तत्त्वरत्नावली

अद्वयवज्रतत्त्वरत्नावलीनमः श्रिवज्रसत्त्वाय। प्रणम्य वज्रसत्त्वस्य चरणाम्भोरुहद्वयम्। तत्त्वरत्नावलीं ब्रूमः शरच्चन्द्रामलद्युतेः॥

(१)सदाम्नायपरिभ्रष्टतमोवृतदृशाम् इयम्। तत्त्वरत्नावली सम्यक् पुंसां तत्त्वप्रकाशिनी॥

(२)(उपोद्घातः)तत्र त्रीनि यानानि, श्रावकयानं प्रत्येकबुद्धयानं महायानंचेति। स्थितयश् चतस्रः, वैभाषिक-सौत्रान्तिक-योगाचार माध्यमिक-भेदेन। तत्र वैभाषिकस्थित्या श्रावकयानं प्रत्येकबुद्धयानंच व्याख्यायते। महायानं च द्विविधं, पारमितानयो मन्त्रनयश्चेति। तत्र च पारमितानयः सौत्रान्तिक-योगाचार-माध्यमिक-स्थित्याव्याख्यायते। मन्-त्रनयस् तु योगाचार-माध्यमिक-स्थित्या व्याख्या-यते। योगाचारश् च द्वि-विधः, साकार-निराकार-भेदेन। एवं माध्य्-अमिकोऽपि मायोपमाद्व-यवादि-सर्वधर्माप्रतिष्ठानवादि भेदात् द्वि-विधः। (श्रावकयानं)तत्र श्रावकः त्रिविधः, मृदुमध्याधिमात्रभेदात्। अत्र च मृदु-मध्यौ पाश्चात्यवैभाषिकौ, अधिमात्रस् तु काश्मीरवैभाषिकः। I. तत्र मृदुश्रावकस्य विचारः। नीलपीतादिबाह्यार्थाङ्गीकारपूर्वकंपुद्गलस्य नित्यानित्यत्ववियुक्तिम् आहेति विवृतिः। तद् उक्तम्-(प्१)अस्ति खल्व् इति नीलादि जगद् इति जडीयसे। भावग्रहग्रहावेशगम्भीरनयभीरवे॥

(३)अस्ति पुद्गलो- “भारवाहो ण णिच्चं भणामि णाणिच्चम् भणामी” ति, पु-द्गलश् च रागवान् संसरतीति रागप्रहाणायाशुधा भावना ध्यानम्। अशुभा भावना तु शरीरस्य बिण्-मूत्र-शुक्र-शोणित-श्लेस्मान्तान्त्र-सिंहा-नक-चिक्किण-क्लोमक-प्लीहा-यकृत्-प्रभृति-समुदायरूपतानिरूपणम्। तद् उक्तम्-इमं चर्मपुटं तावत् स्वबुद्धौ च पृथक्कुरु। अस्थिपञ्जरतो मांसं प्रज्ञाशस्त्रेण मोचय॥

(४)अस्थीन्य् अपि पृथक्कृत्वा पश्य मज्जानम् अन्ततः। किम् अत्र सारम् अस्तीति स्वयम् एव विचारय॥

(५)इति। पुद्गलस्य नित्यत्वदर्शनपूर्वारोहः समाधिमलम्। यावज् जीवंबुद्धं धर्मं संघं शरणं गच्छामि, किं पुनर् वन्द्यौ सु-गतौऽथ बुद्धौ, यावत् कुशलमूलं तम् एकम् आत्मानं दमयिष्याम्य्एक अत्मानं शमयिष्याम्य् एकम् आतमानं परिनिर्वापयि- ष्यामीतिदृष्टिः। II. मध्यस्या दृष्टिविवृतिः पूर्ववत्। किञ्चित् परार्थरुचिर् असौ, आनापा-नसमाधिना नित्यानित्यत्ववियुक्तपुद्गलदर्शनं ध्यानम्। कुम्भ-केन निश्चेष्ठीभावः समाधिमलं जाड्यावाहकत्वात्। III. श्रावक-अधिमात्रस्य बाह्यार्थाङ्गीकारिणः शरीरस्य नैरात्म्य-ताव्यवस्थापनं विवृतिः। चतुरार्यसत्यपरिज्ञाने पुद्गलस्य शून्यता-दर्शनं ध्यानं। अत्र च दुःखं पञ्चस्कन्धस्वरूपं ज्ञातव्यं। समुदयो विकल्पः प्रहातव्यः, निरोधो विपश्यना साक्षात्कर्तव्यः,मार्गः शून्यता भावयितव्येति, शून्यतायाः सदाशिवरूपताध्यारोपो ध्या-नमलम्। दृष्टौ पुनर् अस्य परार्थकारिताविशेषः। IV. अत्र च मृदुश्रावको नियतगोत्रत्वाद् अकारुणिकत्वात् शाक्यबुद्धएवेत्य् एके। अन्ये तु-(प्२)सर्वे बुद्धा भविष्यन्ति नाभव्यो भुवि विद्यते। न कर्तव्योऽवसादोऽस्मात् सम्यक्सम्बोधिसाधने॥

