श्रीसहजसिद्धिनमः श्रीवज्रनाथायसहजसिद्धिं प्रवक्ष्यामि सत्त्वानुग्रहहेतुना। होमयागतपोतीतं आदिकर्मिकवर्जितं॥१॥
सहजवस्तुस्वरूपं तु सान्त्यदिद्धिर् उच्यते। सहजसिद्धिर् भवेत् तस्मात् [अवाच्यं] सहजं स्मृतं॥२॥
खधातौ च भगं ध्यात्वा मध्ये कुर्वीत भावनाचक्रपूर्वं यथान्यायं देवतानां यथोदयं॥३॥
खधाताव् इति पद्मेति ज्ञानं भगम् इति स्मृतम्। भावनेति समापत्ति तत्सुखं चक्रम् उच्यते॥४॥
यथान्यायं स्वसंवेद्यं बोधिचित्तन् तु देवतायथोदयं भवेत् शून्यं द्विविधं सहजं स्थितम्॥५॥
योषिता तु भवेत् प्रज्ञा उपायः पुरुषः स्मृतम्पश्चाद् अनयोर् द्वैविध्यं विवृति[संवृति]भेदतः॥६॥
पूंषि तावत् द्वैविध्यं शुक्रं तस्य सुखं च वा। प्रज्ञायाम् अपि यथा पूंसि शुक्रं तस्य सुखं च वा॥७॥
अतः एव हि आनन्दः चतुर्णां संप्रभेदतः। (१)सहजं चतुर्विधं यस्मात् सम्यक्संबुद्धभाषितं॥८॥
आनन्देन सुखं किञ्चित् परमानन्दं तदधिकम्। विरमानन्दं विरागः स्यात् सहजानन्दं तु शेषतः॥९॥
प्रथमं [स्पर्शकाङ्क्षा च] द्वितीयं सुखबोधकम्। तृतीयं रागनाशत्वं चतुर्थं तेन भण्यते॥१०॥
[प्रथमं] उष्मायते प्रज्ञा द्वितीयं धूम[व]ती भवेत्। तृतीये त्यजति स्फली चतुर्थे ज्वलिता यथा॥११॥
चण्डालि [ = ली] ज्वलते नाभौ दहति पञ्चतथागतान्। दहति लोचनादीन् दग्धे हम् स्रवते शशी॥१२॥
पूर्वं यद्व [च् च] द्वैविध्यं बोधिचित्तं कृतं जि [नैः]। तद्वद् अत्रापि द्रष्टव्यं प्रज्ञावज्रसमागमं॥१३॥
रूपं शब्दः तथा गन्धो [र]सः स्पर्शस् तथैव च। (२)धर्मधातुस्वभावश् च यथा ईर्ष्येण चर्यते। एकैकायतने [नन्दह् स] द्रष्टव्यः [चतुश्चतुः]॥१४॥
नान्येन कथयते सहजं न कस्मिन्न् अपि लभ्यते। [आत्मना] ज्ञायते पुण्यगुरुं प्रबोधसेवया॥१५॥
श्रीडोम्बिहेरुकपादकृतायां सहजसिद्धौ सहजनिर्देशः प्रथमः। IIहीनमध्यमोत्कृष्टानि अन्यानि यानि तानि च। सर्वे तानि समानी[ति] द्रष्टव्यानि तत्त्वभावनैः॥१॥
हीनं सुक्ष्मपदार्थं तु उत्कृष्टं भावम् उच्यते। मध्यमं वर्जितं द्वाभ्यां अन्यानीति षडिन्द्रियम्॥२॥
स्थिरचला यानि तानीति हीनकलानि। [समा]नि तुल्य चेष्टानि समरसं तत्त्वभावनैः॥३॥
समं तुल्यं इत्य् उक्तं त[द् ए]वैकरसं स्मृतम्। समरसं एकभाव्यं तु एतेनार्थेन भण्यते॥४॥
कुलानि भजते लोके पञ्चसंख्यानि च। कुलसेवा[ = वया] भवेत् सिद्धिः सर्वकामप्रदा शुभा॥५॥
(३)अक्षोभयश् चामिताभश् च रत्नसंभव भूपतिः। अमोघश् च तथा प्रोक्ता सत्त्वानां सिद्धिहेतुना॥६॥
अक्षोभ्यः वज्रम् इत्य् उक्तं अमिताभ पद्मम् एव च। रत्नसंभवः रत्नं वैरोचन तथागत [श् च]॥७॥
