापं त्रिप्रकारं च देहजम्॥७॥
चित्तजं च पुनस्तिस्र एते पापस्य मूलकम्। प्रातिपानाद्दत्तं च काममिथ्या च कायिकम्॥८॥
कायेन यत्कृतं पापं कायक्लेशाद्विमुच्यते। मृषावादं च पैशुन्यं पारुष्याभिन्नभाषणम्॥९॥
वाचिकं च कृतं पापं कायक्लेशेन मुच्यते। अविद्यां चैव व्यापादं मिथ्यादृष्टिं च चित्तजम्॥१०॥
मनसा यत्कृतं पापं मनस्तापैर्विमुच्यते। अपूतं च भवेत्सर्वं मन्त्राभक्षणात्छुद्ध्यति॥११॥
सूर्याग्निस्पर्शनाद्वापि भूमौ धृत्वा जलं शुचि। अनिष्टदर्शनो स्पर्शे भक्षणोच्छिष्टस्पर्शनम्॥१२॥
(९)मलमूत्रं विसर्गं च दूषितं दर्शस्पर्शने। आचम्य स्पर्शनं कार्यं त्रिपञ्चसप्तमेव च॥१३॥
न दोषं कारयेत्स्पर्शे स्नानं चापि शुजिर्भवेत्। यज्ञे विवाहे यात्रायां तीर्थे देवालयेषु च॥१४॥
देशविप्लवसङ्गामे महाभोज्यं च गोष्ठके। कामतः शवसस्पर्शे सूतिका च रजस्वला॥१५॥
चाण्डालकुक्कुटं दंष्ट्री महापातकिनं शुभम्। मांसविक्रीसुराविक्री मृतस्यानुचरः पुनः॥१६॥
सचैलस्नानमावर्त्य पञ्चगव्येन शुद्ध्यति। प्रमादात्स्पर्शनं सर्वं स्नानमात्रेण शुद्ध्यति॥१७॥
ग्रह-मुक्ते च यज्ञे च तीर्थदेवाभिषेचने। ग्रामधर्मे रथं रोहे सचैलस्नानमाचरेत्॥१८॥
मासि क्रिया त्रिरात्रेण सूतिकाया दशाहनि। रजसद्वादशाहेन सचैलस्नानमाचरेत्॥१९॥
पूर्ववस्त्रपरित्यागं शुद्धिवस्त्रं च प्रावरम्। दुःस्वप्नदुष्टसंस्पर्शे उद्वाहे क्षुरमैथुने॥२०॥
अजीर्णे वृद्धिकार्ये च स्नानमेव विधीयते। अशुची दम्पती नित्यं शय्यायामशुचिर्पुमान्॥२१॥
शयनादुत्थिता साध्वी शुचिर्भवति नित्यशः। दहनच्छेदनाद्वापि घर्षणात् शुचि काञ्चनम्॥२२॥
शंखतोयेन शुद्ध्यते व्रीहिशाकमूलफलानि च। काष्ठादि मृण्मयादीनि क्षालना तपनाशुचिः॥२४॥
चाण्डालादि स्पर्शे मृन्मया दारुजं यदा। पञ्चगव्येन शुद्धिः स्यात् मलभाण्डं च तु वर्जयेत्॥२५॥
दुःस्पर्शे दूषितं द्रव्यं भूतस्पर्शेन शुद्ध्यति। स्वभावशुद्धाः सर्वधर्माः स्वभावेनैव शुद्ध्यति॥२६॥
(१०)लक्ष्याहुत्यादिकार्येषु नैमित्तिकं कृतं यदा। तदा गोत्रादिमरणं कथं हि भगवन् मुने॥२६॥
भगवानाहह्नशृणु वक्ष्ये च, मञ्जुश्रि, सत्वानां हितकारणम्। कुरु स्थानान्तरेणापि तस्य दोषो न विद्यते॥२८॥
कृतं नैमित्यकंशस्य गोत्रादिमरणं यदि। यज्ञकर्मादिकर्तव्यं तस्यैव दोषनं नहि॥२९॥
यावच्चतुर्थीपर्यन्तं तावन्नाप्रोतिसूतकम्। तदस्यान्ते प्रकुर्वीत सूतकं यद्विधीयते॥३०॥
शुद्धिनयमेति ह्नअत्र चास्थिक्रियासम्यक् कर्तव्यविधिनोदितम्। संसारार्णवमग्नानां निवृत्यर्थं च देहिनाम्॥३१॥
यथोक्तमिति सूत्रे च सर्वासरणशोधनम्। कार्याय सर्वसत्वानां क्रियाहीने विशेषतः॥३२॥
स्वयं च तीर्णशक्तीनां नैकायाः किं प्रयोजनं। स्वतीर्णशक्तिहीनानां नौका तेषां गरीयसी॥३४॥
इच्छाप्रकृतिरूपेण वर्णविज्ञानभावतः। दर्शयेदमृतं जन्तूनां लक्षणं विविधं पुनः॥३४॥
हरिद्रक्ता तथा शुक्लं पीतं च नीलपञ्चमम्। पञ्चबुद्धविशुद्धेन पञ्चज्ञानं प्रकल्पयेत्॥३५॥
तस्य चिह्नस्वरूपेण गतिं तस्यैव योजयेत्। भिक्षुतनुर्वाणकादीनां तत्त्वसे गतिदर्शनात्॥३६॥
संहारक्रमयोगेन शुचिशुद्धेन योजयेत्। अप्राप्ताश्चाभिषकाश्च मन्त्रयोगविवर्जिताः॥३७॥
तेषां दुर्गतिं संशोध्य सुखावति नियोजयेत्। जलजाः स्थलजाः सत्वाः खगाद्याः सर्वजन्तवः॥३८॥