(६)इति सत्त्वानां मृदुश्रावकोऽपि सम्यक्सम्बुद्धो भविष्यतीति। नियतगोत्रं तु किञ्चित् बुद्धम् अपेक्षत इति मन्यते। मध्यस् तु भावि-प्रत्येकबुद्धः। अधिमात्रस् तु चतुःकल्पासंख्येयाभिनिर्वर्त्यबु-द्ध इति। (प्रत्येकबुद्धयानं)I. प्रत्येकबुद्धयानस्य विवृतिर् अधिमात्रश्रावकस्यैव। अयं च प्रतिपन्नपुद्गलशून्याचिन्त्यतालक्षणानाचार्यस्वयम्भूज्ञानविपश्यना-शमथः। तत्र इन्द्रियान् निरोधो विपश्यना पुद्गलस्यानुपलब्धिःकायवाक्चेतसां संयमः शमथः। इदम् अस्य ध्यानम्। अत्रासन्ननि-द्रस्य चेतसः सुखावस्थाध्यानम्, चेतसः सुषुप्तावस्थाध्यानं चसमाधिमलम्। तत्र पूर्वस्मिन् भास्करमतानुप्रवेशः। तद् उक्तम्-अनागतायां निद्रायां प्रनष्टे बाह्यगोचरे। या भवेन् मनसोऽवस्था भावयेत् तां प्रयत्नतः॥

(७)इति। अपरस्मिन् तु वैशेषिकमतानुप्रवेशः। तद् आहुः नागार्जुनपादाः-अजानानं हि प्रज्ञानं निद्रादृष्टान्तसाधितम्। इन्द्रियोपरतं यद्वज् ज्ञानं वैशेषिकं मतम्॥

(८)भगवतः प्रवचनम् अपि-वरं जेतवने रम्ये शृगालत्वं व्रजाम्य् अहम्। न तु वैशेषिकं मोक्षं गोत्वम् आगन्तुम् अर्हति॥

(९)इति। दृष्टिर् अपि पूर्ववत्। अयम् अपि चतुःकल्पासंख्येयाभिनिर्वर्त्यबु-द्धभावः। II. करुणा चानयोः श्रावकप्रत्येकबुद्धयोः स्त्त्वावलम्बना, दुः-खदुःखता-विपरिणामदुःखताभ्याम् अहन्यहनि सत्त्वान् आलम्ब्य याकरुणोत्पद्यते सा सत्त्वावलम्बना। श्रावकस्य देशना वाचकी प्रत्येकबु-द्धस्य तु कायिकी। तद् उक्तम्-(प्३)सम्बुद्धानाम् अनुत्पादे श्रावकानां पुनः क्षये। ज्ञानं प्रत्येकबुद्धानाम् असंसर्गात् प्रवर्तते॥

(१०)(महायानं)(पारमितानयः)I. इदानीं पारमितानययोगिन उच्यन्ते। तत्र मृदुः सौत्रान्तिकः, अस्यखलु परमाणुसञ्चयरुपोऽर्थः साकारज्ञानजनकः। तस्य चेयम् एवप्रत्यवेक्षणा यद् उत साकारज्ञानजनकत्वं नाम। तद् आहुः-भिन्नकालं कथं ग्राह्यम् इति चेद् ग्राह्यतां विदुः। हेतुत्वम् एव युक्तिज्ञा ज्ञानाकारार्पणक्षमम्॥

