समाजसाधनव्यवस्थोलि

समाजसाधनव्यवस्थोलिनमो वज्रसत्वाय॥

वज्रसत्वं नमस्कृत्य्त्रिवज्राभेद्यविग्रहं। समाजसाधनाङ्गस्यव्यवस्थोलिर् निग[?] द्यते॥

प्रथमं तावद्अभावेत्यादि-गाथाम् उच्चार्यस्थाव॥॥

रादिपदार्थान्शून्यतायां प्रवेशयेत्। तत्राकाशधातुमध्यस्थंभावयेद् वायुमण्डलम्इत्य् आदिनामण्डलचतुष्टयेनभूभागन् निष्पाद्यतदुपरि भ्रूंकारेण कूटागार[ं]। तत्राक्षोभ्येत्यादिसमस्तदेवताचक्रं विन्यसेद्इत्य् अधिमोक्ष्यः॥

(1)ततोयोगानुयोगा-तियोग-महायोगाः क्रमेणमहावज्रधरम्आत्मानं निष्पाद्यद्वयेन्द्रि[यसमापत्त्या][माण्डलेयदेवतां] उत्सृज्यजपन् भावनां च कृत्वाविसर्ज्जयेद् इति॥

न्याश(सिच्)देशना शूचिता(सिच्) स्यात्॥

इदानीम्व्यवस्थोलिस् तृतीयो-पदेशम् आह। यदाऽस्मिन् लोकेगतिसम्वर्त्तनीप्राप्तेत्रैधातुक एकस् सत्वो[ऽ]पिनावशिष्टो भवति। भाजनलोकमात्रम् अवतिष्ठते। तदा क्रमक्रमेण(2)सप्तसूर्याणां रश्मयःप्रादुर्भूयत्रैधातुकं दग्ध्वाआकाशमयं कुर्व्वन्ति॥

इमम् अर्थम् उत्पत्तिक्रमभावकः। अभावेतिगाथाम्उच्[च्]आर्यालम्बयति। पुनः प्रतीत्यसमुत्पाद-प्रबन्धबलान्मन्दमन्दा वायवः स्यन्दन्ते। ततस् ते वायवो वर्द्धमानाषोडशलक्षयोजनोद्वेधंपरिणाहेनासंख्यम् वायुमण्डलम्आकाशोपरि निवर्त्तयन्ति। तस्मिन् वायुमण्डलेमेघा सम्भूयाक्षमात्राभिर्धाराभिर् वर्षयन्ति। तद् भवत्य् अपांम [म]ण्ड[ल]ं। तस्य प्रमाणं(3)योजनानाम् एकादशलक्षम्उद्वेधो विंशतिश् च सहस्राणि। ताश् च पुनर् आपो वायुभिर्आवर्त्त्यमानाः कांचनमयीमही भवत्य् अपाम् उपरिष्ठात्। तस्याः प्रमाणं त्रयो लक्षाउद्वेधास् सहस्राणि च विंशतिःअग्निमण्डलस् तु तद् अन्तर्भूत एव। अयं सन्निवेशोत्पादो योगिनाम्आकाशधातुमध्यस्थंभावयेद् वायुमण्डलम्इत्य् आदिनाचतुर्मण्डलक्रमेणभूभागावलम्बनं। एवं सत्वानांकर्मप्रभावसम्भूतैर्वायुभिस् संहृत्यसुवर्ण्णादयो राशीक्रियन्ते। सुमेर्वादयः पर्वता(4)देवविमानानिद्वीपाश् चक्रवाडपर्यन्तावृक्षगुल्मलतादयश् च संभवन्ति। इयताश् च[ ]भवोत्पत्तिक्रम-भावकानांशून्यताभावनालक्षणपूर्वकंचतुर्मण्डलक्रमेणभूभागन् निष्पाद्यतद् उप[रि] कूटागारंनिष्पादयेद् इत्य् उक्तं भवति। ततो विज्ञानाधिपतिर्महावज्रधरःसत्वजनकः। भाजनलोकान् निष्पाद्यसत्वलोकंनिर्मिणोति। आलयनिष्पत्तिपूर्विकात्रिवज्रोत्पत्तिभावना कर्त्तव्येतिवचनात्। तत्र चतस्रोयोनयः। (5)तत्र अण्डजाजरायुजासंस्वेदजाउपपादुका इति। योनिर् नाम जातिः। अण्डजा योनिः कतमाये सत्वा अण्डेभ्यो जायन्तेतद्यथाहन्सक्रौञ्चमयूर-शुकसारिका(सिच्)दयः। जरायुजायोनिः कतमाये सत्वा जरायोर् जायन्ते। तद्यथाहस्त्यश्व[गो]महिषा-खरवराहमनुष्यादयः। संस्वेदजा योनिः कतमा। ये सत्वा भूतस[ं]स्वेदजस्तद्यथाकृमिकीटपतङ्ग-(6)मशकादयः [। ]उपपादुका योनिः कतमा। ये सत्वाअविकलाअहीनेन्द्रियाःसर्वागप्रत्यङ्गोपेताःसकृद् उपजायन्ते। तद्यथादेवनारकान्तराभव-प्राथमकल्पिकादयः। अत्राह द्वीपत्रये[ऽ]पि मनुष्याःप्रतिवसन्ति किम् अर्थंचरमभविकाबोधिसत्वा महासत्वास्तुषितवरभुवनात्तत्र नावतरन्ति। अवश्यम् एवात्र जम्बुद्वीपेअवतीर्य मनुष्याणांधर्मन् देशयन्ति। कारणम् अत्र निर्देशतुभगवान् वज्रगुरुः शास्ता। (7)वज्रगुरुर् आह। पूर्वविदेहे। अपरगोदानीये। उत्तरकुरौ मनुष्यामहाभोगसम्वर्त्तनीयाः। किन् तु धन्धा जडाअविवेकचारिणः। अयं तु जम्बुद्वीपकर्मभूमिः। तेन सुकृतदुःकृतानांउत्तममध्यमाधमानांसत्वानां कर्मफल-विपाकोऽत्र दृश्यते। तथाप्य् अत्र जम्बुद्वीपे मनुष्याःशठ कपटमद-मात्सर्यदुष्टाशयाजराव्याधिपरिपीडिताः। किन्तु द्योतितज्ञास्तीक्ष्णेन्द्रियाः।
पटुजातीयाः। तेन बोधिसत्वा(8)जम्बुद्वीपे [ ]जनपदेषूपपद्यधर्मन् देशयन्ति। अत आह। मनुष्यलाभः प्रथमन् निधानं। निष्क्रान्तलाभो द्वितीयन् निधानं। प्रव्रज्यलाभस् तृतीयं निधानं। समाधिलाभश् [ च] चतुर्थ निधानंइति। असाधारणगुह्य-महायोगतन्त्रे [ऽ]प्य् आह। अतीतानागतप्रत्युत्पन्न[सर्व]बुद्धा मनुष्यात्मभावेस्थित्वासर्वज्ञसिद्धिपदंआप्नुवन्तीति। अतः कारणान् मनुष्याणाम्उत्पत्तिक्रमो निर्दिश्यते। प्राथमिककल्पिका मनुष्यास्सर्वबुद्धगुणालंकृतरूपिणो मनोमयाः। (9)सर्वाङ्गप्रत्यङ्गोपेताअविकलाअहीनेन्द्रियाः। शुभवर्ण्णकायिनः स्वयम्प्रभाआकाशगामिनादीर्घायुषःप्रीत्याहारा ज्ञानमूर्त्तयस्ते मायोपमसमाधिंन प्रजानन्ति। अप्रजानन्तोऽनादिकालान्अज्ञानवासनाप्रबन्धबलात्क्रमेण स्वचित्तोद्भूतैःकर्मक्लेशैर्अभिभूयन्तेततस् ते मनोमयकायम्अवहाय क्लेशप्रबन्धानुक्रमेणप्राकृतमनुष्यात्मभावंपरिगृह्णन्तिएवं स्वचित्तवक्रःकल्याणमित्रविरहितः। स्वस्वभावं न ज्ञात्वासत्वनिकायाच् च्युत्वा च्युत्वा(10)यावद् आयन्ति सामग्रीन् न लभते तावत् सप्ताहन्अन्तराभवे तिष्ठतीतिनिश्चयम् आह। अन्तराभवस्य किं लक्षणम्आह मरणभवस्य। उत्पत्तिभवस्य चान्तरेय आत्मभावो [ऽ]भिनिर्वर्त्तते। देशान्तरोपपत्तिसंप्राप्तये सोऽन्तराभव इत्य् उच्यते। स तु पट्विन्द्रियो भवति। यथा चरमभविकोबोधिसत्वः संपूर्ण्णयौवनःसर्व [ज्ञ] लक्षणानुव्यञ्जनश् चतथैवान्तराभवस्थोऽपिमातुः कुक्षौ प्रविशेत्। कोटीशतम् चास्य दीपिकानाम्आभासते। यथोक्तंभद्रपालिपरिपृच्छासूत्रे। (11)स च सोपभूतपुरुषःप्रहित्वादिव्यां स्मृतिं प्रतिलभते। षट्कामावचरान् देवान्पश्यति। षोडशमहानिरयान् पश्यति। स च समकरचरणम्आत्मभावं पश्यति। एवं च प्रजानाति। इदानीन् तं मदीयं कलेवरम् इति। य [ ?? ]थोक्तंकोशकारिकायां। स जातिशुद्धदिव्याक्षदृश्यः कर्मर्द्धिवेगवान्। सकलाषोऽप्रतिघवान्अनिवर्त्त्यस् स गन्धभुग् इति॥