(११)शोधयेत् दुर्गतिं तेषां संबोधौ स्थापयेत्सदा। त्रिसमाधिः समासीनां कृतपापं विशोधयेत्॥३९॥
विन्यसेत् मण्डलं कार्ये पञ्चज्ञानं नियोजयेत्। संहाराग्निं समभ्यर्च्य निंबादितिक्तदारुभिः॥४०॥
नीलवर्णोपचारेण संहाराग्निं प्रतोषयेत्। ततो निर्हरयेत् ग्रामात्तीर्थे पितृवने पि वा॥४१॥
कमण्डलूदकधाराभिः शोधयेत् दुर्गतिं सदा। नवकोपासको वापि पुत्रो वा शिष्यको पि वा॥४२॥
व्रतपर्यायणं कार्यं पिण्डदानोदकक्रियाः। प्रथमभूमिसंस्कारं जलं चापि द्वितीयक म्॥४३॥
तृतीयं तेजःसंस्कारं चतुर्थ प्राणवाहनम्। यावद्वनं वाति वायुः तावदजनिः सृतिः॥४४॥
तावद्धोमो प्रकर्तव्यो भूतसंसक्तमानसः। न कायास्पर्शनमेत्य यावच्छेषाग्नितर्पणम्॥४५॥
तस्यैवाग्निमुखं कार्या निःस्वभावरूपतः। समासमं सगोत्रे च स्ववर्णौ गुरुशिष्यकौ॥४६॥
मित्रजामातरिश्याले प्रेते तोयं प्रदापयेत्। अदन्तजन्मना बाला यावद्वर्षजतुष्टयम्॥४७॥
न कव्यादकं दानं त्रिरात्रेण शुचिर्भवेत्। प्रसवे म्रियते बाले पितृमात्रो त्रिरात्रकम्॥४८॥
स्नानमात्रं च गोत्राणं शेषे वर्षविभागतः। प्रव्रजितो उपनयनाकृतो यस्मिंश्च म्रियते सति॥४९॥
पिण्डदानोदकं दानं कारयेदविचारयन्। नभवर्णाकाशसद्यः शौच्यं वज्राचार्यमथैव च॥५०॥
एकपिण्डा प्रदातव्या सप्ताहे निर्विशेषतः। तृतीयेऽहनि संप्राप्ते कर्तव्यास्थास्थिनिसञ्चयः॥५१॥
(१२)भस्मसादथ तं पुनः कृत्वा शेषभस्मानि वाहयेत्। तृतीयदिवसमारभ्य पञ्चसप्तयथाक्रमम्॥५२॥
दुर्गतिशोधनार्थं च मण्डलं वर्तयेत्क्रमात्। नद्यां संस्थापयेदस्थि, चैत्यगर्भे विशेषतः॥५३॥
अमृतोद्भवसूत्रं च पाठयेच्च पुनः पुनः। सप्ताहनि तु सम्प्राप्ते शौचकर्माणि कारयेत्॥५४॥
स्नानं क्षौरं तथा वस्त्रं भोज्यं संघे प्रवर्तयेत्। ततः पश्चात्प्रदातव्यं बोध्यर्थपिण्डमेककम्॥५५॥
स्थावलियानुरूपेण त्तथा तालनि भावयेत्। ओं मुने मुने महामुने स्वाहा॥५६॥
ओं नमः सर्वदुर्गतिपरिशोधनराजाय तथागतायार्हते सम्यक्सम्बुद्धाय॥
तद्यथाह्नओं शोधये शोधये विशोधये विशोधये सर्वपापोपशोधने। शुद्धे विशुद्धे सर्वकर्मावरणविशोधने स्वाहा॥५७॥
अद्यप्रभृति हे अमुकभिक्षो यथा ते तथागता अनुत्तरायांसम्यक्सम्बुद्धौ तथाहं परिणामयाम्यहम्॥५८॥
श्रामणेरकभिक्षूणां एष कार्यं विधीयते। चैलकोपासकानां च पृथक् कर्म, पृथक् क्रिया॥५९॥
पिण्डदानादिकं शौचं चतुवर्णविशेषतः। प्रथमाहनिमारभ्य यावत्सप्तदिनेषु च॥६०॥
पिण्डदानं यथाकार्यं शुद्धात्मा च जितेन्द्रियः। प्रथमद्वितृतीयेषु एकैकं च प्रदापयेत्॥६१॥
तथैव हि चतुर्थे व पञ्चमे त्रीणि पातयेत्। भवसप्तविशोध्यर्थं सर्वदुर्गतिच्छेदनम्॥६२॥
बोध्यंगसप्तधातुं च जायते पञ्चमेहनि। षष्ठमेकं तथा पिण्डं सप्तमे द्वयपिण्डकम्॥६३॥
(१३) सत्वरजस्तमोधर्मा पुण्यकार्यं प्रवेशयेत्॥
पुनश्चैकं बोधीबीजामृतं शुभम्॥६४॥
परिणामामचयेत्पिण्डं पातयेज्जिनसंनिधौ। सप्तताथागते लीनं लीनपिण्डं प्रदापयेत्॥६५॥
पुनः संवृतिसत्येन गोविवाहादिकं भवेत्॥
अथवा मन्त्रबीजेन सृष्टिन्यासं च चिन्तयेत्॥६६॥
अभावान्मासिकत्वाच्च पुनः पिण्डं चतुर्दशम्। पितापूर्वं पुनः पञ्च विकरेण सहैव च॥६७॥
योनं कारयेत् सम्यक् यथा पितरि मातरि॥
पिता पितामहादीनां मातामातामही यथा॥६९॥
अस्मत्पिता च माता च यथा गतेति गाथयालीन योजयेत्॥