(११)इति विवृतिः। विषयेभय्ः परावृत्तेन्द्रियग्रामस्याचिन्त्यता धयानम्। तद्उक्तम् अभ्यासस्येयं कलना यत् कालः संख्या क्रियायाः। तस्मात् परिच-यः कर्तव्यः। परिचयश् च-चित्तं निश्चित्य बोधेन अभ्यासं कुरुते यदा। तदा चित्तं न पश्यामि क्व गतं स्थितं भवेत्॥

(१२)भावयेद् गृहिभूतेऽपि …….. षिलब्धाक्षणम् (?)वज्रपर्यङ्कम् आधाय नासाग्रे चञ्चलं मनः॥

(१३)मलम् अस्य समाधेः पूर्ववत्। त्रितयानुपलब्ध्या प्रज्ञापारमितास्व-भावेन पञ्चपारमिताचरणं फलवैमुख्येन सत्त्वार्थपरिणामनातद् दृष्टिर् इति। II. मध्यो योगाचारः। तत्र साकारारविज्ञानवादी “षट्केन युगपद् यो-गात् परमाणोः षडङ्गते” त्य् आदिना न्यायेन परमाणूनाम् अप्य् अनुपपत्-तेः। चित्तमात्रम् एवेदं चित्ताकारधारि ग्राह्यग्राहकभावविनिर्मुक्तंप्रकाशं प्रकाशत इति प्रतिपन्नवान्। तद् उक्तं चित्तमात्रं भो जिन-पुत्रा ! यद् उत त्रैधातुकम् इति। तथा चाहुः कीर्तिपादाः-धियो नीलादिरूपत्वे बाह्योऽर्थः किंनिबन्धनः। धियोऽनीलादिरूपत्वे बाह्योऽर्थं किंनिबन्धनः॥

(१४)इति। अन्यत्राप्य् उक्तम्-(४)न चित्तेषु भरिभूता इन्द्रियार्थाः स्वभावतः। रूपादिप्रतिभासेन चित्तम् एव हि भासते॥

(१५)तस्मात् चित्तम् एव चित्राकारं परं निरपेक्षप्रकाश्यं प्रकाशत इतिसाकारविज्ञानवादियोगाचारस्य विवृतिः। निराकारवादियोगाचरस् तु चित्तम् एव इदम् अनाकारस्वसम्वेदनरूपंइति मन्यते। तद् उक्तम्-भाह्ये न विद्यते ह्य् अर्थो यथा बालैर् विकल्प्यते। वासनालुठितं चित्तम् अर्थभासं प्रवर्तते॥

(१६)यावद् आभासते यच् च तन् मायैव च भासते। तत्त्वतो हि निराभासः शुद्धानन्तनभोनिभः॥

(१७)निष्प्रपञ्चो निराभासो धर्मकायो महामुनेः। रूपकायौ तदुद्भूतौ पृष्ठे मायैव तिष्ठते॥

(१८)इति विवृतिः। विधूतसकलविकल्पसच्चित्ताद्वैतसाक्षात्करणं ध्यानं साकारवादि-नः। तद् उक्तम्-यत्र यत्र मनो याति ज्ञेये तत्रैव योजयेत्। चलित्वा यास्यते कुत्र सर्वम् एव हि तन्मयम्॥

(१९)इति। शाताद्वयाचिन्त्यनिष्प्रपञ्चनिराभासचित्तसाक्षात्करणं ध्यानंनिराकारवादिनः। तथा च-रूपम् अस्य मतं स्वच्छं निराकारं निरञ्जनम्। शक्यं तेन न हि ज्ञातुम् अबुद्धेन कदाचन॥

(२०)विज्ञप्तिमात्रम् एवदम् इत्य् अपि ह्य् उपलम्भतः। स्थापयन्न् अग्रतः किञ्चित् तन्मात्रे नावतिष्ठते॥

(२१)यदा त्व् आलम्बनं ज्ञानं नैवोपलभते तदा। स्थितं विज्ञानमात्रत्वे ग्राह्याभावे तद् अग्रहात्॥