अनेनोत्पत्तिक्रम-भावकानांयोगानुयोगक्रमेणनिष्पन्नदेवतामूर्त्तिर् देशयति। (12)यथा चरमभविकोबोधिसत्वो महासत्वस्संभोगकायेन मनुष्याणाम्अर्थः कर्तुन् न शक्यत इति कृत्वास्कन्धधात्वायतना-नुप्रवेशेननिर्माणकायग्रहणार्थम्गर्ब्भावक्रान्तिम् उपदर्शयति। तथाऽन्तराभवस्थोऽपिसप्ताहात्यजेना नादि-स्वविकल्पवासनाप्रबन्धो-द्भूतकर्मणा संचोदिते सत्य्उत्पत्तिं गृह्णात्य् अनेन क्रमेण। तत्रायं क्रमः। प्राथमकल्पिकानां मनुष्याणां। अमृतम् आहारमाणानां यावत्कवडीकाराहार पर्यन्तेखरत्वं गुरुत्वं काये[ऽ]वक्रान्तं। प्रभाऽन्तर्हिता। ततोऽन्धकारे(सिच्) उत्पन्नेसूर्याचन्द्रमसौ लोकेप्रादुर्भूतौ। (13)तत[ः] प्रज्ञोपायविभाग-दर्शनार्थं तेषांस्त्रीपुरुषेन्द्रिये प्रादुर्भूतेसंस्थानं च भिन्नन् तेषाम्अन्योन्यं पश्यतां पूर्वाभ्यासवशाद्अन्योन्यरागचित्तम् उत्पन्नं। यतो विप्रतिपन्नाः।
तद्आरभ्य स्त्रीपुरुष इति संज्ञान्तरम्अद्यापि लोके प्रवर्त्तते। ततस् स [?] गन्धर्वसत्वस्त्रयाणां स्थानानांसंमुखीभावान् मातुः कुक्षौ [स]गर्ब्भस्यावक्रान्तो भवति। माता कल्या भवति ऋतुमती। मातापितरौ रक्तौ भवतः। ततस् तयोर् अन्योन्यम् अनुरागण-वज्राधिष्ठानेनालिङ्गन-चुम्बनादिक्रियया द्वयेन्द्रिय-समापत्तिं दृष्ट्वा काकामोपदानाया न्तराभवं हित्वाअश्वारोहणवद् विज्ञानाधिपतिश्चित्तवज्रो वायुवाहन-समारूढश् शीघ्रतरम् आगत्यक्षणलवमुहूर्त्तम्आवेशज्ञानसत्व इव वैरोचन-द्वारेण प्रविश्य ज्ञानभूमिं प्राप्यउपायज्ञानेनसहाद्वयीभूयनिरतिशयप्रीत्याक्षिप्तहृदयः। तंत्रोक्तसर्वतथागता-भिभवनसमाधि-न्यायेन प्रज्ञासूत्रोक्तद्वासप्ततिनाडीसहस्रंसंचोद्यउभाव् अपि परमानन्दसुखेनतोषयित्वाआलिकालिकाव् एकीभूयसूक्ष्मधात्वाय? प्रविशन्प्रज्ञाज्ञानरश्म्युदयाद् उभाव् अपिद्रावयित्वा शुक्रशोणिताभ्यांसन्मिश्रीभूय योनिमध्ये(15)बिन्दुरूपेण पतितः। इमम् अर्थं द्योत[य]न् आहमूलतन्त्रेसर्वतथागतकायवाक्चित्तहृदय-वज्र [योयोयोयोयो ] योषिद्भगेषुविजहारेति। ततः क्रमेण वर्द्धते। प्रथमं कललाकारं। कललाज् जायतेऽर्बुदं। अर्बुदाज् जायते पेशीपेशीतो जायते घणं। घणात् पुनर् वायुना प्रेर्यमाणाःप्रशाखाः पंचविध-स्फोटकाकारः प्रजायन्ते। ततः केशरोमनखादयइन्द्रियाणि रूपाणिव्यञ्जनान्य् अनुपूर्वश इति। स च पंचतथागताधिष्ठानाद्बीजावस्थाम्आरभ्य पंचाकारोपजायते अत्र कललम् अक्षोभ्यस्यअर्बुदं रत्नसंभवस्यपेशी अमिताभस्य। घणोऽमोघसिद्धेः। प्रशाखा वैरोचनस्या-धिष्ठानम् इति। महारक्तस्यापि पंचाकारंदर्शयति। तत्र द्रवम् अक्षोभ्यस्यरक्तं अमिताभस्यपेशी रत्नसंभवस्य। घणम् अमोघसिद्धेःसम्मिश्रंवैरोचनस्याधिष्ठानम् इति। द्वौ नाडी योनिमध्ये तुवामदक्षिणयोस् तथा। वामे शुक्रम् विजानीयाद्दक्षिणे रक्तम् एव च। तयोर् मीलनम् एकत्वंधर्मधातौ स्वसंग्रहइति॥

