श्रीहेवज्रभट्टारकस्य चक्रविंशतिकास्तोत्र

p.1 श्रीहेवज्रभट्टारकस्य चक्रविंशतिकास्तोत्र ( च्व्स् ) ओं नमः श्रीहेवज्राय॥

सर्वभावस्वभावाग्र्यम् आद्यं सर्वात्मनि स्थितम्।
प्रज्ञोपायाद्वयं वीरं हेवज्रं प्रणमाम्य् अहम्॥१॥

भक्त्या नमामि तं नाथं नैरात्म्याश्लिष्टकन्धरम्।
पिण्गलोर्ध्वज्वलत्केशम् अष्टास्यं नयनैस् त्रिभिः॥२॥

ऊर्ध्वमूले सितकृष्णे सितरक्ते दक्षिणेतरे।
कृष्णवक्त्राणि शेषाणि यस्य तं प्रणमाम्य् अहम्॥३॥

हस्त्यश्वखरगावोष्ट्रनरश्वमहिषान्वितैः।
कपालैर् अष्टभिर् युक्तं दक्षिणाष्टभुजस्थितैः॥४॥

क्षित्यापवायुतेजश् च चन्द्रार्कयमगुह्यकान्।
धत्ते वामभुजाष्टस्थकपालेषु नमामि तम्॥५॥

चतुर्मारसमाक्रान्तं चतुश्चरणदिगम्बरम्।
सूर्यालिढपदं नीलं नृत्यमानं नमाम्य् अहम्॥६॥

p.2 चतुश्चक्रात्मकं घोरैः स्रवन्मुण्डैर् विभूषितम्।
तथागतविशुद्धाभिर् मुद्राभिः समलंकृतम्॥७॥

विश्ववज्राण्कितं मूर्ध्नि कुलाधिपतिमस्तकम्।
परमानन्दसंप्राप्तं वन्दे ऽहं तं महासुखम्॥८॥

पूर्वे गंकारजां गौरीं कृष्णाण्गीं वामरोहिताम्।
दक्षिणे कर्त्तिकासक्तां ब्रह्माक्रान्तां नमाम्य् अहम्॥९॥

चंकारसंभवां चौरीं माञ्जिष्ठाभां तु दक्षिणे।
वराहडमरुहस्तां च इन्द्रारूढां नमाम्य् अहम्॥१०॥

वंकारजनितां पीतां वेतालीं ताम् उपेन्द्रगाम्।
वामे पात्रकरां सव्ये कूर्महस्तां नमाम्य् अहम्॥११॥

घस्मरीम् उत्तरद्वारे श्यामां घंकारसंभवाम्।
कपालाहिकरव्यग्रां रुद्रारूढां नमाम्य् अहम्॥१२॥

नमामि पुक्कसीं नीलां यमाक्रान्तां पुंउद्भवाम्।
परशुं वामेतरे सिंहम् ऐशान्यां घोररूपिणीम्॥१३॥

शबरीं शंकारजां शुक्लाम् आग्नेय्यां धनदस्थिताम्।
वामे खिक्खिरिका सव्ये नमामि पतिधारिणीम्॥१४॥

p.3 चण्डालीं गगनश्यामां नैरृत्ये चंसमुद्भवाम्।
हलं वामेतरे चक्रं नौमि राक्षसमर्दनीम्॥१५॥

डंकारजनितां डोम्बीं वायव्ये वेमचित्रिगाम्।
तर्जनीवज्रहस्तां च कर्बुराभां नमाम्य् अहम्॥१६॥

अर्धपर्यण्कनाट्यस्थाः पञ्चमुद्राविभूषिताः।
नग्नास् त्रिलोचनाः सर्वा भक्तितः प्रणमाम्य् अहम्॥१७॥

स्कन्धधातुविशुद्धाश् च बोधिचित्तसमुद्भवाः।
नमामि सर्वभावेन एताः सर्वाः सुखप्रदाः॥१८॥

स्वदक्षिणभुजासक्तचिह्नबीजविनिर्गताः।
महासुखरताः सर्वाः सदा सम्यग् नमाम्य् अहम्॥१९॥

यश् चन्द्रार्कपुटस्थबीजयुगलाज् जातः सविद्यः प्रभुस् त्रैलोक्यं निजमण्डलाकृतिम् इदं निर्माय युक्त्या स्वयम्।
संहृत्यात्मनि सर्वम् एतद् अखिलं विद्यां च सत्सौख्यदां प्रज्ञारागरसामृते निजपदे लीनस् तु तस्मै नमः॥२०॥

स्तुत्वा सदेवतीचक्रं हेवज्रं डाकिनीप्रभुम्।
यन् मयोपार्जितं पुण्यं तेन लोको ऽस्तु तत्समः॥॥

श्रीहेवज्रभट्टारकस्य चक्रविंशिकास्तोत्रं समाप्तम् ॥॥

कृतिर् इयं सिद्धाचार्यसोरोरुहपादानाम् इति॥॥