द.दशमपिण्डमित्युक्तं प्रेते च सर्व-वर्णके॥७०॥
एकाधिकं दशाहेन क्षत्रियस्य शुचिर्भवेत्॥
वैश्यानां द्वादशाहेन दिनैकं विशशूद्रके॥७१॥
मृतके सुतके चापि शौचमेतद्विधीयते। वर्णान्तरे मृते पिण्डे त्रिरात्रेणाशुचिर्भवेत्॥७२॥
यज्ञे विवाहे धर्मे च संन्यासे तत्क्षणात् शुचिः॥
मञ्जुश्रीर्भगवंतं एतदवोचत्॥७३॥
जीवति च पिता यस्य म्रियते च सुतो यदि। सलीनकरणे तस्य तस्य श्राद्धे लये कुतः॥७४॥
भगवानाहह्नपितापितामहश्चैव प्रपितामहस्तस्य च। बुद्धं धर्मं च संघं च शरणं तस्य सा गतिः॥७५॥
अनेन विधिना ज्ञेया सर्वेषां लीनकर्मसु॥७६॥
अथ सांप्रतं श्राद्धपिण्डम्॥
(१४)लीनोत्तरं समारभ्य नित्यं नैमित्तिके गृहे। तीर्थे देवालये सर्वे श्राद्धपिण्डं प्रशस्यते॥७७॥
भक्ष्य-भोज्यादिकं सर्वे द्रव्यं कुत्सितवर्जितम्। संपूर्णनिर्मलं शुद्धं स्थापयेत्सुसमामतिः॥७८॥
पूर्वेद्युर्भोजनार्थे च आचार्यादीन् निमन्त्रयेत्। प्रक्षालयेत्स्वीयपादौ पश्चादाचम्य स्पर्शयेत्॥७९॥
स्थापयित्वा गुरुं भक्त्या शुचिस्थाने च विष्टरे। तस्मिन्पाद्याचमनं दत्वा श्राद्धभूमौ नियोजयेत्। ८०॥
यत् पाद्याचमनस्थाने मन्त्रमुचार्यते गुरुः। निष्फलं सर्वकर्माणि भवेद्राक्षसश्राद्धके॥८१॥
संयमो गुह्यशुद्धात्मा जितेन्द्रः मौनः सुव्रती। निराशी तुल्यसंतुष्टक्रियावन्तः शुचिक्षमाः॥८२॥
तमेव गुरुश्राद्धे च स्थापयेच्च समाहितः। भवेच्छुद्धं च यच्छ्राद्धमक्षयं पितरोगतम्॥८३॥
दुष्टात्मा क्रूरवचनोऽवहासी कलहप्रियः। असंतुष्टो शुचिभ्रष्टः स एव गुरुवर्जितः॥८४॥
निराशा पितरो यन्ति दाता यः नरकं व्रजेत्। आयसं मृतकं दारुश्राद्धपात्रं च वर्जयेत्॥८५॥
प्रमादाद्दीयते यत्र दत्वा च किल्बिषं भवेत्। धर्मधातुं पुरस्कृत्य गवां ग्राससमन्वितः॥८६॥
संप्रज्वाल्य प्रदीपं च सुस्निग्धं पूजयेद् बुधः। यथाष्टमीव्रतं चैव वर्णगन्धं च वर्जयेत्॥८७॥
तथा विद्वान् गन्धवत्तु वर्जयेच्छ्राद्धकर्मणि। मन्त्रिकामालतीधूपं दृष्ट्वा तुष्यन्ति देवताः॥८८॥
न याति पितरं तुष्टं विकरालं चेत्तथैव च। न कुर्यात् गन्धपुष्पाणि पश्चात्सर्वाणि दापयेत्॥८९॥
(१५)निवारिकुशं पुष्पं मन्त्रयुक्तो महार्थतः। तदेव श्राद्धमित्युक्तं तुष्यन्ति पितरः सदा॥९०॥
सर्वाभावे कुशं श्रेष्ठं कुशाभावे व्यपक्रियाः। सर्वे कार्ये कुशं श्रेष्ठं यज्ञे श्राद्धे विशेषतः॥९१॥
न दीर्घं नापि हीनं गर्भहीनं च कारयेत्। द्वादशाङ्कुलमानं च ग्राहयेच्छुद्धभूमितः॥९२॥
शाश्वतश्च कुशाग्रे च कुशमध्ये तथामितं। कुशमूले तथा क्षोभ्यं मन्त्रसंवर्णनां कुशम्॥९३॥
निर्वाणिकञ्च भिक्षुं च श्रामणेरकचैलकम्। दुर्लभं पात्रमेतानि दत्वा योऽक्षयतां व्रजेत्॥९४॥
एतान्यभाव्यपात्राणि श्राद्धकर्मसु नित्यशः। सगोत्रबान्धवादीनामभावे पुत्रमात्मकम्॥९५॥
प्रवासे पुत्रवासे च विदेशविप्लवे यदि। अन्नाभावे च पात्रे च यदा भार्या रजस्वला॥९६॥
विदेशस्था यदा भार्या मृताथस्यनित्यशः। आमपिण्डं प्रकुर्वन्ति दत्वाप्यक्षयतां व्रजेत्॥९७॥
स्कन्दमूलफलशाकं पुषकैश्चापि तृणैरपि। पिण्डदानं प्रकुर्वन्ति शुद्धात्मा भक्तिपूर्वकः॥९८॥
यदा रजस्वला साध्वी तस्या एव शुचिः भवेत्। स्वामिनः स्नानमात्रेण शुचिः स्यात् सर्वकर्मसु॥९९॥