अतस् तस्य खलु कालान्तरेण(17)बीजाङ्कुरवत्। परिपाकप्राप्तस्यगर्ब्भशल्यस्याभ्यन्तरेमातुः कुक्षौ कर्मविपाकजावायवो वान्ति। ये ग[घ]र्ब्भशल्यंसंपरिवर्त्त्य मातुश् च कुक्षौधर्मोदयद्वाराभिमुखोऽवस्थापयन्ति। सचेत् पुन्सान् भवतिमातुर् दक्षिणकुक्षिम् आश्रित्यपृष्ठाभिमुखः। उत्कुटुकस् संभवति। अथ स्त्री ततो वामं कुक्षिम्आश्रित्य उदराभिमुखीभवति। ततो दशानां मासानाम् अन्तेमूलसूत्रोक्त- समयोद्भववज्रसमाधिप्रदर्शनायमातुर् ग्गर्ब्भात्प्रच्युतोऽभूद् इति। अतस् स[र्व] गन्धर्वसत्वो(18)मांसचक्षुषा दृश्यताङ्गतः। अतश् चाह मूलसूत्रे। भ[व]गवान् बोधिचित्तवज्रस्तथागतस् त्रिमुखाकारेणसर्वतथागतैस्संदृश्यते स्मेति। अत्राह। अब्धातुः पैतृको ज्ञेयस्तेजोधातुश् च मातृकः। त्वग्मान्सश् च रक्तञ् चमातृक इत्य् उच्यते। स्नायुर् मज्जा[ ?? ] शुक्रं चपैतृक इति कथ्यते। एतन् मात्राण्य् उक्तानिपिण्डस्य संग्रहाणि च। रूपवेदनासंज्ञ-संस्काराविज्ञानम् एव च। पंचबुद्धमयं विश्वंस्कन्धाद्या इति कथ्यते। इत्य् उक्तं भगवता चतुर्देवीपरिपृच्छामहायोगतन्त्रे। इयता ग्रन्थेन चतुर्योगनिष्पन्नो(19)[ऽ]हम् इति मंत्रिणा दार्प्यम्उत्पादयितव्यम् इति॥

[ द्वितीयन्याश(सिच्)देशना परिच्छेदः॥

][तथोत्पत्तिक्रमव्यवस्था प्रथमः परिच्छेदः॥१॥

]इदानींव्यवस्थोलितृतीयोपदेशम् आह। प्रथमं तावत्कायमण्डलं व्यवस्थाप्यते। ब्रह्मसूत्रं समारभ्यचतुरस्रम्(सिच्) विभागतः। कूटागारम् इवाभातियोगिनां देहलक्षणं। भगो मण्डलम् इत्य् आह। बोधिचित्तं च मण्डलं। देहो मण्डलम् इत्य् उक्तम्त्रिधा मण्डलकल्पनेति। समाजोत्तरे वचनात्। (20)एवं भूतेस्वकायमण्डलेस्कन्धधात्वायतनस्वभावेनविन्यस्तदेवतानांकार्यकारणभावम् आह। तत्र रूपस्कन्धेवैरोचनः। वेदनास्कन्धेरत्नसंभवः। संज्ञा अमिताभः। संस्कारोऽमोघसिद्धिः। विज्ञानम् अक्षोभ्यः। अत आह मूलसूत्रे। पंचस्कन्धास् समासेनपंचबुद्धाः प्रकीर्तिताः। अतः स्कन्धानां स्वलक्षणंज्ञात्वापंचतथागतविन्याशात्(सिच्)पञ्चस्कन्धा बोधिहेतुका भवन्ति(21)यथोक्तं मूलसूत्रेद्वेषो मोहस् तथा रागश्चिन्तामणिसमयास् तथा। कुला ह्य् एते तु वै पंचकाममोक्षप्रसाधकाइति॥