अमोघः कर्म इत्य् उक्तम् कुलान्य् एतानि संक्षिपेत्। कुलसेवा [ = वया ] भवेत् सिद्धिःसम्यक्संबुद्धभाषितम्॥८॥
त्रासे न रोचते लोके हकारादिकुलानि तु। मूढानाम् उपदेशो हि प्रकोपाय न शान्तये॥९॥
हेवज्रो ज्ञायते तेन श्रद्धया वा श्रुते सति। गोपितं दुर्भगसत्त्वेषु[सुभगेभ्यश् च] कथ्यते॥१०॥
समयानि सेवितव्यानि दशसंख्या कृतानि च। [सहजत्वात् द्विधा] भेदात् पञ्चपञ्च पृथक् पृथक्॥११॥
गकारादि हकारादि अन्तमध्यादि आदिवा। नकाराद् एको भयाद् वा गुप्त लोकप्रवादतः॥१२॥
बाह्ये कृष्णवर्णं च शुक्लवर्णं रक्तं च। श्यामपीतं च वर्णभेदेन ज्ञास्यन्ते तथागताः॥१३॥
सहजसंगतं हि जगत् सर्वं यद् उत भुवनत्रयम्। तेनैव व्यापितं[सर्वं] पानमः य जगत्॥१४॥
एवं मत्वा तु योगी अहं एतादृशो ध्रुवम्(४)विचार्यते महाधीमान् सुरतं सहजानन्दवत्॥१५॥
खाने पाने तथा [स्नाने] जाग्रतह् स्वप्नेऽपि चिन्तयेत्। सातत्यं तु ततो यान्ति सुख्[आ]वत्य्[अभि]काङ्क्षिणः॥१६॥
श्रीडोम्बिहेरुकपादकृतायां सहजसिद्धौ समयतत्त्वनिर्देशः द्वितीयः। IIIयद् उक्तं बाह्यं च यत् तु समोमथेवतायने। हेवज्रयोगिनीतन्त्रे पश्चाद् वीरस्य कथ्यते॥१॥
चात्रस्यातत्रस्यत्पातु ब्रह्मा सौचताः। सदा शौच्यन् तु कर्तव्यं न कायाचितवाचने॥२॥
पुण्यज्ञानेन शोच्यन्ते स्वसंवेद्यसुखेन वा। स्वसंवेद्यात्मिका शुद्धिः नान्यशुद्ध्या विमुच्यते॥३॥
वेदासावेदावृतेन चर्या सेति निदर्शिता। सेवया सेवकानां तु चरेत् सा चर्येति स्मृत॥४॥
सिद्धिलब्धोऽपि यः शिष्यः गुरुवन् नाभिवन्दयेत्। अवीच्यादिविशोऽपि स्यात् क्षणात् गुरूक्तिलङ् घनात्॥५॥
(५)भाव्यते हि जगत् सर्वं मनसा यन् न भाव्यते। सर्वधर्मपरिज्ञानं भावना नैव भावना॥६॥
स्थिरचला ये भावा लतागुल्मतृणादयः। भावयेत् वै परं तत्त्वं आत्मभावस्वरूपकम्॥७॥
तेषाम् एवं परं नात्र स्वसंवेद्यमहासुख। स्वसंवेद्या भवेत् सिद्धिः स्वसंवेद्या हि भावना॥८॥
स्वसंवेद्यमयं कर्म भावना कर्म जायते। स्वयं कर्ता स्वयं हर्ता स्वयं राजा स्वयं प्रभूः॥
९॥
रागद्वेषं तथैवे[र्ष्या]मोहो मानो तथैव च। पञ्चक्लेशा तु द्रष्टव्या विद्याराज्ञो महासुखात्॥१०॥
अवभुक्तामपि……………………………………………………………………………………………………………………………॥११॥
ततो यान्ति सुखावत्यां सिद्धवीरो महासुख। परमार्थं समा[श्रि]त्य सर्वाकारेण तिष्ठति॥१२॥
[सिद्धिसमये] पञ्चभिज्ञोऽपि भवति। दिव्य चक्षुः दिव्य श्रोत दिव्यघ्राणः दिव्य स्पर्शः दिव्य रसः दिव्य(६)मनोकायः अन्यत्र स्थिता संभोगसमन्वितश्चेति॥
श्रीडोम्बिहेरुकपादकृतायां सहजसिद्धौ समय सिद्धिनिर्णय्-अनिर्देशः [तृतीयः]॥
श्रीडोम्बिहेरुकपादकृतीः सहजसिद्धिः समाप्ता॥
(७)