विज्ञाते च दिने येन श्राद्ध-भंगं कृतं यदि। निराशा पितरं यान्ति कुलच्छेदञ्च जायते॥१००॥
श्राद्धान्तरात्समुत्पन्ने मृते रजसि सूतके। तस्यां ते च निराशकं दातव्यं श्रियमिच्छता॥१०१॥
कार्तिके शुक्लमारभ्य पूर्णाराकादिनं प्रति। धर्मपिण्डः प्रकर्तव्यः चतुर्वर्गफलाश्रये॥१०२॥
(१६) कार्तिके माधवे माघे श्रावणे युगनिर्गमे। कार्तिके पूर्णमास्यां तु तृतीया माधवेशिते॥१०३॥
पूर्णमास्यां तथा माघे नेभे कृष्णे त्रयोदशी। येन तत्र कृतं पिण्डं अप्रमेयफलं भवेत्॥१०४॥
आदौ प्रक्षालयेत्पादौ पश्चादाचम्य प्रोक्षणम्। ततः षडंगमत्याशं च नैरात्म्यं भावयेद्-व्रती॥१०५॥
दूर्वाङ्कुरं कुशं तोयं आज्यासतसमन्वितम्। पूर्वाभिमुखो भूत्वा अर्धसु यो यदा ययेत्॥१०६॥
दक्षिणाभिमुखो भूत्वा प्राङ्मुखं च गुरुं तथा। आर्य्यसंघोत्तरास्यं च स्थापयेत् शुद्धभूमिषु॥१०७॥
पाद्याचमनार्थदानं भोज्यं संकल्पनादिकम्। गुरवे आर्यसंघेभ्यः पूजयेद् भक्तिमानसः॥१०८॥
अपायगोधनं चैव प्रेतपिण्डं नियोजयेत्। सलीलकरणे श्राद्धे धर्मस्तूपं प्रपूजयेत्॥१०९॥
पिण्डदानेन सर्वे न उत्सर्गेन प्रपूजयेत्। उत्तानेन सदाचम्य सर्वांङ्गुलिनिषेवने॥११०॥
गंगादिसर्वतीर्थानि करमध्ये विशन्ति च। सुतीर्थ्याचमनं कार्यं शेषतीर्थ्यानि वर्जयेत्॥१११॥
कुशासनं मद्यपात्रं पिण्डासनं तथैव च। स्थापनीया पिता पूर्वं पश्चात्पिण्डानि दापयेत्॥११२॥
विकरेण विना पिण्डं कोटिपिण्डव्यथा भवेत्। तस्मादात्मनि सर्वेषु विकलं च प्रदापयेत्॥११३॥
गुरवे दक्षिणां दत्वा, ततः पिण्डविसर्जनम्। गुरुणापि पुनः कार्या आशीर्वादाभिसेवने॥११४॥
वेदिकायां बहिर्भूमौ संस्थाप्यपिण्डभाजनम्। प्रदक्षिणां जलधाराभिः प्रणम्य पश्चिमामुखम्॥११५॥
(१७) पितृन् विभजयेत्पश्चात् गाथया अनया सह। प्रेतालये च तीर्थेषु तडागे सरसि पुष्करे॥११६॥
पिण्डं प्रवाहयन्नित्यं प्रेतश्राद्धं च नित्यशः। कृतो व सर्वसत्वार्थं सिद्धिं गत्वा यथानुगाः॥११७॥
गच्छध्वं बुद्धविषयं पुनरागमनाय च। उपाध्यायाः यथा विद्या, दीपाद्दीपो यथा भवेत्॥११८॥
मुद्रायाश्चापरा मुद्रा दर्पणे मुखतो मुखं। पिण्डशेषं च अन्नं च बान्धवैः सह भोजयेत्॥११९॥
मध्याह्ने वाथवा नक्तं दिनान्ते प्रहरत्रये। सर्वे कालाश्च पिण्डस्य निशायां तु विवर्जयेत्॥१२०॥॥
इति पिण्डदानविधिः॥
प्रमादाच्छश्त्रघातेन आत्मघातापमृत्युश्च। कृष्णपक्षे चतुर्दश्यां तेषां पिण्डं प्रदापयेत्॥१॥
शुचिर्ब्रह्म दशाहेन द्वादशाहेन क्षत्रियाः। वैश्यः पंचदशाहेन शूद्रो मासेन शुद्ध्यति॥२॥
निशामेव समुत्पन्ने सूर्येनोदयते यदि। दिनग्राह्यं सपूर्वं च मृते रजसि सूतके॥३॥
भवेत् गर्भविपत्तिमान् सरे श्रावयेत् स्त्रियः। मासे गर्भस्थिते या च ता च सूतकम्॥
?यावन्न छिद्यते नालं तावन्नाप्नोति सूतकम्। छिन्ननाले ततः पश्चात् सूतकं च विधीयते॥५॥
चन्द्रसूर्योपरागे च विवाहे यज्ञमण्डले। संघाश्रमे नदीतीर्थे न कार्यं सूतकं तदा॥६॥
प्रपाताग्निभृते तोये तरुपातानि वा वने। संन्यासे बालमे(?) चापि सद्यः शौचं विनिर्दिशेत्॥७॥
(१८) प्रव्रज्यावर्तचूडे च विवाहोत्सवयज्ञके। श्राद्धवृद्धोत्सवारम्भे शुचिः स्यान्मृतसूतके॥८॥
मृते देशान्तरे श्रुत्वा सद्यः शौच्यं तु बान्धवाः। तथैव च सगोत्राणां मातापित्रोदशाहकम्॥९॥