देवातीनां व्यवस्थाम् आह। मोहरतिर् लोचना। पृथिवीधातुः। द्वेषरतिर् मामकीअब्धातुः। रागरतिः पाण्डरवासिनीतेजोधातुः। वज्ररतिस् तारावायुधातुः। इमम् अर्थं द्योतयन्न्आह मूलसूत्रे। पृथिवी लोचना ख्याता। अब्धातुर् मामकी स्मृता। तेजश् च पाण्डरा ख्याता। (22)वायुस् तारा प्रकीर्त्तिताइति। एषां धातूनाम् अपिस्वलक्षणं ज्ञात्वादेवतीविन्याशा(सिच्)द् धातवोबुद्धत्वदायका भवन्ति। चक्षुराद्यायतन-विन्यस्तबोधिसत्वानांहेतुफलम् आह। स एव भगवान् चित्तवज्रः। क्षितिगर्ब्भसमाधिनाचक्षुरिन्द्रियेस्थित्वा रूपत्रयंप्रभास्वरत्वेननिरूप्यवज्रचक्षुरिन्द्रियं प्रददाति। एवं वज्रपाणिःश्रोत्रेन्द्रिये स्थित्वाशब्दत्रयं तथैव निरूप्यवज्रश्रोत्रेन्द्रियंप्रददाति। आकाशगर्ब्भो(23)घ्राणेन्द्रिये स्थित्वात्रिगन्धं निरूप्यवज्रघ्राणेन्द्रियं प्रददाति। लोकेश्वरो जिह्वेन्द्रिये स्थित्वात्रिरसं निरूप्यवज्रजिह्वेन्द्रियं प्रददाति। भगवान् मञ्जुश्रीःषट्प्रवृत्तिविज्ञानेस्थित्वा ज्ञानत्रयं निरूप्यपरचित्तज्ञानाभिज्ञांप्रददाति[। ]भगवान्सर्वनिवरणविष्कम्भीकायेन्द्रिये स्थित्वानीवरणं अन्तर्द्धातून्परस्परं पिण्डीकृत्यजातिं प्रवेश्य वज्रकायम्आपादयति। भगवान् समन्तभद्रस्समन्ततस् सन्धिस्थाने स्थित्वाप्रभाश्वरं(सिच्) सन्धिंप्रददाति[ ?? ]। भगवाम् मैत्रेयःस्नायुस्वभावेन स्थित्वास्नायुभिर् बद्ध्वा(24)प्रभाश्व(सिच्)रं प्रवेशयति। से एव भगवान्रूपत्रयाकारेणबाह्यवद् अवभास्यचक्षुरिन्द्रियसुख-प्रदानाद् रूपवज्रा। एवं शब्दवज्रादीनाम् अप्य्अवगन्तव्यं॥

सर्वयोगो हि भगवान्वज्रसत्त्वस् तथागतः। तस्योपभोगं समस्तं वैत्रैधातुकम् अशेषत इतिसम्वरे वचनात्। अनेन देवतीन्यासेनस्वभावपरिज्ञानेन एविषयविशुद्धिम् आपादयतिइमम् अर्थं द्योतयन्न्आह मूलेसूत्रे। वज्र-आयतनान्य् एवबोधिसत्त्वाग्रमण्डलइति। रूपशब्दादिभिर् मन्त्री(25)देवतां भावयेत् सदेति॥

अवयवे विन्यस्तक्रोधानांकार्यकारणम् आह। यमान्तकस् सव्यभुजेअपसव्येऽपराजितः। हयग्रीवो मुखे भाव्योवज्रे चामृतकुण्डलिः। अचलं दक्षिणे बाहौवामे च टक्किराजकं। जानौ च दक्षिणे चिन्तयेन्नीलदण्डं महो[ज्]ज्वलम्। वामे जानौ महाबलंमूर्ध्नि चोष्णीषचक्रिणं। पादान्तद्वयविन्यस्तंसुम्भराजं विचिन्तयेद् इति॥

एते दशक्रोधराजानःसाधकस्यावयवे विन्यस्ताअनाभोगेनैवत्रिमुखषड्भुजाकारेणकायमण्डलाद्(26)विनिर्ग्गत्य दशदिग्विघ्नगणा[न्]तर्जयन्ति॥

अत आह मुलसूत्रे। क्रोधा द्वेषालये जातानित्यं मारणतत्पराः। सिध्यन्ति मारणार्थेनसाधकाग्रधर्मिणइति॥