(२२)परमार्थसन्नित्यसाकारविज्ञानसमाधौ भगवतः संस्थितवेदान्त-वादिमतानुप्रवेशः। स हि परमार्थसन्नित्यं स्वचिद् रूपब्रह्माभि-(५)न्नपरिणामरूपं जगद् इच्छति। तथा चोक्तम्-यद् यद् वै दृश्यते किञ्चित् तत् तत् ब्रह्मेति कल्पयेत्। ततो नान्यगतं चित्तं ब्रह्मण्य् एवावतिष्ठते॥

(२३)इति समाहिमलं साकारवादिनः। एवं निराकारवादिनापि नित्यनिराभासनिष्प्रपञ्चस्वसम्वेदनविज्ञान-भावनायां भास्करमतस्थितवेदान्तवादिमतानुप्रवेशप्रसङ्गः। सोऽपि व्यपगतसकलनामरूपप्रपञ्चोपप्लवविशुद्धप्रकाशानन्दघ-ननित्यब्रह्माभ्युपगच्छति। बोधाम्भोधौ मयि स्वच्छं तच् छायम् विश्वबुद्धयः। उदितो वा प्रलीनो वा न विकल्पाय कल्पते॥

(२४)इति निराकारवादिनः समाधिमलम्। दृष्टिर् अनयोः पूर्ववत्। III. अधिमात्रो माध्यमिकः। तत्र मायोपमाद्वयवादिनः विवृतिः-न सन् नासन् न सदसन् न चाप्य् अनुभयात्मकम्। चतुष्कोटिविनिर्मुक्तं तत्त्वं माध्यमिका विदुः॥

(२५)अस्य चायम् अर्थः। न सद् बाधायोगात्, असद् अपि न चाभासनवशात्, तथादोषाद् द्वन्द्वात् उभयम् अपि न, नाप्य् अनुभयं तथा बोधाभावाद् इति। अपि च पूर्वेतरपरामर्शात्-मूर्तिश् चित्रे यथावस्तुशक्ति- - स्कवासङ्गः (?)! (२६)स हि मायोपमादेवयेति विवृतिः। अस्यैव च मायोपमाद्वयस्य भावनाध्यानम्। यस् तत्रोच्छेदाभिनिवेशस् तद् ध्यानमलम्। मायोपमाद्व-याधिमोक्षतः षट्पारमितापरिपूरिणी दृष्टिः। सर्वधर्माप्रतिष्ठानवादि-नां त्व् अयं विचारः-न मतम् शाश्वतं विश्वं न चोच्छेदिसमीहितम्। शाश्वतोच्छेदिनो युग्मां नानुभयं विनोभयम्॥

(२७)सवस्मिन्न् अप्रटिष्ठाने वस्तुतत्त्वं विदुर् बुद्धाः। अथैषा कल्पना नैव यच् चिद् वेत्ति न चित्तताम्॥

(२८)यो वित् सर्वसमारोपः स सर्वः सर्वथा न हि। (६)मध्यमार्थो निरारोपस् तत्रापोहविधी कुतः॥

(२९)अनाभोगं हि यद् ज्ञानं तच् चान्त्यं प्रचक्षते। सञ्चिन्ति यद् अचिन्त्यं वै तद् अचिन्त्यं भवेन् न हि॥

(३०)येनाजातं जगद् बुद्धं बुद्धिः शुद्धैव बोधतः। निजं तस्य जगत् सत्यम् अनाभोगेन धीमतः॥

(३१)तद् उक्तम्-सर्वारोपविनिर्मुक्ते स्वतस् तत्त्वे चकासति। शून्यताद्यभिधानैस् तु तत्रारोपनिराक्रिया॥

(३२)अस्य च विचाराय आयातस्य अर्थस्य अनारोपरूपस्य अनभिनिवेशविहारेणसाक्षात्क्रिया ध्यानं। सर्वार्थोच्छेदो जडीभावः समाधिमलम्। अनारो-पेण षट्पारमितापरिपूरणं दृष्टिः। IV. अत्र मृदुमध्ययोर् धर्मावलम्बना करुणा। धर्मावलम्-बना चानित्यताव्यसनसम्पातिनः सर्वधर्मान् आलम्ब्य उत्पद्यते यासा बोद्धव्या। अभिमात्रस्य च आलम्बननिःस्वभावा मनस्कारधर्मा-धिगमानालम्बना करुणा। कायत्रयव्यवस्था चास्य मैत्रेयनाथैर्उक्ता। तथा च-करोति येन चित्राणि हितानि जगतः समम्। आ भवात् सोऽनुपच्छन्नः कायो नैर्माणिको मुनेः॥