प्रेते भगिनीसुतः तत्सुते दुहितासुते। पित्रे वा मातरि चैव शुचिः स्यात् तत्त्रिरात्रके॥१०॥
मृतके भृतके चैव प्रसूते च प्रसूतिका। कदा च न यदि भूयात् शुचिस्तस्यैव तत्क्षणात्॥११॥
मृतेन च शुचिजातं सवसूत्या न शुद्ध्यति। गुरुणा लघुः शुद्ध्यते न लघुना गुरुः शुद्ध्यति॥१२॥
गर्भाद्विनिःसृतो यो च अजातदशनबालकः। नोदकानि च संस्कारं तेषां शौचं न कारयेत्॥१३॥
दन्तजाते मृते बाले सद्यः शौचं विधीयते। दन्तजाते पितुर्भ्रातुस्त्रिरात्रेण शुचिर्भवेत्॥१४॥
पिता माता गुरुश्चैव पञ्चत्वमुपगच्छति। क्षौरं यावन्न कुर्वीत तावत्सुतकमादिशेत्॥१५॥
देशान्तरे मृते येषां अज्ञाते दिनवासरे। यदा ज्ञातं दिनं ग्राह्यं शौचपिण्डं समाचरेत्॥१६॥
प्रेतपिण्डे नियुक्तस्य सचैलस्नानमाचरेत्। स्नानमात्रेण मन्त्रीणां मन्त्रजापेन शुद्ध्यति॥१७॥
दशमे चाह्नि संप्राप्ते न च क्षौरं तु कारयेत्। तीर्थे ग्रामाद्वहिर्भूमौ वस्त्त्रं त्याज्यं च तत्र हि॥१८॥
महागुरुः पिता चैव विपत्तिः स्यात्कदाचन। वर्षमेकेन कुर्वीत स्नानदानार्चनादिकम्॥१९॥
जनन्या ष्ण्मासं च भार्याश्च तदर्थकम्। तदर्थं भ्रातृपुत्राणां क्कचित् शुद्धिः प्रजायते २०॥
(१९)मञ्जुश्रीः भगवन्तमेतदवोचत्-ह्न पाराजिका कथं नाम महापाराजिका पुनः। पाराजिका कथं मोक्षः देशयस्व महामुने॥२१॥
भगवानाहह्नअर्हत्घातकैश्चैव चतुर्विंशतिवर्षिको। संन्यासिब्रह्मघातं च द्वादशाब्दं समाचरेत्॥२२॥
नित्यपोषधकृच्छं च चैत्यनिवार्चना पुनः। स्नानदानं जपध्यानं चरेन्नित्यं जितेन्द्रियः॥२३॥
विभवानुरूपतो दानं काञ्चनं संघभोजनम्। दत्वा गोशतदानं च कृच्छ्रात्पापैर्विमुच्यते॥२४॥
तपस्विनिघातकाश्चापि ब्राह्मणीघातकस्तथा। षोडशाब्दं तदर्थं च तमेव व्रतमाचरेत्॥२५॥
श्रमणघातकश्चैव श्रामणेरस्तथैव च। चेलकघातकश्चैव दशवर्षं समाचरेत्॥२६॥
क्षत्रियघातकश्चैव दशवर्षं समाचरेत्। सप्तमीव्रतकाठिन्यस्नानदानं च पूर्वकम्॥२७॥
वैश्यानां घातकः कश्चिद् अष्टवर्षं समाचरेत्। ब्रह्मघातकस्तस्यैव स्नानदानं च पूर्वकम्॥२८॥
वृषभैकशतं दानं जितेन्द्रः शुद्धमाचरेत्। क्षत्रिणीघातकश्चापि तत्रैव वार्षिकं चरेत्॥२८॥
वैश्यानां घातकः कश्चिद् अष्टवर्षं समाचरेत्। ब्रह्मघातकस्तस्यैव स्नानदानं च पूर्वकम्॥२९॥
वैश्यस्त्रीवधसम्प्राप्ते षड्वर्षं तु जितेन्द्रियः। दानादिकं यथापूर्व ब्रह्मचर्यं समाचरेत्॥३०॥
शूद्राणां घातकश्चैव षड्वर्षं तु समाचरेत्। व्रतोपवासनं चैव यथापूर्वं प्रयत्नतः॥३१॥
(२०)शूद्रस्त्रीघातकश्चैव पञ्चवर्षं समाचरेत्। स्नानदानं जपध्यानं कृच्छ्रोपोषधमेव च॥३२॥॥
इति चतुर्वर्णादिवधपाराजिका॥
गोवधो द्वादशाद्बं च चरेत् गोष्ठे जितेन्द्रियः॥
गोदानं भूमिदानं च पोषधं च विशेषतः॥१॥
गोभक्तिः गोशतं भोज्यं स्तूपनिर्वाचनादिकम्। गोविष्ठा-प्राशनं नित्यं व्रते कृच्छ्रसमाचरेत्॥२॥
द्विगुणां गुर्विणीघाते दण्डाघातेन रोधतः। अश्वघाते दशाद्बं च गजघाते तथाष्टकम्॥३॥
पराघाते च षड्वर्षं द्विगुणां गुर्विणी वधे। दण्डताडनशस्त्रं च प्रपातजलविह्रषु॥४॥
प्रमादान्मृण्मये तस्य तदर्द्धं च समाचरेत्। पंचसप्तदिनं यावत् न गच्छति प्रमादतः॥५॥
तावता यैर्न लिप्यन्ते तदन्तं च विशुद्ध्यति। ओषधीं च प्रदानेन स्वेच्छया यदि वारणो॥६॥
न दोषस्तत्र मरणे जीवघाते न लभ्यते॥
अन्नपानं च गृह्रीयात् तोयमात्रं पिबेद्यदि॥७॥