कायमण्डलव्यवस्थातृतीयः(सिच्) परिच्छेदः॥॥

कायमण्डलविन्यस्तदेवतानांहेतुञ् च फलम् अधिगतो मन्त्रीपरार्थसंपत्तयेकायमण्डलाद् उत्सर्ग्गम्ण्डलंनिर्म्मिणोत्य् अनेन क्रमेण। तत्रायं क्रमः। मनसा स्वकुलाङ्गनां विस्फार्य। अथ वा बाह्याङ्गनाम् आदायसाधनोक्तक्रमेणद्वयेन्द्रियसमापत्तिं कृत्वाबोधिचित्ताद्(27)[ यथैकविमानाद्धं]पूर्वोक्तक्रमेणकूटागारं निष्पाद्यवज्रधृग् इत्यादिमंत्रंउच्चार्यसमस्तदेवताचक्रं सृजेद् इति। उत्सर्ग्गमंत्रव्यवस्थाम्आह। पंचाकाराभिसम्बोधि-शूचकं वज्रंधारयतीति वज्रधृक्। अनेन द्वेषक्लेशम्विशोध्यपुनर् आगत्य महावज्रधरेणसहा[ ?? ] द्वयीभूयसंपुटयोगेण मध्यमण्डलेअक्षोभ्यरूपेन व्यवस्थितः। एवं द्वादशाकार-धर्मचक्राच्चतुर्मारान् जयतीतिजिनजिक्। (28)सर्वासा(सिच्)-परिपूरकं रत्नंधारयतीतिरत्नधृक्। आ समन्तात्रो [ल] इति संसारः। संसाराल् लिग् गच्छतीतिआरोलिक्। प्रविचयलक्षणाप्रज्ञातान् धारयतीति प्रज्ञाधृक्॥

मोहो वैरोचनस्तस्मिन् रतिर् मोहरतिः। द्वेषोऽक्षोभ्यस्तस्मिन् रतिर् द्वेषरतिः। रागोऽमिताभस्तस्मिन् रतिः। रागरतिः। वज्रऽमोघस्तस्मिन् रतिः। वज्ररतिः॥

पृथिव्(य्)ई-र्-इवाचलिकसमाधिस्स एव गर्ब्भ(29)आध्यात्मो यस्यस क्षितिगर्ब्भः। पंचज्ञानस्वभावं वज्रंधारयतीति वज्रपाणिः। आकाशम् अनावरणज्ञानम्स एव गर्ब्भ आकाशगर्भः। समाधिबलाल्लोकानाम् ईश्वरोलोकेश्वरः। प्रभाश्व(सिच्)रसमाधेर्व्युत्थानान् मनोज्ञश्रीर्मञ्जुश्रीः। नीवरणं क्लेशंमायोपमसमाधिबलाद्विष्कम्भयति स्तम्भयतीतिसर्वनिवरणविष्कम्भी। अपदद्विपदचतुष्पदादिसत्वेषुमैत्र्यालक्षनत्वेनमैत्रेयः। समन्ततश् शोभनो भद्रस्समन्तभद्रः। रूप्यते प्रतिबिम्ब्यते अनेनेति रूपं। शब्द्यत इति शब्दः। घ्रायत इति गन्धः। (30)रस्यत इति रसः। स्पृश्यत इति स्पर्शः। वज्रशब्दसान्निध्यातत्समाधिनारूपादीनाम् विशुद्धिं कथयति॥

यमो नरकस्तस्य स भगवान्महाक्रोधसमाधिनाऽन्तं करोतीति यमान्तकृत्। प्रज्ञया बन्धानाम्अन्तं करोतीति प्रज्ञान्तकृत्। पद्मदृष्टान्तेन। च विशुद्धरागाणाम् अन्तं करोतीतिपद्मान्तकृत्। विघ्नाश् चतुर्मारास्स भगवान्महाक्रोधसमाधिनातेषाम् अन्तं करोतीतिविघ्नान्तकृत्। अष्टलोकाचारान् नित्यंप्रचलितहृदयानांवज्रोपमसमाधिनानिक्षिप्तिं करोतीत्य् अचलः। टक्किः कामः। (31)राज्यते दीपयतेविशुधयत इतिटक्किराजः। नीलंसत्वानां पापंदण्डो निग्रहः त[ ? ]ंकरोतीति नीलदण्डः। परमार्थसत्यबलात्सत्वानाम् उपक्लेशंमर्दयतीति महाबलः। सत्वानां त्रैधातुक [ ?? ]निः(सिच्)क्रान्तज्ञानप्रदानाद्उष्णीषचक्रवर्ती। दशदिग्विघगणान्आनीय कीलनान् निसुम्भनान्निसुम्भराजः॥॥

इमे देवा द्वात्रिंशन्निर्म्माणकायास् त्रिमुख-षड्भुजाकारानानाचिह्नमुद्रा-(32)गृहीताहस्ताः। बोधिचित्तान्मन्त्रैक निर्म्माणाद्वा अनाभोगेनैवसाधकस्य कायमण्डलाद्विनिर्गत्यपुण्यसम्भार-वृद्ध्यर्थंरागद्वेषमोहादि-चरितसत्वानांतत्तत्समाधिनाक्लेशाद्यावरणानिविशोध्य पुनर् आगत्यस्वकस्वकीयेष्व् आसनेषु निषण्णाअभूवन्न् इति॥

(33)वज्रचक्र-रत्नपद्मखड्ग-घण्टा यथासंख्यंषट् तथागतानांउक्तानि चिह्नानि। त एव प्रहरणाकारेण धारिताः। शन्तिपुष्ट्यादिकर्मभेदात्वर्ण्णभेदेनभिन्नाः। सर्वरत्नैर् युक्तत्वाद्इन्द्रनीलवर्ण्णः। इमम् एवोत्सर्ग्गमण्डलम्-उद्भावयन्न् आह मूलसूत्रे। अथ खल्व् अक्षोभ्यस् तथागतःसर्वतथागतकायवाक्चित्त-योषिद्भगेषुविरजस्कं महासमय-(34)मण्डलम् अधिष्ठापयामास। स्वच्छं च तत्स्वभावंनानारूपं समन्ततः। बुद्धमेघसमाकीर्ण्णंस्फुलिङ्गगहानाकुलं। स्वच्छादिमण्डलैर् युक्तंसर्वताथागतं पुरम्इति। आह। यद्य् अस्मिंस् तन्त्रेहस्तमुद्रा नास्ति। कथं चतुर्मुद्रामुद्रितंदेवतारूपं निष्पद्यते॥