(३३)द्वात्रिंशल्लक्षणाशीतिव्यञ्जनात्मा मुनेर् अयम्। साम्भोगिको मतः कायो महायानोपभोगतः॥

(३४)सर्वाकारां विशुद्धिं ये धर्माः प्राप्ता निरास्रवाः। स्वाभाविको मुनेः कायस् तेषां प्रकृतिलक्षणः॥

(३५)इति। (मन्त्रनयः)मन्त्रनयस् तु अस्माभिर् इहातिगम्भीरत्वाद् गम्भीरनयाधिमुक्तिक-पुरुषविषयत्वात् चतुर्मुद्रादिसाधनप्रकाशनविस्तरत्वाच् च न व्याक्-रियते। तथा च-(७)एकार्थत्वेऽप्य् असंमोहात् बहूपायाद् अदुष्करात्। तीक्ष्णेन्द्रियाधिकाराच् च मन्त्रशास्त्रं विशिष्यते॥

(३६)कृतश् चास्माभिर् अत्र सेकनिर्णयो नाम ग्रन्थः। (अवसानं)ननु यदि महायाननिर्णीत एवार्थः परमार्थोऽस्ति अत्र किम् अर्थं तर्हिश्रावकप्रत्येकबुद्धयाने भगवान् देशितवान्, तन् न , महायानप्राप्य-प्रापनार्थम् एव श्रावकप्रत्येकबुद्धयानसोपानयोर् निर्माणात्। तद्उक्तम्-आधिकर्मिकसत्त्वस्य परमार्थावतारणे। उपायस् त्व् अयं सम्बुद्धैः सोपानम् इव निर्मितः॥

(३७)सद्धर्मपुण्डरीकेऽप्य् उक्तम्-एकं तु यानं हि नयश् च एक एका चियं देशन नायकानां। उपायकौशल्य ममैवरूपं यत् त्रीणि यानान्य् उपदर्शयामि॥

(३८)नागार्जुनपादैर् अप्य् उक्तम्-धर्मधातोर् असंभेदाद् ध्यानभेदोऽस्ति न प्रभो। यानत्रितयम् आख्यातं त्वया सत्त्वावतारतः॥

(३९)अन्यत्राप्य् उक्तम्-मुक्तिस् तु शून्यतादृष्टिस् तदर्थाशेषभावणा। (४०)इति। इदं च यानत्रितयप्रकाशनं मन्यमानशून्यता सैव भगवतोऽवगन्तव्यः। तथाहि-नोदाहृतं त्वया किञ्चिद् एकम् अप्य् अक्षरं विभो। कृत्स्नश् च वैनेयजनो धर्मवर्षनतर्पितः॥

(४१)चिन्तामणिर् इवाकम्प्यः सर्वसङ्कल्पवायुभिः। तथापि सर्वसत्त्वानाम् अशेषाशाप्रपूरकः॥

(४२)चक्रभ्रमणयोगेन निर्विकल्पेऽपि तायिनः। सम्भारो वेधसामर्थ्यात् देशना सम्प्रवर्तते॥

(४३)यानानां नास्ति वै निष्ठा यावच् चित्तं प्रवर्तते। (८)परावृत्ते तु वै चित्ते न यानं नापि यायिनः॥

(४४)सद्धर्मरत्नघटिका वाग् ह्य् अत्र ग्रथितामला। हृदये क्रियतां धीरास् तत्त्वरत्नावली मुदे॥

(४५)संग्रहे तु प्रियत्वेन विस्तरद्वेषिणा मया। भूरिर् अनुत्तमे तस्मिन् क्षन्तव्यो विस्तरप्रियः॥

(४६)विधाय भव्यार्थनायप्रयत्नाद् इमं मया ग्रन्थम् अनुत्तरा-र्थम्। आलम्भि यत् पुण्यम् अनेन लोकस् तथागतत्वं लभताम् अलभ्यम्॥

(४७)तत्त्वरत्नावली समाप्ता॥

कृतिर् इयं पण्डितावधूताद्वयवज्रपादानाम्॥

(९)