विनष्टहृत तादश्च प्राणाघातो न लभ्यते॥
वधं नरो धने युक्ते योजने च रुजे पि वा॥८॥
तत्रैव मरणं गच्छेत् नाप्नोति गुर्विणीवधम्। रोगे च पादमेकं च वधने रोधने तथा॥९॥
योजने पादहीनं च व्रतं चापि समाचरेत्। कामतः कृतपापस्य तत् कर्म प्रशस्यते॥१०॥
अकामः कृतपापानां कायशोधनमात्रक म्। केशबंधनक्षौरे च वस्त्रत्यागः प्रयत्नतः॥११॥
(२१)गोहिरण्य-प्रदानं च संघभोज्यं तथैव च। एतेन मुच्यते पापादकामकृतपापकान्॥१२॥
कामतश्च कृतं पापं कृच्छ्रेणापि विमुच्यते। पोषणे भोजने स्नेहे घराठा(?) भरणाभूषणे॥१३॥
जलौघकर्दमे मग्ने विछुताशनिघातये। पतिते श्वापदभक्षे गृहदाहे वनेऽपि वा॥१४॥
यदि तत्र विपत्तिः स्यात् पादमेकं समाचरेत्॥१५॥
क्षत्रिणीवैश्यिनीशूद्री तथैव व्रतमाचरेत्। सम्पूर्णे चाथवा गर्भे प्रमादान्मरणं भवेत्॥१६॥
तदर्धव्रतकर्मणा कायशुद्धिः प्रजायते। पितृवधं ब्रह्मवधं तुल्यपाराजिका भवेत्॥१७॥
मातृघातं गोघ्नतुल्यं प्रमादाद्यदि वा भवेत्। क्रोधेन कामतो ज्ञात्वा स्वेच्छया च कृतं पुनः॥१८॥
इहलोके परत्रे च वज्रलेपमिवाशुचिः। यदि पुत्रो वा प्राप्तो ब्रह्मघातसमं भवेत्॥१९॥
परिभवं विचारेण युकां प्रार्थयते पुनः। क्षेत्रे गृहहिरण्यं च गावस्त्रीहरणेन च॥२०॥
तादृशे दुष्टकारे च मरुत्पुनापरिपीडिते। आत्मार्थं पितृमात्रर्थं गुरुबंधतस्तथैव च॥२१॥
यमुद्दिश्य त्यजेत्प्राणान् स एव पातकी भवेत्। बालवृद्धस्तथास्त्रीणां रोगिणां च विशेषतः॥२२॥
अर्द्धभागं प्रदातव्याः यज्ञकाम्यकृतोपि वा। बालः प्रगीयते यावत् द्वादशे वार्षिके यदा॥२३॥
यावदशीतिवर्षान्तो वृद्धो भवति दीनतः। (२२)दानेन खण्डयेदेकं प्रजाभागैकमाहरेत्॥२४॥
त्रिभागमाचरेद्येन तस्मात्पापैर्विमुच्यते। वध्ये सर्वान्त्यजादीनां कृच्छ्रपोषधमाचरेत्॥२५॥
त्रिवार्षिकं व्रतं दानं जपस्नानं समाहितः॥२६॥॥
इत्यवधाधिकारः॥
खेचरी य खं गाहन्ती मत्स्यादिजलमाश्रयात्। निरपराधलोभेन स एवासुघातकः॥१॥
सर्पब्रह्मवधं तुल्यं मृगवैश्यवधं समं॥
सिंहक्षत्रिवधं तद्वत् हिंसा पातकमश्नुते॥२॥
शुक्रसारककौश्चादिमयूराद्याश्च खेचराः॥
हतेषु पाराजिका ज्ञेया त्रिरात्रेण विशुद्ध्यति॥३॥
चटकाकोकिलभृङ्कान्मदात् लोभैर्निपातितान्॥
स्नानदानोपवासेन दिनमेकेन शुद्धयति॥४॥
बलाकान् टिटिभान् हंसान् चक्रवाकानकुलाश्रयान्। मृगान्मृगेन्द्रहस्त्यश्वान् वानरानखिलानपि॥५॥
मार्जारशूकरान्सर्पान् भीकान् मीनान् तथैव च॥
मोहेन विनिपासेन त्रिरात्रेण विशुद्ध्यति॥६॥
ब्राह्मणेभ्यो ददेद्दानं आर्यसंघाय भोजयेत्। मनसा जल्पयेन्मन्त्रं वचसा स्तोत्रं जल्पयेत्॥॥
इति हिंसापाराजिका॥
बुद्धत्वपदप्राप्तोऽसौ प्रत्यन्ये के समाचरेत्॥
प्रत्येकत्वं भवेद् यस्माद् बुद्धत्वमाप्नुयात्पुनः॥१॥
प्रत्येकपदसम्प्राप्तः श्रावकेषु समाचरेत्। श्रावके भवने नित्यं प्रत्येके च न हि पुनः॥२॥
(२३)तथैव ब्राह्मणाद्यस्मिन् क्षत्रियेषु समाचरेत्। पुत्रपौत्रः यदाभूयात् तदा सम्प्रति भोजयेत्॥३॥
तथैव ब्राह्मण-क्षत्रिय-वैश्यशूद्रः समाचरेन। पुत्रपौत्रः यदा भ्यात् स्ववर्णात्पतितोद्भवेत्॥४॥
एवमन्ये कुले ज्ञेया स्वकुलादन्यपातने। यावन्न जायते गर्भो गुर्विण्या पि न जायते॥५॥
तावच्छौचं प्रकर्तव्यं शुचिरन्या न लभ्यते। पतितपाराजिकाधिकारः॥६॥