आह॥

(35)निरवशेषबुद्धगुणा-लंकृताधारभूतादेवताकारामहामुद्रा॥

योषित् समयमुद्रा। मन्त्राक्षरम् एवधर्म्ममुद्रा। विश्वरूपेणसकलजगदर्थक्रिया-निष्पादनं कर्म्ममुद्रा। आहतत्वसंग्रहाद्य्उभयतन्त्र-प्रसिद्ध एकमुखं। किम् अर्थम् अत्रत्रिमुखाकारेण संदृश्यत इति। आह(36)भगवान् एव कारणम् आह। सन्ध्याव्याकरण-व्याख्यातन्त्रे। महातत्वम् इदं तत्स बाह्याध्यात्मिकं भवेत्। तत्वोभयसंकल्पम्अद्वयं समुदाहृतं। कनिष्ठानामिकामध्य-तर्ज्जन्यङ्गुष्ठकस् तथा। रूपादिसमसंख्येनवामहस्तेन कीर्त्तिताः। एतेषां निःस्वभावयोगात्प्रज्ञाप्रविचयलक्षणा। धर्मकायः समाख्यातस्तथताद्वयसंज्ञकः॥

(37)अक्षोभ्यरत्नामिताभा-मोघवैरोचनास्तथागताः। एते दक्षिणहस्तेनकनिष्ठादिषु व्यवस्थिताः। उभयोर् एकः संघस्तद् इदं शरणत्रिकं। बुद्धो धर्म्मस् तथा संघएकोऽपि कल्पना त्रयं। निबद्धान्योन्य वज्रसत्वंप्रज्ञोपायपदोत्तमं। अञ्जलिर् बद्धमात्रे तु(38)सर्वबुद्धान् समावहेत्त्रिशरणस् त्रितत्वन् तुत्रिकायस् त्रिविमोक्षकः। त्रिमुखस् त्र्यक्षरश् चैवम्त्रिदेवः स्यात् त्रिधातुकः। त्र्यध्वस् त्रिसमयः श्रेष्ठस्त्रितयः स्यात्त्रिमण्डलःत्रियोगः त्रिमार्ग्गश् चयावन्तः कल्पचोदिताः। अध्येषननमस्कार-लोकेषु प्रार्थनक्रिया। सम्बुद्धतोषणं तत् स्यात्त्वदीयाञ्जलितः स्थितः। (39)ये सत्वास् ते च बुद्धाः स्युस्तथताद्वयधर्म्मतः। अस्थानस्थितियोगेनबुद्धाःसर्व्वे व्यवस्थिता इतिआह अस्मिन् श्रीगुह्यसमाजे। माण्डलेय -देवताविन्यासोनानाचार्याभिमतोलोकेप्रवर्त्तते। तत् कथं साधकानाम्निःसन्देहम् भवति। (40)आहसाधु साधु महासत्वयुक्त्यागमाभ्यां तेप्रतिपादयामि। यथा कायमण्डलेस्कन्धादिस्वभावेनदेवताविन्यासो नाम च। तद्वद्उत्सर्ग्गमण्डले चापिदेवताविन्यासेन भवितव्यं। तथापि मूलसूत्रेपरिपूर्ण्णदेवताविन्यासो नास्ति। किन् तु नाचार्यकंप्रवर्त्तनं माभूद् इति। मण्डलविन्यासश् चैकत्रपरिपूर्ण्णो भगवता न(41)प्रदर्शितः। व्याख्यातन्त्रे। श्रीवज्रमालायांचैकत्र प्रदर्शितः। तद् अवतार्यते॥॥

शृणु त्वं [वै] महासत्त्वनान्यचित्तेन संस्मर। वज्राचार्यस्य कायेऽस्मिन्क्रमं कायजिनस्थितः। प्रथमं कायवज्रेणरूपस्कन्धेन संस्थितः। अनुरागणवज्रेणवेदनास्कन्धेन संस्थितः। वाग्वज्रेण भगवान्संज्ञास्कन्धेन संस्थितः। (42)सर्वपूजन वज्रेणसंस्कारस्कन्धेनसंस्थितः। चित्तवज्रेण भगवान्विज्ञानस्कन्ध स्थितो[ऽ]प्य् असौ॥

मांसादि पृथिवीधातुर्भगवती लोचना स्थिता॥

शोणितादिजलधातुर्भगवती मामकी स्थिता। उष्णादितेजोधातुर्भगवती पाण्डरवासिनी स्थिता। प्रेरणादि मरुद्धातुस्तारा भगवती स्थिता। नेत्रद्वयेन्द्रियं तस्यक्षितिगर्भस् तथागतः। (43)श्रोत्रद्वयेन्द्रियं तस्यवज्रपाणिस् तथागतः। घ्राणस्थितम् इन्द्रियं तस्यगगनगञ्जस् तथागतः। जिह्वास्थितम् इन्द्रियं तस्यलोकेश्वरस् तथागतः। मनसि स्थितम् इन्द्रियं तस्यमञ्जुघोषस् तथागतः। चतुर्द्धातुमयं पिण्डंशरीरं तु संज्ञितं। सर्वनिवरणविष्कम्भीतथागतस् तत्र तिष्ठति। सर्वसन्धि शरीरस्यसमन्तभद्रस् तथागतः। (44)सर्वस्नायुः शरीरस्यमैत्रेयस् तथागतः॥

दक्षिणे भुजमूले तुयमान्तकस् तथागतः। वामभुजमूले तुअपराजितस् तथागतः। मुखपद्मे सम्तिष्ठेत् तुहयग्रीवस् तथागतः। गुह्यप्रदेशेन तिष्ठेत्अमृतकुण्डलिस् तथागतः। दक्षिणे बाहौ तिष्ठेत् त्व्अचलोऽसौ तथागतः। (45)वामबाहौ तु तिष्ठेत् तुटक्किराजस् तथागतः। दक्षिणजानौ तिष्ठेत् तुनीलदण्डस् तथागतः। वामजानौ तिष्ठेत् तुमहाबलस् तथागतः। स्वशीर्षमूर्द्ध्नि तिष्ठेत् तुचक्रवर्त्ती तथागतः। अधः पादे च तिष्ठेत् तुसुम्भराजस् तथागतः। समस्ते चैव कायेऽस्मिन्सर्व तथागताः स्थिताः। कायमण्डलम् इत्य् उक्तंवज्राचार्यस्य कायिकं। (46)एते सकलसम्बुद्धाःसमास्ता बुद्धकायिकाः। प्रवेशयन्ति निर्व्वाणांवज्री संस्कृतदेशिनं। शीघ्रं निर्व्वासि भगवन्परिपक्तं कुशलं भवतस्माद् वज्रगुरोः कायेजिनाः सर्व्वे अधिष्ठिताःपश्चात्काले महासत्वशृणु हेऽमोघदर्शक। आदिकर्म्मिकसत्वैश् चगुरुः सेव्यः प्रयत्नतः। तथामोघदर्शिनासहबोधिसत्वा महायशास्(47)तुष्टाः प्रमुदिता हृष्टाःप्रणम्याश्रूनि पतिताइति॥

आहसर्वबुद्धबोधिसत्त्वान्सर्वक्लेशप्रहीणान्दशबलवैशारद्यादिबुद्धगुणप्राप्तान्अस्मिन् प्राकृतदेहेविन्यसेद् इति विरुद्धाख्यायिकाआह। यथा पतद्ग्रहावस्थाया[ं]श्लेष्मा स्फार्यते। भजनावस्थाया[ं] लोकोभुम्क्ते। प्रतिमावस्थायांपूजा क्रियते। तथाप्राकृतदेहो राग-द्वेषमोहादयश् च(48)पूर्वावस्थायांसंसारहेतुकाःपश्चात् स्वभावपरिज्ञानेपरिशुद्धास्सर्वज्ञज्ञासिद्धयेहेतुका भवन्तीति न दोषः। तथाचोक्तं। स्वशुचिप्रतिमाम् इमां गृहीत्वा[जि]नरत्नप्रतिमां करोत्य्अनर्घा। रसजातमतीव वेधनीयं। सुदृढं गृह्णत बोधिचित्त [स्स]संज्ञम्इति। तथा चाह। रत्नकूटसूत्रे। तद् यथा काश्यापस[ं]कराकीर्ण्णायां पृथिव्यांसर्वबीजानि विरोहन्ति। एवम् एव काश्यप क्लेशसंकार-कीर्ण्णे लोकसन्निवेशेबोधिसत्वस्यबुद्धधर्माविरोहन्तीति। सन्ध्याव्याकरणमहायोगतन्त्रे[ऽ]प्य् आह। (49)शू(सिच्)क्ष्मयोगार्थतत्वज्ञं [ः]वज्रपाणिं यशस्विनं। जगदद्वययोगेनसोऽवदत् सन्धाय शू(सिच्)क्ष्मकम्॥॥

पंचाकारम् इमां बोधिर्नगामिजनहेतुकां। धर्मसङ्गीतिकायेऽस्मिन्भाषन्ते च यथायथां॥

स्कन्धा एते हि बुद्धाः स्युर्बोध्यर्थ प्रत्ययोद्भवाः। ते पि तथागताः ख्यातास्तथताद्वययोगतः॥

उत्सर्ग्गमण्डल-व्यवस्थाचतुर्थः परिच्छेदः॥॥

इदानींपरमार्थमण्डलव्यवस्थाप्रदर्शनायोद्देशपदं(50)मूलसूत्राद् अवतार्यते। समयात् क्षरेद् रेतं विधिनापिबेत् फलकांक्षया। मारयेत् ताथागतव्यूहंसुतरां सिद्धिम् आप्नुयाद्इति॥

उद्देशः॥

सप्तमपटलेत्व् अस्य निर्देशो व्याख्यातंत्रेसन्ध्याव्याकरणनि[र्]दिष्टः। रूपाद्याध्यात्मिकान् धर्मान्पश्यतो[ ? ] विपश्यना। अक्षोभ्यादि यथासंखयंकल्पयन् स (सिच्)मथो भवेत्। अनयोर् निःस्वभावत्वंतथताशान्तसंज्ञकं। तथतामण्डले योगीसर्वबुद्धान् प्रवेशयेद् इति। तस्यापि प्रतिनिर्देशः। वज्रमालामहायोगतंत्रेविवृतस्तद् अवतार्यते। रूपस्कन्धगतादर्शो(51)भूधातुर् नयनेन्द्रियं। रूपं च पंचमं यातिक्रोधमैत्रेयसंयुतं। वेदनास्कन्धाः समताअब्धातुः श्रवणेन्द्रियं। शब्दश् च पंचमं यातिक्रोधद्वयसमन्वितं। संज्ञा च प्रत्यवेक्षण्यंहुतभुग् नासिकेन्द्रियं। गन्धश् च पंचमं यातिक्रोधद्वयसमन्वितं। संस्काराः कृत्यानुष्ठानंमारुतो रसनेन्द्रियं[। ][रस]श् च पञ्चमं यातिक्रोधद्वयसमन्वितं॥

ऊर्ध्वाधःक्रोधसंयुक्तंप्रकृत्याभासम् एव च। विज्ञानस्कन्धम् आयातिविज्ञानं च प्रभाश्व(सिच्)रं॥

[च] निर्वाणं सर्वशून्यं चधर्मकायो निगद्यते। (52)दृढीकरणहेतोश् चमंत्रम् एतद् उदाहरेत्। ओं शून्यता[ज्ञान]वज्रस्वभावात्मकोऽहम्इति॥०॥