अकालाशन-भिक्षूणां सप्तघटिकलंघने॥
व्रतोपवासमेकेन दिनेनैकं शुचिर्भवेत्॥७॥
आर्यनियमादन्यश्च भक्षणेन समाचरेत्॥
अभक्ष्यभक्षणे चापि षड्वर्षेण शुचिर्भवेत्॥८॥
तथैव ब्राह्मणादीनां स्ववर्णादन्यत्रभक्षणे। स्ववर्णात्पतितो वापि वर्षमेकं शुचिर्भवेत्॥९॥
परस्त्रीस्पर्शने वापि चैत्यच्छायादिलंघने॥
दुष्कुलाभिगमने त्रि-मासेन शुद्ध्यति॥१०॥
स्नेहसंसर्गदोषेण दण्डेनापि हठेन वा॥
हीनवर्णं यदा भुंक्ते मासैकेन स शुद्ध्यति॥११॥
स्ववर्णादन्यकुलाचारे अभक्ष्याभक्षभोजने। हीनवर्णात् जले पीते मासार्द्धेन शुचिर्भवेत्॥१२॥
क्षेत्रिणीग्रहणे विप्रे त्रिरात्रेण शुचिर्भवेत्। तथैव क्षत्रियवैश्यशूद्रादिपरिग्रहे॥१३॥
वर्णहीनस्वजातीनां ग्रहणे स्वकुलादपि॥
सप्तरात्रे शुचिः पुमान् गुणभेदेन शुद्ध्यति॥१४॥
ज्ञानपूर्वं यदा भुंक्ते पुनः शौचं न विद्यते॥१५॥
हीनवर्णादभिभवेत् तादिने क्रोधविग्रहे। (२४)ततः कृत्ये गले प्रेक्षे त्रिरात्रेण शुचिर्भवेत्॥१६॥
सप्तरात्रेण शुद्ध्यति केशाकर्षणविग्रहे। केशावतारक्षुरेण स्नेहकर्मे न दोषयेत्॥१७॥
सुतके मृतके चापि प्रमादादतिभिक्षणे। तीव्रव्रतोपवासेन स्नानगव्येन शुद्ध्यति॥१८॥
भिक्षुभिश्चैरकगृहे भुक्ते श्रामणेरकस्तथा पुनः। मृतके सूतके चापि पश्चरात्रेण शुद्ध्यति॥१९॥
एवं ब्राह्मणादीनां त्रिरात्रेण शुचिर्भवेत्। ॥
इतिभक्ष्याभक्षणशुचिनिर्देशः॥
मद्यासवसुराभाण्डं स्थिते क्षीरांबुसुस्थिते॥
प्रमादात्पीयते यत्र त्रिरात्रेण शुचिर्भवेत्॥१॥
पीतावशेषं यत्तोयं पीते ज्ञानं विवर्जयेत्। स्नानोपवासगव्येन दिनमेकेन शुद्धयति॥२॥
पलांडुदशकं कश्चित्प्रमादाद्यादि भक्षति। उपवासोषितो भूत्वा सप्तरात्रेण शुद्ध्यति॥३॥
जलजां स्थलजां खेमां मांसं भक्षति श्रावकः। स्नानोपवासगव्येन सप्तरात्रेण शुद्ध्यति॥४॥
सुरापानं शुचिर्नास्ति भिक्षूणां च विशेषतः। प्रमादाद्योऽथमोहाद्वा सुरापानं तु वर्जयेत्॥५॥
भूताविष्टान्मृते बाले रुजे तत्र न दोषयेत्। व्रतमासोपवासेन यदि जीवेत्तदा शुचिः॥६॥
यत्कृतज्ञानपूर्वेण यद्वा तद्वा च पातकम्॥
तेषां नास्ति शुचि पापं विशेषात् ज्ञानिनां पुनः॥७॥
श्रामणेरकचेरकस्य गृहस्थोपासकस्य च। यत्र तत्रागमा-गम्ये शुचिःस्याद्वासरेण च॥८॥
ब्रह्मक्षत्रियवैश्यानां शूद्राणां च परस्परम्। (२५)प्रमादाच्च गतागम्ये व्रतोपायेन शुद्ध्यति॥९॥
आचार्याणां तथा माता श्वश्रुमातृस्वसासखा। पितृस्वसृमातुलानी शिष्यस्त्री भगिनीस्तथा॥१०॥
तपस्विनी दुहिता चैव बान्धवाः शरणागताः। धात्रिपर्वजिताक्षत्रिवर्णश्रेष्ठा पतिव्रता॥११॥
तत्रैवागमनं गच्छेत् स एव गुरुतल्पकः। गुरुतल्पकमहापापं वज्रलेपं निवासिनः॥१२॥
व्रतकृच्छ्रोपवासेन प्राणत्यागेन मुच्यते। गुरुतल्पमहाघोरं वज्रलेपमिवासितम्॥१३॥
सुतीर्थे गमने पापी देहनाशेन मुच्यते। तथैव च स्त्रियो मोहात् गच्छन्ति चागमागमे॥१४॥
व्रतोपवासं तीर्थं च सेवनात्परिमुच्यते। गुरुतल्प(स्य) निर्देशः निर्वृते आर्यसंघस्य ध्यानतूर्येण सिद्ध्यति। एकाहा शुद्ध्यते भिक्षोः श्रामणेरकस्त्रिरात्रकम्॥१६॥
चेलकस्तु षडह्नेन शुचिः स्यात् मृतसूतके। सप्ताहा शुद्ध्यते भिक्षुः श्रामणेरकपक्षकम्॥१७॥
चेरकश्चैकविंशत्या शुचिःस्यान्मृतसूतके। व्रतीनामेकपिण्डं च भिक्षूणां च तथैव च॥१८॥