व्यवस्थोलितृतीयोपदेशम्आहरूपस्कन्धे प्रभाश्व(सिच्)रंप्रविष्टे सति लक्षणंलक्षयेद् बुधः। सर्वाङ्गरूपाणिस्थामानि म्लानानि मृदूनि मात्राणिशिथिलानि भवन्ति। आदर्शज्ञाने गतेतिमिरत्वं। भूधातौ गतेसर्वशरीरकृशत्वं। नयनेन्द्रिये गतेचक्षुर् विकारो भवति। संक्षुभति च। रूपविषये गते स्वकायविवर्ण्ण(53)आयामलीनत्वं भवति। एवम् [अन्]आदिसंसारेअपदद्विपदचतुष्पदादि-सत्वानां वैरोचनकुलीनाःकायमण्डले स्थित्वापरमार्थमण्डलंक्षणमन्दक्रमेण प्रवेशन्ति[। ]ये ह्य् अवयवस्थितास् तेषाम्अत्र व्यवस्था नास्तितथाप्य् अनुक्रमेणपरमार्थसत्येप्रविशन्ति। एवं द्वितीयरत्नकुलदेवतानांपरमार्थसत्येप्रवेशकाले [ल]क्षणंलक्षयेद् बुधः। वेदनास्कन्धे लीनेवातपित्तश्लेष्मसन्निपातादिकायिकवेदनानानुभूयते। समताज्ञाने लीने(54)त्रिप्रकारं मानसिकवेदनांन स्मारति। अब्धातौ लीने स्वकायेलालास्वेदमूत्ररक्तशुक्रादीनिशुष्यन्ति॥

श्रवणेन्द्रिये लीनेसबाह्याभ्यन्तरशब्दोन श्रूयते। शब्दविषये लीनेस्वकाये शब्दं न शृणोति। द्वितीयरत्नकुलदेवता-नुप्रवेशः॥

तृतीये पद्मकुलदेवतानांतथतायां प्रवेशकालेक्षणं लक्षयेद् बुधः। सं[ ? ] ज्ञास्कन्धे लीनेद्विपदादिसत्वानां संज्ञान समरति। प्रत्यवेक्षणाज्ञाने लीनेमातृपुत्र-बान्धवादीनांसर्वसंज्ञां जगति न स्मरति। तेजोधातौ लीने(55)सर्व्वाहरो न पच्यते। घ्राणेन्द्रिये लीनेमन्दाश्वसऊर्ध्वगतिश् च भवति[। ]गन्ध[विषये] लीने[विसविषय]स्वकायेगन्धविस(सिच्)यो न घ्रायते॥

त्रितीयपद्मकुलदेवता-नुप्रवेशः॥

चतुर्थकर्मकुलदेवतानांभूतकोट्यां प्रवेशम् आहलक्षणं लक्षयेद् बुधः। तत्र संस्कारस्कन्धे लीनेसर्वकायकरणीयंन प्रवर्त्तते। कृत्यानुष्ठाने लीनेबाह्यलौकिकस्थितिक्रियाव्यापारन्न स्मरति। वायुधातौ लीनेप्राणादिदशवायवःस्वस्थानाद् विच्छिद्यन्ते। जिह्वेन्द्रिये लीने(56)जिह्वा स्थूला ह्रस्वानीलमूला च भवति। रसविषये लीनेषड्रसो नानुभूयते। चतुर्थकर्मकुलदेवतानुप्रवेशः॥

शेषं प्रकृत्याभासंमञ्जुश्रीज्ञानंद्वितीयक्रमेणज्ञायते। स च प्राणायामेन सहंवज्रजापक्रमेण स्थित्वापिण्डग्रहानुप्रभेद[नीत्व]क्रमेणा-नाहतं साक्षात् कृत्वा। ततो धारणायाम्उपसंहारं करोति। तदाओं शून्यताज्ञानवज्रस्वभावात्मकोऽहम् इति(57)मन्त्रार्थः साक्षात्कृतो भवतिआहअस्य मन्त्रस्यार्थं निर्दिशतुभगवान् व [व]ज्रगुरुश् शास्ता। वज्रगुरुर् आह। भगवतैवविवृतं व्याख्यातन्त्रेतन् निर्दिश्यते। अथ तथागतास् सर्वेशू(सिच्)क्ष्मयोगे व्यवस्थिताः। ओ[ं]म् इत्य्[आद्य्]एकसंयुक्तंद्वितीयं शून्यतेति च। तृतीयं ज्ञानम् इत्य् एवचतुर्थम् वज्रसंज्ञकं। स्वभावात्मक पञ्चमाख्यंषष्ठो [ऽ]हम् इति प्रोच्यते। एवं तथागतषट्कंकथितं उत्तमे जने। ओं शून्यतेति युग्मादिज्ञान[ं] वज्रं द्वितीयकं। तत्स्वभावात्मकोऽहं स्यात्त्रितत्वं चात्र कल्पितं। (58)त्रितत्वम् एकं भवेत् सम्यक्व्यक्ताव्यक्तसंज्ञकं। अपि च वज्रधृक् कश्चित्त्रिशं(सिच्)केतान्वितो नरः। आवाहनं विसर्जनं स्यात्तथा स्थापनम् एव च। आवाहनं प्रवेशेनत्वरितेन विसर्जनं। बाष्पेण स्थापनं तत् स्याद्विश्वस्तात् सिद्धिर् उत्तमा॥

तत्तत्पुरुषा [प] योगेनमहामुद्रैकभावना। त्वरितादित्रये युक्तेमुद्रासाधनम् विधीयते॥

त्वरिते विबन्धे बाष्पेकथिता मन्त्रयोजना। कर्ण्णमूले तु शिष्यायआचार्येण प्रयत्नतः॥०॥

इतिश्रीगुह्यसमाजमहायोगतंत्रेपरमार्थमण्डल-व्यवस्था(59)परिच्छेदः पंचमव्यवस्थोलिस् समाप्ता॥०॥

कृतिर् आचार्य नागबुद्धिपादानाम्इति॥०॥

(60)