चेरकोपासकादीनां दशपिण्डं प्रदापयेत्। सर्वेषां दशपिण्डं च शुचिस्तेषां पृथक् पृथक्॥१९॥
दशद्वादशपक्षं च मासैकं च यथाक्रमम्। ब्राह्मणक्षत्रियवैश्यशूद्राणां च शुचिर्भवेत्॥२०॥
सगोत्रीपितृबन्धूनां क्षौरकर्म विधीयते। पञ्चगव्य-तीर्थेस्नानेन शुचिर्भवेत्॥२१॥
शुचिः स्यान्मातृबन्धूनां त्रिरात्रेण यथाक्रमम्। (२६)भागिनेयी ननंदाश्च दुहित्री दुहितापतौ॥२२॥
श्वशुरः श्यालपुत्रश्च मित्रविद्यासबान्धयाः। तेषां प्रेते त्रिरात्रेण स्नानमात्रेण शुद्ध्यति॥२३॥
पिण्डप्रदानपुत्रेण भार्या वा भ्रातृकेन वा। पुत्राभावे च कर्तव्याः सगोत्रबान्धवादिभिः॥२४॥
समाधिमंत्रर्लोपं च न कुर्यात्सप्रयत्नतः। रजसि मृतके चापि लोकाचारं विवर्जयेत्॥२५॥
स्नान-दानोपवासेन स्वाध्यायव्रतमङ्गलम्। न कुर्वीत यदा याते मृतानां यदि सूतके॥२६॥
सूतके मृतके प्राप्ता न दानं तु कारयेत्। व्रतोपदेशस्वाध्यायं विवाहं तु न कारयेत्॥२७॥॥
इति शुचिनिर्देशः॥
अथातः संप्रवक्ष्यामि व्रतपाराजिकात्मकम्। मोचनं सर्वपापानां सर्वक्लेशविनाशनम्॥१॥
प्रथमं दिनमारभ्य अष्टांगमुपवासनम्। द्वितीयं दिवसं प्राप्य धर्मश्रवणमादिशेत्॥२॥
तृतीयाहे समाश्रित्य जपस्तोत्रादिपाठनम्। चतुर्थदिवसमाश्रित्य गुरुध्यानोपसेवनम्॥३॥
प्रथमाहे पोषधं द्वितीयाहे त्वयाचितम्। तृतीयाहे च नक्षत्रं दर्शने हि समाचरेत्॥४॥
चतुर्थे चोपवासं हि निराहारं समाचरेत्। स्नानदानादिकं सर्वे पश्चगव्यस्य प्राशनम्॥५॥
कारयेत् पञ्चमे चाह्नि आर्यसंघादि भोजयेत्। पश्चाद्वै पारणां कुर्यात् पारणान्ते शुचिर्भवेत्॥६॥
व्रतं समाचरोन्नित्यं शुद्धात्मा विजितेन्द्रियः॥७॥॥
इति व्रतनिर्देशः॥
(२७)गोमूत्रं गोमयं क्षीरं दधिसर्पिश्च सप्तमम्। तीर्थोदकं समायुक्तं पञ्चगव्यमिति स्मृतम्॥१॥
त्रियानिकं पिबेत् गव्यं ब्राह्मणश्च तथैव हि। मस्तके धारयेत् क्षत्रो वैश्याभ्यक्षणमेव च॥२॥
स्त्रीशूद्रस्यावलोक्य चान्येषां हि सुदुर्लभम्॥
ब्रह्मक्षत्रिविट्शूद्राणां वर्णानां तु विशेषतः॥३॥
स्वकुलाचारमुक्ते भुञ्जीत् द्विपाकफलम्। यथा भिक्षोः सुरापानं नरके पतनं भवेत्॥४॥
गोमूत्रं देवयज्ञे हविरथ वरुणं गोमयवज्रतेजः। क्षीरे दुशास्वताक्षां दधि पुनस्तथा कमराजे सवज्रम्॥५॥
वाग्वज्राचार्यनाथं सकलसुखपरं राजराजेषु। शुद्धं वारुणाग्नेयभूमिमरुत्सुरनृपतौ स्थापयेच्छुद्धभूमौ॥५॥
पञ्चगव्यं सुधीरजः॥
नीलवर्णा च कृष्णा च रक्ता च कपिलासिता। गोमूत्रं गोमयं क्षीरं दधिसर्पिर्यथा क्रमम्॥६॥
एतासु गोषु गृह्णीयात्पञ्चगव्यप्रसाधनम्। अभावे सर्ववर्णासु ग्राहयेच्च विशेषतः॥७॥
नंदाभद्राजया सौम्या कपिलाभ्यां नमो नमः। प्रसीदतु महालक्ष्मि आयुरारोग्य संपदः॥८॥
अनया गाथया युक्तं गोभ्योन्नं प्राशयेत् पुनः। पलमेकं च गोमूत्रं तदर्द्धे गोमयं तथा॥९॥
क्षीरसप्तपलं ग्राह्यं दधिपञ्चपलानि च। घृतमेकं पलं ग्राह्यं तीर्थोदकं तथैव च॥१०॥
अनेन साधितं गव्यं इन्द्रस्याभिदुरोपमम्। मन्त्रतेजोमयं गव्यं सर्वपापविनाशनम्॥११॥
गर्भप्रवेशमन्त्रेण पापं गच्छति नाशनम्। (२८)वर्णानरूपभेदेन पञ्चगव्यं प्रदापयेत्॥१२॥
इति सर्वतथागत-द्वादशसाहस्रपाराजिकाविनयोद्धृत् श्री-मुनीन्द्रमुखकमलविनिर्गत-पापपरिमोचनो नामनिर्देशः समाप्तः॥
शुभमस्तुसर्वदा इति संवत् साहश्रावणशुद्धे॥
(२९)